स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः १२

विकिस्रोतः तः

॥ प्रह्लाद उवाच ॥ ॥
ततो गच्छेद्द्विजश्रेष्ठा गोप्रचारमतः परम् ॥
यत्र स्नात्वा नरो भक्त्या लभेद्गोदानजं फलम् ॥ १ ॥
यत्र स्नातो जगन्नाथो नभस्ये दैवतैर्वृतः ॥
कटदानं च तत्प्रोक्तं द्वादश्यां द्विजसत्तमाः ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं तु तत्र दैत्येन्द्राऽभवद्वै गोप्रचारकम् ॥
तीर्थं कथय तत्त्वेन यत्र स्नातो जनार्द्दनः ॥ ३ ॥
॥ प्रह्लाद उवाच ॥ ॥
हते कंसे भोजराजे कृष्णेनामिततेजसा ॥
उग्रसेने चाभिषिक्ते मधुपुर्य्यां महात्मना ॥ ४ ॥
उद्धवं प्रेषयामास गोकुले गोकुलप्रियः ॥
सुहृदां प्रियकामार्थं गोपगोपीजनस्य च ॥ ५ ॥
नमस्कृत्य च गोविदं प्रययौ नंदगोकुलम् ॥
स तत्सदृशवेषेण वस्त्रालंकारभूषणैः ॥ ६ ॥
तं दृष्ट्वा दिवसस्यांते गोविंदानुचरं प्रियम् ॥
उद्धवं पूजयामास वस्त्रालंकारभूषणैः ॥ ७ ॥
तं भुक्तवंतं विश्रांतं यशोदा पुत्रवत्सला ॥
आनंदबाष्पपूर्णाक्षी पप्रच्छानामयं हरेः ॥ ८ ॥
कच्चिद्धि स्तः सुखं पुत्रौ रामकृष्णौ यदूत्तमौ ॥
कच्चित्स्मरति गोविंदो वयस्यान्गोपबालकान् ॥ ९ ॥
कच्चिदेष्यति गोविंदो गोकुलं मधुरेश्वरः ॥
तारयिष्यति पुत्रोऽसौ गोकुलं वृजिनार्णवात् ॥ 7.4.12.१० ॥
इत्युक्त्वा बाष्पपूर्णाक्षौ यशोदा नंद एव च ॥
दीर्घं रुरुदतुर्दीनौ पुत्रस्नेहवशंगतौ ॥ ११ ॥
उद्धवस्तौ ततो दृष्ट्वा प्राणसंशयमागतौ ॥
मधुरैः कृष्णसंदेशैः स्नेहयुक्तैरजीवयत् ॥ १२ ॥
नमस्करोति भवतीं भवंतं च सहाग्रजः ॥
अनामयं पृष्टवांश्च तौ च क्षेमेण तिष्ठतः ॥ १३ ॥
क्षिप्रमेष्यति दाशार्हो रामेण सहितो विभुः ॥
अत्रागत्य जगन्नाथो विधास्यति च वो हितम् ॥ १४ ॥
इत्येवं कृष्णसंदेशैः समाश्वास्योद्धवस्तदा ॥
सुखं सुष्वाप शयने नन्दाद्यैरभिनंदितः ॥ १५ ॥
गोप्यस्तदा रथं दृष्ट्वा द्वारे नंदस्य विस्मिताः ॥
कोऽयं कोऽयमिति प्राहुः कृष्णागमनशंकया ॥ १६ ॥
गोपालराजस्य गृहे रथेनादित्यवर्चसा ॥
समागतो महाबाहुः कृष्णवेषानुगस्तथा ॥ १७ ॥
परस्परं समागम्य सर्वास्ता व्रजयोषितः ॥
विविक्ते कृष्णदूतं तं पप्रच्छुः शोककर्षिताः ॥ १८ ॥ ॥
श्रीगोप्य ऊचुः ॥ ॥
कस्मात्त्वमिह संप्राप्तः किं ते कार्य्यमिहाद्य वै ॥
दस्युरूपप्रतिच्छन्नो ह्यस्मान्संहर्तुमिच्छसि ॥ १९ ॥
पूर्वमेव हतं तेन कृष्णेन हृदयादिकम्॥
पाययित्वाऽधरविषं योषिद्व्रातं पलायितः ॥ 7.4.12.२० ॥
इत्येवमुक्त्वा ता गोप्यो मुमुहुः शोकविह्वलाः ॥
ईक्षंत्यः कृष्णदासं तं निपेतुर्धरणीतले ॥ २१ ॥
