स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ४०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ पुलस्त्य उवाच ॥ ॥
ततः कामेश्वरं गच्छेत्तत्र कामप्रतिष्ठितम् ॥
यस्मिन्दृष्टे सदा मर्त्यः सुरूपः सुप्रभो भवेत् ॥ १ ॥
॥ ययातिरुवाच ॥ ॥
त्वया प्रोक्तं पुरा शंभुः कामबाण भयात्किल ॥
वालखिल्याश्रमं प्राप्तो यत्र लिंगं पपात ह ॥ २ ॥
स कथं पूजितस्तेन शंभुर्मे कौतुकं महत् ॥
वद सर्वं द्विजश्रेष्ठ कामेश्वरनिवेशनम् ॥ ३ ॥
॥ पुलस्त्य उवाच ॥ ॥
मुक्तलिंगेऽपि देवेशे न स्मरस्तं मुमोच ह ॥
दर्शयन्नात्मनो बाणं तस्यासौ पृष्ठतः स्थितः ॥ ४ ॥
ततो वाराणसीं प्राप्तस्तद्भयात्त्रिपुरांतकः ॥
तत्राऽपि च तथा दृष्ट्वा धृतचापं मनोभवम्॥५॥
ततः प्रयागमापन्नः केदारं च ततः परम्॥
नैमिषं भद्रकर्णं च जंबूमार्गे त्रिपुष्करम् ॥६॥
गोकर्णं च प्रभासं च पुण्यं च कृमिजांगलम्॥
गगाद्वारं गयाशीर्षं कालाभीष्टं वटेश्वरम् ॥७॥
किं वा तेन बहूक्तेन तीर्थान्यायतनानि च ॥
असंख्यानि गतो देवः कामं च ददृशे तथा ॥ ८ ॥
यत्रयत्र महादेवस्तद्भयान्नृप गच्छति ॥
तत्रतत्र पुनः कामं प्रपश्यति धृतायुधम्॥ ९ ॥
कस्यचित्त्वथकालस्य पुनः प्राप्तोऽर्बुदं प्रति ॥
तत्रापश्यत्तथा काममाकर्णाकर्षितायुधम्॥
आकुंचितैकपादं च स्थिरदृष्टिं नृपो त्तम ॥ 7.3.40.१० ॥
अथाऽसौ भगवाञ्छांतः प्रियादुःखसमन्वितः ॥
क्रोधं चक्रे विशेषेण दृष्ट्वा तं पुरतः स्थितम्॥ ११ ॥
तस्य कोपाभिभूतस्य तृतीयान्नयनान्नृप ॥
निश्चक्राम महाज्वाला ययाऽसौ भस्मसात्कृतः ॥ १२ ॥
सचापः सशरो राजंस्तस्मिन्पर्वतरोधसि ॥
शंकरो रोषपर्यंतं गत्वा सौख्यमवाप्तवान्॥ १३ ॥
कैलासं पर्वतश्रेष्ठं जगाम सुरपूजितः ॥
दग्धे मनोभवे भार्या रतिरस्य पतिव्रता ॥
व्यलपत्करुणं दीना पतिशोकपरि प्लुता ॥ १४ ॥
ततो दारूणि चाहृत्य चितिं कृत्वा नराधिप ॥
आरुरोहाग्निसंदीप्तां चितिं सा पतिदुःखिता॥
तावदाकाशगां वाणीं शुश्राव च यशस्विनी॥ १५॥
वागुवाच॥
मा पुत्रि साहसं कार्षीस्तपसा तिष्ठ सुन्दरि॥
भूयः प्राप्स्यसि भर्त्तारं कामें तुष्टेन शंभुना॥१६॥
सा श्रुत्वा तां तदा वाणीं समुत्तस्थौ समुमध्यमा॥
देवमाराधयामास दिवानक्तमतंद्रिता॥
व्रतैर्दानैर्जपैर्होमैरुपवासैस्तथा परैः॥१७॥
ततो वर्ष सहस्रांते तुष्टस्तस्या महेश्वरः ॥
अब्रवीद्वद कल्याणि वरं यन्मनसि स्थितम् ॥ १८ ॥
॥ रतिरुवाच ॥ ॥
यदि तुष्टोऽसि मे देव भगवँल्लोक भावनः ॥
अक्षतांगः पुनः कामः कांतो मे जायतां पतिः ॥ १९ ॥
एवमुक्ते तया वाक्ये तत्क्षणात्समुपस्थितः ॥
यथा सुप्तो महाराज तद्वद्रूपः स हर्षित ॥ 7.3.40.२० ॥
इक्षुयष्टिमयं चापं पुष्पबाणसमन्वितम् ॥
भृंगश्रेणिमय्या मौर्व्या शोभितं सुमनोहरम् ॥ २१ ॥
ततो रतिसमायुक्तः प्रणिपत्य महेश्वरम्॥
अनुज्ञातस्तु तेनैव स्वव्यापारेऽभ्यवर्त्तत ॥ २२ ॥
स दृष्ट्वा शिवमाहात्म्यं श्रद्धां कृत्वा नृपोत्तम ॥
शिवं संस्थापयामास पर्वतेऽर्बुदसंज्ञिते ॥ २३ ॥
यस्मिन्दृष्टे महाराज नारी वा यदि वा नरः ॥
सप्तजन्मांतराण्येव न दौर्भाग्यमवाप्नुयात् ॥ २४ ॥
एवमेतन्मया ख्यातं यन्मां त्वं परिपृच्छसि ॥
कामेश्वरस्य माहात्म्यं कामदाह सविस्तरम् ॥ २५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे कामेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