स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ५०

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
कोटितीर्थं ततो गच्छेत्सर्वपातकनाशनम् ॥
तीर्थानां यत्र संजाता कोटिः पार्थिव हेलया ॥१॥
यदा स्यात्कलिकालस्तु रौद्रो राजन्महीतले ॥
म्लेच्छभूता जनाः सर्वे तत्स्पर्शात्तीर्थविप्लवः ॥ २ ॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानां भूमिवासिनाम् ॥
तेषां कोटिस्ततोऽवात्सीत्पर्वतेऽर्बुदसंज्ञके ॥ ३ ॥
पुष्करे च तथा कोटिः कुरुक्षेत्रे च पार्थिव ॥
वाराणस्यामर्धकोटिः स्तुता देवैः सवासवैः ॥
राजन्नेतानि रक्षंति सर्वे देवाः सवासवाः ॥ ४ ॥
यदा यदा भयार्त्तानि म्लेच्छस्पर्शात्समंततः ॥
स्थानेष्वेतेषु तिष्ठंति तीर्थान्युक्तेषु सत्वरम् ॥ ५ ॥
कोटितीर्थानि त्रीण्येव तत्र जातानि भूतले ॥
अर्ध कोटिसमेतानि सर्वपापहराणि च ॥ ६ ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
कृष्णपक्षे त्रयोदश्यां नभस्ये च विशेषतः ॥ ७ ॥
तत्र स्नानादिकं सर्वं जपहोमादिकं च यत् ॥
सर्वं कोटिगुणं राजंस्तत्प्रसादादसंशयम् ॥ ८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कोटितीर्थप्रभाववर्णनंनाम पंचाशत्तमोऽध्यायः ॥ ५० ॥