उद्धवस्तं जनं दृष्ट्वा कृष्णस्नेहहृताशयम् ॥
आश्वासयामास तदा वाक्यैः श्रोत्रसुखावहैः ॥ २२ ॥
॥ उद्धव उवाच ॥ ॥
भगवानपि दाशार्हः कन्दर्पशरपीडितः ॥
न भुंक्ते न स्वपिति च चिन्तयन्वस्त्वहर्निशम् ॥ २३ ॥
तच्छ्रुत्वा वचनं तस्य ललिता क्रोधमूर्छिता ॥
उद्धवं ताम्रनयना प्रोवाच रुदती तदा ॥ २४ ॥
॥ ललितोवाच ॥ ॥
असत्यो भिन्नमर्य्यादः क्रूरः क्रूरजनप्रियः ॥
त्वं मा कृथा नः पुरतः कथां तस्याऽकृतात्मनः ॥ २५ ॥
धिग्धिक्पापसमाचारो धिग्धिग्वै निष्ठुराशयः ॥
हित्वा यः स्त्रीजनं मूढो गतो द्वारवतीं हरिः ॥ २६ ॥ ॥
॥ श्यामलोवाच ॥ ॥
किं तस्य मन्दभाग्यस्य अल्पपुण्यस्य दुर्मतेः ॥
मा कुरुध्वं कथाः साध्व्यः कथां कथयताऽपराम् ॥ २७ ॥ ॥
॥ धन्योवाच ॥ ॥
केनायं हि समानीतो दूतो दुष्टजनस्य च ॥
यातु तेन पथा पापः पुनर्नायाति येन च ॥२८॥
॥ विशाखोवाच ॥ ॥
न शीलं न कुलं यस्य नास्ति पापकृतं भयम् ॥
तस्य स्त्रीहनने साध्व्यो ज्ञायते जन्म कर्म च ॥
हीनस्य पुरुषार्थेन तेन संगो निरर्थकः ॥ २९ ॥ ॥
॥ राधोवाच ॥ ॥
भूतानां घातने यस्य नास्ति पापकृतं भयम् ॥
तस्य स्त्रीहनने साध्व्यः शंका कापि न विद्यते ॥ 7.4.12.३० ॥
॥ शैब्योवाच ॥ ॥
सत्यं ब्रूहि महाभाग किं करोति यदूत्तमः ॥
संगतो नागरस्त्रीभिरस्माकं किं कथां स्मरेत् ॥ ३१ ॥
॥ पद्मोवाच ॥ ॥
कदोद्धव महाभाग नागरीजनवल्लभः ॥
समेष्यतीह दाशार्हः पद्मपत्रायतेक्षणः ॥ ३२ ॥
॥ भद्रोवाच ॥ ॥
हा कृष्ण हा गोपवर हा गोपीजनवल्लभ ॥
समुद्धर महाबाहो गोपीः संसारसागरात्॥ ३३ ॥
॥ प्रह्लाद उवाच ॥ ॥
इति ता विविधैर्वाक्यैर्विलपंत्यो व्रजस्त्रियः ॥
रुरुदुः सुस्वरं देव्यः स्मरंत्यः कृष्ण चेष्टितम् ॥ ३४ ॥
तासां तद्रुदितं श्रुत्वा भक्तिस्नेहसमन्वितः ॥
विस्मयं परमं गत्वा साधुसाध्विति चाब्रवीत् ॥ ३५ ॥
॥ उद्धव उवाच ॥ ॥
यं न ब्रह्मा न च हरो न देवा न महर्षयः ॥
स्वभावमनुगच्छंति सर्वा धन्या व्रजस्त्रियः ॥ ३६ ॥
सर्वासां सफलं जन्म जीवितं यौवनं धनम् ॥
यासां भवेद्भगवति भक्तिरव्यभिचारिणी ॥ ३७ ॥
॥ गोप्य ऊचुः ॥ ॥
साधु दर्शय गोविंदं साधु दर्शय वल्लभम् ॥
नयास्मान्साधु तत्रैव यत्र तिष्ठति सोऽच्युतः ॥ ३७ ॥
॥ प्रह्लाद उवाच ॥ ॥
तासां तद्भाषितं श्रुत्वा तथा विलपितं बहु ॥
बाढमित्येव ता ऊच उद्धवः स्नेहविह्वलाः ॥ ३९ ॥
उद्धवेन समं सर्वास्ततस्ता व्रजयोषितः ॥
अनुजग्मुर्मुदा युक्ताः कृष्णदर्शनलालसाः ॥ 7.4.12.४० ॥
गायन्त्यः प्रियगीतानि तद्बालचरितानि च ॥
जग्मुः सहैव शनकैरुद्धवेन व्रजांगनाः ॥ ४१ ॥
