स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ५५

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ पुण्यं रुद्रह्रदं शुभम् ॥
यत्र स्नातो नरो भक्त्या गणाधीशत्वमाप्नुयात् ॥ १ ॥
पुरा हत्वांऽधकं दैत्यं सगणो वृषभध्वजः ॥
ततः स्नातो ह्रदं कृत्वा ततो रुद्रह्रदोऽभवत् ॥ २ ॥
चतुर्द्दश्यां महाराज यस्तत्र कुरुते नरः ॥
स्नानं तस्य भवेत्पुण्यं सर्वतीर्थसमुद्भवम् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे रुद्रह्रदमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ॥ ५५ ॥