स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ४९

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
रामतीर्थं ततो गच्छेत्पुण्यमृषिनिषेवितम्॥
तत्र स्नातस्य मर्त्त्यस्य जायते पापसंक्षयः ॥ १ ॥
पितॄणां च परा तुष्टिर्यावदाभूतसंप्लवम् ॥
पुरासीद्भार्गवो रामः सर्वशस्त्रभृतां वरः ॥ २ ॥
तेन पूर्वं तपस्तप्तं शत्रूणामिच्छता क्षयम्॥
ततः पाशुपतं नाम तस्यास्त्रं परमं ददौ ॥ ३ ॥
तपस्तुष्टो महादेवो गते वर्षशतत्रये ॥
अब्रवीद्वरदोऽस्मीति स वव्रे शत्रुसंक्षयम् ॥ ४ ॥
ततः पाशुपतं नाम तस्यास्त्रं परमं ददौ ॥
स्मरणेनापि शत्रूणां यस्य संजायते क्षयः ॥ ५ ॥
अब्रवीद्वचनं चापि प्रहस्य वृषभध्वजः ॥
जामदग्न्य महाबाहो शृणु मे परमं वचः ॥ ६ ॥
अस्त्रेणानेन युक्तस्त्वमजेयः सर्वदेहिनाम् ॥
भविष्यसि न संदेहो मत्प्रसादाद्भृगूद्वह ॥ ७ ॥
एतज्जलाशयं पुण्यं त्रैलोक्ये सचराचरे ॥
रामतीर्थमिति ख्यातं मत्प्रसादाद्भविष्यति ॥ ८ ॥
येऽत्र श्राद्धं करिष्यंति पौर्णमास्यां समाहिताः ॥
संप्राप्ते कार्त्तिके मासि कृत्तिकायोगसंयुते ॥ ९ ॥
पितृमेधफलं तेषामशेषं च भविष्यति ॥
तथा शत्रुक्षयो राजन्वासः स्वर्गेषु चाक्षयः ॥ 7.3.49.१० ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा महादेवस्ततश्चादर्शनं गतः ॥
रामोऽप्यसूदयत्क्षत्रं पितृदुःखेन दुःखितः ॥ ११ ॥
त्रिःसप्त तर्पयामास पितॄंस्तत्र प्रहर्षितः ॥
जमदग्नौ मृते तेन प्रतिज्ञातं महात्मना ॥ १२ ॥
दृष्ट्वा मातुः क्षतान्यंगे त्रिःसप्त मनुजाधिप ॥
शस्त्रजातानि विप्राणां समाजे समुपस्थिते ॥ १३ ॥
पिता मे निहतो यस्मात्क्षत्रियैस्तापसो द्विजः ॥
अयुध्यमान एवाथ तस्मात्कृत्वा त्रिसप्त वै ॥ १४ ॥
क्षत्त्रहीनामहं पृथ्वीं प्रदास्ये सलिलं पितुः ॥
तत्सर्वं तस्य संजातं तीर्थमाहात्म्यतो नृप ॥ १५ ॥
तस्मात्सर्वं प्रयत्नेन श्राद्धं तत्र समाचरेत् ॥
क्षत्रियश्च विशेषेण य इच्छेच्छत्रुसंक्षयम् ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे रामतीर्थमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽध्यायः ॥ ४९ ॥