यदुपुर्य्यां ततो दृष्ट्वा उद्यानविपिनावलीः ॥
अद्य देवं प्रपश्यामः कृष्णाख्यं नंदनंदनम् ॥ ॥ ४२ ॥
द्वारवत्यां तु गमनाद्ध्यानाल्लक्ष्मीपतेस्तदा ॥
अशेषकल्मषान्मुक्ता विध्वस्ताखिलबन्धनाः ॥ ४३ ॥
संप्राप्तास्तास्ततः सर्वास्तीरे मयसरस्य च ॥
प्रणिपत्योद्धवः प्राह गोपिकाः कृष्णदेवताः ॥ ४४ ॥
स्थीयतां मातरश्चात्रात्रैवेष्यति महाभुजः ॥
कृष्णः कमलपत्राक्षो विधास्यति च वो हितम् ॥ ४५ ॥
॥ गोप्य ऊचुः ॥ ॥
कस्योद्धव इदं चात्र सरः सारसशोभितम् ॥
संपूर्णं पंकजैश्चित्रैः कल्हारकुमुदोत्पलैः ॥ ४६ ॥ ॥
॥ उद्धव उवाच ॥ ॥
मयो नाम महादैत्यो मायावी लोकविश्रुतः ॥
कृतं तेन सरः शुभ्रं तस्य नाम्ना च विश्रुतम् ॥ ४७ ॥
॥ श्रीगोप्य ऊचुः ॥ ॥
शीघ्रमानय गोविंदं साधु दर्शय चाच्युतम्॥
नयनानंदजननं तापत्रयविनाशनम् ॥ ४८ ॥
तच्छ्रुत्वा वचनं तासां गोपिकानां तदोद्धवः ॥
दूतैः समानयामास श्रीकृष्णं शीघ्रयायिभिः ॥ ४९ ॥
आयांतं शीघ्रयानेन दृष्ट्वा देवकिनंदनम् ॥
भ्राजमानं सुवपुषा वनमालाविभूषितम् ॥ ॥ 7.4.12.५० ॥
ज्वलत्किरीटमुकुटं स्फुरन्मकरकुण्डलम्॥
श्रीवत्सांकं महाबाहुं पीतकौशेयवाससम् ॥ ५१ ॥
आतपत्रैर्वृतं मूर्ध्नि संवृतं वृष्णिपुंगवैः ॥
संस्तुतं बंदिमुख्यैश्च गीतवादित्रनिस्वनैः ॥ ५२ ॥
पौरजानपदैर्लोकैर्वैष्णवैः सर्वतो वृतम् ॥
पश्यन्तं हंसमिथुनैः सरः सारसशोभितम् ॥५३ ॥
तं दृष्ट्वाऽच्युतमायांतं लोककांतं मनोहरम् ॥
प्रियं प्रियाश्चिराद्दृष्ट्वा मुमुहुस्ता व्रजांगनाः ॥ ५४ ॥
चिराय संज्ञां संप्राप्य विलेपुश्च सुदुःखिताः ॥
हा नाथ कांत हा कृष्ण हा व्रजेश मनोहर ॥५५ ॥
संवर्धितोऽसि यैर्बाल्ये क्रीडितो वत्सपालकैः ॥
तेऽपि त्वया परित्यक्ताः कथं दुष्टोऽसि निर्घृणः ॥ ५६ ॥
न ते धर्मो न सौहार्द्दं न सत्यं सख्यमेव च ॥
पितृमातृपरित्यागी कथं यास्यसि सद्गतिम् ॥ ५७ ॥
स्वामिन्भक्तपरित्यागः सर्वशास्त्रेषु गर्हितः ॥
त्यजताऽस्मान्वने वीर धर्मो नावेक्षितस्त्वया ॥ ५८ ॥
॥ प्रह्लाद उवाच ॥ ॥
श्रुत्वा तासां विलपितं गोपीनां नंद नंदन।
अनन्यशरणाः सर्वा भावज्ञो भगवान्विभुः॥
सांत्वयामास वचनैर्व्रजेशस्ता व्रजांगनाः॥ ५९॥
अध्यात्मशिक्षया गोपीः प्रभुस्ता अन्वशिक्षयत्॥ 7.4.12.६०॥
श्रीभगवानुवाच॥
भवतीनां वियोगो मे न हि सर्वात्मना क्वचित्॥
वसामि हृदये शश्वद्भूतानामविशेषतः॥६१॥
अहं सर्वस्य प्रभवो मत्तो देवाः सवासवाः ॥
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ॥ ६२ ॥
ब्रह्मा रुद्रश्च विष्णुश्च सनकाद्या महर्षयः ॥
