स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ६२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ पुलस्त्यस्य उवाच ॥ ॥
ततः कटेश्वरं गच्छेल्लिंगं गौरीविनिर्मितम् ॥
तथा गंगेश्वरं चान्यद्गङ्गया निर्मितं स्वयम् ॥ १ ॥
पुरा समभवद्युद्धमुमायाः सह गंगया ॥
सौभाग्यं प्रति राजेन्द्र ततो गौरीत्यभाषत ॥ २ ॥
यया संपूजितः शंभुः शीघ्रं यास्यति दर्शनम् ॥
सा सौभाग्यवती नूनभावयोः संभविष्यति ॥ ३ ॥
एवमुक्ता ततो गंगा सत्वरैत्यात्र पर्वते ॥
लिंगमन्वेषयामास चिरकालादवाप सा ॥ ४ ॥
दृष्ट्वा गौर्याथ कटकं पर्वतस्य मनोहरम् ॥
लिंगाकारं महाराज पूजयामास सा तदा ॥ ५ ॥
सम्यक्छ्रद्धासमोपेता ततस्तुष्टो महेश्वरः ॥
प्रददौ दर्शनं तस्या वरदोऽस्मीति चाब्रवीत् ॥ ६ ॥
॥ गौर्युवाच ॥ ॥
सापत्न्यजेर्ष्यया देव मया लिंगं प्रकल्पितम् ॥
तस्मात्कटेश्वराख्या च लोके चास्य भविष्यति ॥ ७ ॥
या नारी पतिना मुक्ता सपत्नीदुःखदुःखिता ॥
अस्य संदर्शनादेव सा भविष्यति विज्वरा ॥
सुतसौभाग्यसंपन्ना भर्तृप्राणसमा तथा ॥ ८ ॥
गंगयाराधितो देव एवमेव वरं ददौ ॥
तस्माल्लिंगद्वयं तच्च द्रष्टव्यं मनुजाधिप ॥ ९ ॥
विशेषतश्च नारीभिः सपत्नीदोषहानिदम् ॥
सुखसौभाग्यदं नित्यं तथाऽभीष्टप्रदं नृणाम् ॥ 7.3.62.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे कटेश्वरगंगेश्वरमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२॥