सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ३८

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
कुंडं तु शिवलिंगाख्यं ततो गच्छेन्महीपते ॥
यत्र सा जाह्नवी गुप्ता तिष्ठते भूपसत्तम ॥ १ ॥
तस्यां स्नातो नरः सम्यक्सर्वतीर्थफलं लभेत् ॥
मुच्यते पातकात्कृत्स्नादाजन्ममरणांतिकात् ॥ २ ॥
॥ ययाति रुवाच ॥ ॥
किमर्थं तत्र सा गुप्ता जाह्नवी तिष्ठते विभो ॥
कस्मिन्काले समायाता परं कौतूहलं हि मे ॥ ३ ॥
॥ पुलस्त्य उवाच ॥ ॥
यदा प्रसादितो देवैर्भगवान्वृषभध्वजः ॥
अर्बुदेऽस्मिन्सदा स्थेयमचलेन त्वया विभो ॥ ४॥
तत्र संस्थापिते लिंगे स्वयं देवेन शंभुना ॥
यत्पातितं पुरा लिंगं वालखिल्यैर्महर्षिभिः ॥ ५ ॥
अतिकोपसमायुक्तैः कस्मिंश्चित्कारणांतरे ॥
तदा देवेन प्रतिज्ञातं सर्वेषां त्रिदिवौकसाम् ॥ ६ ॥
अचले तु मयात्रैव स्थातव्यं नात्र संशयः ॥
ततः कालेन महता वसतस्तस्य तत्र च ॥ ७ ॥
अचलेश्वररूपस्य गंगा चित्ते व्यजायत ॥
कथं नित्यं तया सार्द्धं भविष्यति समागमः ॥ ८ ॥
अथ जानाति नो गौरी मानिनी परमेश्वरी ॥
तस्यैवं चिन्तयानस्य बहुशो नृपसत्तम ॥ ९ ॥
उपायं सुमहद्ध्यात्वा जाह्नवीसंगसंभवम् ॥
तेनादिष्टा गणाः सर्वे नंदिभृङ्गिपुरःसराः ॥ 7.3.38.१० ॥
अभिप्रायोऽस्ति मे कश्चिज्जलाश्रयव्रतोद्भवः ॥
क्रियतामुत्तमं कुण्डमस्मिन्पर्वतरोधसि ॥ ११ ॥
तत्राहं जलमध्यस्थः स्थास्यामि जलतत्परः ॥
तच्छ्रुत्वा त्वरितं चक्रुर्गणाः कुण्डमनेकशः ॥ १२ ॥
स्वच्छोदकसमाकीर्णं सुतीर्थं सुसुखावहम् ॥
ततो गौरीमनुज्ञाप्य जाह्नवीसंगलालसः ॥ १३ ॥
व्रतव्याजेन देवेशो विवेश तदनन्तरम् ॥
चिन्तयामास तत्रस्थो गंगां त्रैलोक्यपाविनीम् ॥ १४ ॥
सा ध्याता तत्क्षणात्तत्र शिवेन सह संगता ॥
एवं स भगवांस्तत्र जाह्नवीं भजते सदा ॥ १५ ॥
व्रतव्याजेन राजेन्द्र न तु गौरी व्यजानत ॥
कस्यचित्त्वथ कालस्य नारदो भगवान्मुनिः ॥
कैवल्यज्ञानसंपन्नस्तत्रायातः परिभ्रमन् ॥ १६ ॥
स तु दृष्ट्वा महादेवं जलस्थं व्रतधारिणम् ॥
कामजैरिंगितैर्युक्तं तत्राऽसौ विस्मयान्वितः ॥ १७ ॥
वक्त्रनेत्रविकारोऽयं किमस्य व्रतधारिणः ॥
ईदृक्कामसमायुक्तस्ततो ध्यानस्थितो मुनिः ॥ १८ ॥
अथाऽपश्यद्ध्यानदृष्ट्या गंगासक्तं महेश्वरम् ॥
गौर्या भयेन सव्याजं ततो विस्मयमागतः ॥ १९ ॥
तदा स कथयामास सर्वं हरविचेष्टितम् ॥ 7.3.38.२० ॥
ततो देवी त्वरायुक्ता ययौ यत्र महेश्वरः ॥
आताम्रनयना रोषाद्वेपमाना मुहुर्मुहुः ॥ २१ ॥
तां दृष्ट्वा कोपसंयुक्तां समायातां महेश्वरीम् ॥