इंद्रियाणि मनो बुद्धिस्तथा सत्त्वं रजस्तमः ॥ ६३ ॥
कामः क्रोधश्च लोभश्च मोहोऽहंकार एव च ॥
एतत्सर्वमशेषेण मत्तो गोप्यः प्रवर्त्तते ॥ ६४ ॥
एतज्ज्ञात्वा महाभागा मा स्म कृध्वं मनः शुचि ॥
सर्वभूतेषु मां नित्यं भावयध्वमकल्मषाः॥ ६५ ॥
॥ प्रह्लाद उवाच ॥ ॥
ताः कृष्णवचनं श्रुत्वा गोप्यो विध्वस्तबन्धनाः ॥
विमुक्तसंशयक्लेशा दर्शनानन्दसंप्लुताः॥
ऊचुश्च गोपवध्वस्ताः कृष्णं निर्मलमानसाः ॥ ६६ ॥ ॥
॥ गोप्य ऊचुः ॥ ॥
अद्य नः सफलं जन्म अद्य नः सफला दृशः ॥
यत्त्वां पश्याम गोविन्द नागरीजनवल्लभम् ॥ ६७ ॥
पुण्यहीना न पश्यंति कृष्णाख्यं पुरुषं परम् ॥
वाक्यैर्हेत्वर्थसंयुक्तैर्यदि संबोधिता वयम् ॥
तथापि माया हृदयान्नापैति मधुसूदन ॥ ६८ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
दर्शनात्स्पर्शनाच्चास्य विमुक्ताऽशेषबन्धनाः ॥
स्नात्वा च सकलान्कामानवाप्स्यथ व्रजांगनाः ॥ ६९ ॥
॥ गोप्य ऊचुः ॥ ॥
अद्भुतो हि प्रभावस्ते सरसोऽस्य उदाहृतः ॥
विधिं ब्रूहि जगन्नाथ विस्तराद्वृष्णिनन्दन ॥ 7.4.12.७० ॥
॥ श्रीकृष्ण उवाच ॥ ॥
भवतीनां मया सार्द्धं सञ्जातमत्र दर्शनम् ॥
तस्मान्मया सदा ह्यत्र स्नातव्यं नियमेन हि ॥ ७१ ॥
यः स्नात्वा परया भक्त्या पितॄन्सन्तर्पयिष्यति ॥
श्रावणस्य सिते पक्षे द्वादश्यां नियतः शुचिः ॥ ७२ ॥
दत्त्वा दानं स्वशक्त्या च मामुद्दिश्य तथा पितॄन् ॥
लभते वैष्णवं लोकं पितृभिः परिवारितः ॥ ७३ ॥
मय तीर्थं समासाद्य कृत्वा च करयोः कुशान् ॥
फलमेकं गृहीत्वा तु मन्त्रेणार्घ्यं प्रदापयेत् !। ७४ ॥
गृहान्धकूपे पतितं माया पाशशतैर्वृतम् ॥
मामुद्धर महीनाथ गृहाणार्घ्यं नमोऽस्तु ते ॥ ७५ ॥
॥ अर्घ्यमन्त्रः ॥ ॥
स्नात्वा यः परया भक्त्या पितॄन्संतर्प्य भावतः ॥
कुर्याच्छ्राद्धं च परया पितृभक्त्या समन्वितः ॥ ७६ ॥
दक्षिणां च ततो दद्याद्रजतं रुक्ममेव च ॥
विशेषतः प्रदातव्यं पायसं च सशर्करम् ॥ ७७ ॥
नवनीतं घृतं छत्रं कंबलाजिनमेव च ॥
भवतीभिः समं यस्मात्संजातं मम दर्शनम् ॥
आगंतव्यं मया तस्मात्सदा ह्यस्मिञ्जलाशये ॥ ७८ ॥
योऽत्र स्नानं प्रकुरुते मयस्य सरसि प्रियाः ॥
गंगास्नानफलं तस्य विष्णुलोकस्तथाऽक्षयः ॥ ७९ ॥
मुक्तिं प्रयांति तस्यैव पितरस्त्रिकुलोद्भवाः ॥
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ॥
यावज्जीवं सुखं भुक्त्वा चान्ते हरिपुरं व्रजेत् ॥ 7.4.12.८० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये मयनिर्मितसरोमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥१२ ॥