स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ४४

विकिस्रोतः तः

पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ गजतीर्थमनुत्तमम् ॥
यत्र पूर्वं तपस्तप्तं दिग्गजैर्भावितात्मभिः ॥ १ ॥
भूभारधरणैश्चान्यैरैरावणमुखैर्नृप ॥
तत्र स्नातो नरः सम्यग्गजदानफलं लभेत् ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे गजतीर्थप्रभाववर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