उवाच जाह्नवी भीता ज्ञात्वा दिव्येन चक्षुषा ॥ २२ ॥
आवयोः संगमे देवी नारदेन निवेदिता ॥
सेयं रुष्टा समायाति कुरुष्व यदनन्तरम् ॥ २३ ॥
॥ श्रीमहादेव उवाच ॥ ॥
कर्त्तव्यं जाह्नवि श्रेयः पुरो गत्वा नगात्मजाम् ॥
अत्यर्थं मानिनी ह्येषा साम्ना च वशवर्तिनी ॥ २४ ॥
तत्क्षणाज्जायते साध्वी तस्मात्सामपरा भव ॥
नो चेच्छापं मया सार्धं तव दास्यत्यसंशयम् ॥ २५ ॥
एवमुक्ता च रुद्रेण जाह्नवी नृपसत्तम ॥
कुण्डान्निर्गत्य सा गंगा सम्मुखं प्रययौ तदा ॥ २६ ॥
प्रत्युद्ययौ सलज्जा च कृतांजलिपुरःसरा ॥
प्रणम्य शिरसा चेयं ततः प्राह स्वलंकृता ॥ २७ ॥
पुराऽहं तव कांतेन निपतन्ती नभस्तलात् ॥
धृता देवि तवा प्येतद्विदितं नृपतेः कृते ॥ २८ ॥
भगीरथाभिधानस्य ततः स्नेहो व्यवर्धत ॥
आवयोस्तव भीत्या च नाभूत्क्वापि समागमः ॥ २९ ॥
अधुना तव वाक्येन जानेऽहं न सुरेश्वरि ॥
समाहूताऽस्मि रुद्रेण किं वा स्वच्छन्दतः शुभे ॥ 7.3.38.३० ॥
त्रैलोक्यस्य प्रभुरयं तन्निष्क्रम्य कथञ्चन ॥
तस्मादत्रैव संप्राप्ता सत्यमेतन्मयोदितम् ॥ ३१ ॥
॥ पुलस्त्य उपाच ॥ ॥
तस्यास्तद्वचनं श्रुत्वा ततो देवी प्रहर्षिता ॥
प्रोवाच मधुरं वाक्यं सत्यमेतत्त्व योदितम्॥ ३२ ॥
तस्माद्वरय भद्रं ते वरं मत्तो यथेप्सितम् ॥
मुक्त्वैकं पतिधर्म्मत्वे मम कांतं महेश्वरम्॥ ३३ ॥
॥ गंगोवाच ॥ ॥
अपि दौर्भाग्ययुक्ताऽहं भार्या जाताऽस्मि शूलिनः ॥
तस्मादेकं दिनं देहि क्रीडनार्थमनेन तु ॥ ३४ ॥
चैत्रशुक्लत्रयोदश्यामहोरात्रं सुरेश्वरि ॥
शिवकुंडं तथास्त्वेतन्मया यस्मात्समावृतम् ॥ ३५ ॥
शिवगंगाभिधानं च तस्मात्कुण्डं धरातले ॥
ख्यातिं यातु प्रसादेन तव पर्वतनंदिनि ॥ ३६ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमस्त्विति सा देवी प्रोच्य गंगां महानदीम् ॥
ततो विसर्जयामास तामालिंग्य मुहुर्मुहुः ॥ ३७ ॥
गतायामथ गंगायामधोवक्त्रं सुलज्जितम् ॥
पाणौ गृह्य ययौ रुद्रं भ्रममाणा गृहं प्रति ॥३८॥
एवमेतत्पुरावृत्तं तस्मिन्कुण्डे नराधिप ॥
तस्मात्सर्वप्रयत्नेन चतुर्द्दश्यां समाहितः ॥ ३९ ॥
शुक्लायां चैत्रमासे तु स्नानं तत्र समाचरेत् ॥
सांनिध्याद्देवदेवस्य गंगायाश्च नृपोत्तम ॥ 7.3.38.४० ॥
यत्र संक्षयमायाति सर्वं तत्राशुभं कृतम् ॥
तत्र यो वृषभं दद्याद्ब्राह्मणाय नृपोत्तम ॥
तद्रोमसंख्ययास्वर्गे स पुमान्वसति ध्रुवम् ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे शिवगंगाकुण्डोत्पत्तिमाहात्म्यवर्णनंनामाष्टात्रिंशोऽध्यायः ॥ ३८ ॥ ॥