सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ३१

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
रक्तानुबन्धं वै गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ॥
यत्र स्नातो नरः सम्यङ्मुच्यते ब्रह्महत्यया ॥ १ ॥
पुराऽऽसीत्पार्थिवोनाम इंद्रसेनो महीपतिः ॥
तस्याऽऽसीत्सुप्रिया भार्या सुनन्दानाम भामिनी ॥
पतिव्रता पतिप्राणा सदा पत्युः प्रिये स्थिता ॥ २ ॥
कस्यचित्त्वथ कालस्य स राजा सपरिग्रहः ॥
परदेशं गतो हंतुं शत्रुसंघं दुरासदम् ॥ ३ ॥
तं निहत्य धनं भूरि गृहीत्वा प्रस्थितो गृहम् ॥
ततोऽग्रे प्रेषयामास स दूतं कृत्रिमं नृप ॥ ४ ॥
सुनन्दां ब्रूहि गत्वा त्वमिन्द्रसेनो हतो रणे ॥
तदाकारस्ततो लक्ष्यः पातिव्रत्ये ममाज्ञया ॥ ५ ॥
यदि सा निश्चयं गच्छेन्मरणं प्रति भामिनी ॥
तदा रक्ष्या प्रयत्नेन वाच्यं हास्यं ममोद्भवम् ॥ ६ ॥
एवमुक्तो गतो दूतस्तत्क्षणान्नृपसत्तम ॥
तस्यै निवेददामास यदुक्तं तेन भूभुजा ॥ ७ ॥
अथ तस्य वचः श्रुत्वा सुनंदा चारुहासिनी ॥
गतप्राणा नृपश्रेष्ठ पतिप्राणा महासती ॥ ८ ॥
यस्मिन्काले मृता सा तु सुनन्दा शीलमंडना ॥
तस्मिन्काले नृपः सोऽपि तत्पापेन समाश्रितः ॥ ९ ॥
अथापश्यद्द्वितीयां स च्छायां गात्रस्य चोपरि ॥
तथा गुरुतरं कायं सालस्यं समपद्यत ॥ 7.3.31.१० ॥
तेजोहीनं सुदुर्गंधि विवर्णं नृपसत्तम ॥
अथ प्राप्तो गृहं राजा श्रुत्वा भार्यासमुद्भवम् ॥ ११ ॥
विनाशं दुःखशोकार्तः करुणं पर्यदेवयत्॥
स ज्ञात्वा पापमात्मानं स्त्रीहत्यासुविदूषितम्॥ १२ ॥
ब्राह्मणानां समादेशात्तथा यात्रापरोऽभवत् ॥
कृत्वौर्द्ध्वदैहिकं तस्या लघुमात्र परिग्रहः ॥
वाराणस्यां गतः पूर्वं तत्र दानं ददौ बहु ॥१३॥
कपालमोचने तीर्थे सर्वपापप्रणाशने ॥
त्रिनेत्रो यत्र निर्मुक्तः पुरा वै ब्रह्महत्यया ॥१४॥
तस्य च्छाया द्वितीया सा न नष्टा तत्र भूपते ॥
ततः कनखलं प्राप्तः सुपुण्यं शुद्धिदं नृणाम् ॥ १५ ॥
तथैव पुष्करारण्यं तस्मादमरकण्टकम् ॥
कुरुक्षेत्रं ततो राजन्प्राप्तोऽसौ नृपसत्तमः ॥ १६ ॥
प्रभासं सोमतीर्थं च ततस्तु कृमिजांगले ॥
एकहंसं ततो राजन्पुण्यपारिप्लवं ततः ॥ १७ ॥
रुद्रकोटिं विरूपाक्षं ततः पंचनदं नृप ॥
एवमादीनि तीर्थानि पुण्यान्यायतनानि च ॥
परिभ्रमन्महीपाल परिश्रांतो नराधिपः ॥ १८ ॥
ततो वर्षसहस्रांते संप्राप्तोऽर्बुदपर्वते ॥
तत्रापश्यन्नरपतिस्तीर्थान्यायतनानि च ॥ १९ ॥
तपस्विसंघान्विविधान्ब्राह्मणान्वेदपारगान् ॥
ददौ दानानि बहुशो ब्राह्मणेभ्यो यदृच्छया ॥ 7.3.31.२० ॥
प्राप्तो रक्तानुबंधं च तीर्थं तत्रैव पर्वते ॥
तत्र स्नातो विनिष्क्रांतो यावत्पश्यति भूमिपः ॥ २१ ॥
तावन्न दृश्यते च्छाया द्वितीया स्त्रीवधोद्भवा ॥
लघुत्वं सर्वगात्राणि संप्राप्तानि महीपते ॥ २२ ॥
विगन्धता प्रणष्टा च तेजोवृद्धिः पराभवत् ॥
ततो हृष्टमना भूत्वा दत्त्वा दानानि भूरिशः ॥
स्तूयमानश्चतुर्दिक्षु बंदिभिः प्रस्थितो गृहम् ॥ २३ ॥
ततो रक्तानुबंधस्य सोमातिक्रमणं नृप ॥
यावत्करोति राजेन्द्र तावदस्य पुनस्तथा ॥२४॥
सा च्छाया दृश्यते देहे द्वितीया नृपसत्तम ॥
स एव गन्धो गात्रेषु तेजोहानिश्च सा नृप ॥ २५ ॥
ततो दुःखाभिसंतप्तो गतस्तत्रैव तत्क्षणात् ॥
रक्तबंधमनुप्राप्तो विपाप्मा सोऽभवत्पुनः ॥ २६ ॥
स ज्ञात्वा तीर्थमाहात्म्यं परं पार्थिवसत्तमः ॥
तत्र दारूणि चाहृत्य चितां कृत्वा ततो नृप ॥
दानं दत्त्वा द्विजाग्रेभ्यः प्रविष्टो हव्यवाहनम् ॥ २७ ॥
ततो विमानमारुह्य परित्यज्य कलेवरम् ॥
दिव्यमाल्यांबरधरः शिवलोकमुपागमत् ॥ २८ ॥
शिवलोकमनुप्राप्ते तस्मिन्पार्थिवसत्तमे ॥
देवर्षयस्तदा वाक्यमिदमाहुः सुविस्मयात् ॥ २९ ॥
तीर्थेभ्यस्तु परं तीर्थमिदं वै पावनं परम् ॥
इन्द्रसेनो ह्यतः पापात्तीर्थसंगाद्व्यमुच्यत ॥ 7.3.31.३० ॥
ततः प्रभृति तत्तीर्थं ख्यातं च धरणीतले ॥
रक्तानां प्राणिनां यस्मादनुबन्धं करोति यत् ॥ ३१ ॥
रक्तानुबन्धमित्येव तस्मात्तत्कीर्त्त्यते क्षितौ ॥
तत्र सन्तर्प्य वै देवान्यः श्राद्धं कुरुते नृप ॥ ३२ ॥
तत्र संक्रमणे भानोर्यः स्नानं कुरुते नरः ॥
श्रद्धया परया युक्तो मुच्यते ब्रह्महत्यया ॥ ३३ ॥
पितृक्षेत्रे गयायां च श्राद्धं यः कुरुते नरः ॥
गयाश्राद्धसमं प्राहुः फलं तस्य महर्षयः ॥ ३४ ॥
चन्द्रसूर्योपरागे वा गोदानं नृपसत्तम ॥
यः करोति नरस्तत्र स कुलान्सप्त तारयेत् ॥ ३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे रक्तानुबन्धमाहात्म्यवर्णनंनामैकत्रिंशोऽध्यायः ॥ ॥ ३१ ॥