स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ४७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ सुपूर्णं गौतमाश्रमम् ॥
यत्र पूर्वं तपस्तप्तं गौतमेन महात्मना ॥ १ ॥
पुराऽऽसीद्गौतमो नाम मुनिः परमधार्मिकः ॥
स भक्त्याऽऽराधयामास देवदेवं महेश्वरम् ॥ २ ॥
भक्त्याऽऽराधयमानस्य निर्भिद्य धरणीतलम् ॥
समुत्तस्थौ महल्लिंगं परं माहेश्वरं नृप ॥ ३ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
पूजयैतन्महल्लिंगं त्वद्भक्त्या समुपस्थितम्॥
वरं वरय भद्रं ते यत्ते मनसि वर्तते ॥४॥
॥ गौतम उवाच॥ ॥
अत्राश्रमपदे देव त्वया शम्भो जगत्पते ॥
सदा कार्यं हि सान्निध्यं यदि तुष्टो मम प्रभो॥ ५ ॥
यस्त्वां पश्यति सद्भक्त्या ब्रह्मलोकं स गच्छतु ॥ ६ ॥
॥ आकाशवाण्युवाच ॥ ॥
माघमासे चतुर्द्दश्यां योऽत्र मां वीक्षयिष्यति ॥
कृष्णायां ब्राह्मणश्रेष्ठ स यास्यति परां गतिम् ॥७॥
एवमुक्त्वा ततो वाणी विरराम महीपते ॥
तत्रास्ति कुण्डमपरं पवित्रं जलपूरितम्॥
तत्र स्नातो नरः सद्यः कुलं तारयतेऽखिलम् ॥ ८ ॥
यस्तत्र कुरुते श्राद्धं विशेषादिन्दुसंक्षये ॥
गयाश्राद्धफलं तस्य सकलं जायते ध्रुवम् ॥ ९ ॥
तत्र दानं प्रशंसंति तिलानां मुनिपुंगवाः ॥
तिलसंख्यानि वर्षाणि दानात्स्वर्गे वसेन्नृप ॥ 7.3.47.१० ॥
अर्बुदे गौतमी यात्रा सिंहस्थे च बृहस्पतौ ॥
अमायां सोमवारेण द्विषड्गोदावरीफलम् ॥ ११ ॥
षष्टिवर्षसहस्राणि भागीरथ्यवगाहने ॥
सकृद्गोदावरीस्नानात्सिंहस्थे च बृहस्पतौ ॥ १२ ॥
इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे गौतमाश्रमतीर्थमाहात्म्यवर्णनंनाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