स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ३०

विकिस्रोतः तः

पुलस्त्य उवाच॥
अग्नितीर्थं ततो गच्छेत्पावनं परमं नृणाम्॥
तत्र वह्निः पुरा नष्टो लब्धश्च त्रिदशैरपि॥ १ ॥
ययातिरुवाच॥
किमर्थं भगवन्वह्निः पुरा नष्टो द्विजोत्तम॥
कथं तत्रैव लब्धस्तु कौतुकं मे महामुने॥२॥
पुलस्त्य उवाच॥
पुरा वृष्टिनिरोधोऽभूद्यावद्द्वादशवत्सरान्॥
संशयं परमं प्राप्तः सर्वो लोकः क्षुधार्दितः ॥ ३ ॥
प्रायो मृतो मृतप्रायः शेषोऽभूद्धरणीतले ॥
नष्टा अरण्यजा ग्राम्याः पशवः पक्षिणो मृगाः ॥ ४ ॥
एवं कृच्छ्रमनुप्राप्ते मर्त्यलोके नराधिपः ॥
विश्वामित्रो मुनिवरः संदेहं परमं गतः ॥ ५ ॥
अन्नौषधिरसाभावादस्थिशेषो व्यजायत ॥
अन्यस्मिन्दिवसे प्राप्तः क्षुत्क्षामः पर्यटन्दिशः ॥ ६ ॥
चंडालनिलयं प्राप्तः क्षुत्तृषापीडितो भृशम् ॥
तत्रापश्यन्मृतं श्वानं शुष्कं पार्थिवसत्तम ॥ ७ ॥
तमादाय गृहं प्राप्तः प्रक्षाल्य सलिलेन तु ॥
क्षुत्क्षामः पाचयामास ततस्तं पावकेऽजुहोत् ॥ ८ ॥
अभक्ष्यभक्षणं ज्ञात्वा हव्यवाहस्ततो नृप ॥
शक्रस्योपरि मन्युं स्वं चक्रेऽतीव महीपते ॥ ९ ॥
नष्टौषधिरसे लोके युक्तमेतद्धि सांप्रतम् ॥
यादृगाप्तं हविस्तादृगग्निभक्षो विशिष्यते ॥ 7.3.30.१० ॥
नाभक्ष्यं भक्षयिष्यामि त्यजिष्ये क्षितिमंडलम् ॥
येन शक्रादयो देवा यांति कष्टतरां दशाम्॥ ११ ॥
एवं संचिंत्य मनसा सकोपो हव्यवाहनः ॥
प्रणष्टः सकलं हित्वा मर्त्यलोकं चराचरम् ॥ १२ ॥
प्रणष्टे सहसा वह्नावग्निष्टोमादिकाः क्रियाः ॥
प्रणष्टास्तु जनाः सर्वे विशेषात्संशयं गताः ॥ १३ ॥
ततो देवगणाः सर्वे संदेहं परमं गताः ॥
यज्ञभागविहीनत्वान्मंत्रं चक्रुस्ततो मिथः ॥ १४ ॥
त्यक्तस्तु वह्निना मर्त्यस्ततो नाशं गता नराः ॥
शेषनाशाद्वयं सर्वे विनंक्ष्यामो न संशयः ॥ १५ ॥
तस्मादन्वेष्यतां वह्निर्यत्र तिष्ठति सांप्रतम् ॥
यथा चरति मर्त्ये च तथा नीतिर्विधीयताम्॥ १६ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं ते निश्चयं कृत्वा सर्वे देवाः सवासवाः ॥
अन्वैषयंस्तथाग्निं ते समंतात्क्षितिमंडले ॥ १७ ॥
ततस्ते पुरतो दृष्ट्वा शुकं श्रांता दिवौकसः ॥
पप्रच्छुः श्रद्धया वह्निर्यदि दृष्टः प्रकथ्यताम् ॥१८॥
॥ शुक उवाच ॥ ॥
योऽयं वंशो महानग्रे प्रदग्धो वह्निसंगतः ॥
प्रणष्टो हव्यवाहोत्र मया दृष्टो महाद्युतिः ॥ १९ ॥
शुकेनावेदितो वह्निः शप्त्वा तं मन्युना वृतः ॥
गद्गदा भावि ते वाणी प्रोक्त्वेदं प्रस्थितो द्रुतम् ॥ 7.3.30.२० ॥
प्रविवेश शमीगर्भमश्वत्थं तरुसत्तमम् ॥
तत्रस्थो द्विपराज्ञा स कथितो विबुधान्प्रति ॥ २१ ॥
स तं प्रोवाच ते जिह्वा विपरीता भविष्यति ॥
ततो जलाशयं गत्वा पर्वतेऽर्बुदसंज्ञके ॥ २२ ॥
प्रविष्टो भगवान्वह्निर्यथा देवैर्न लक्ष्यते ॥
तत्रोत्थेन दर्दुरेण तेषां प्रोक्तो हुताशनः ॥ २३ ॥
अत्राऽसौ तिष्ठते वह्निर्निर्झरे पर्वतस्य च ॥
दग्धाश्च जलजाः सर्वे सुतप्तेनैव वारिणा ॥ ॥ २४ ॥
कृच्छ्रादहं विनिष्क्रांतस्तस्मान्मृत्युमुखात्सुराः ॥
तच्छ्रुत्वा यत्नमास्थाय प्रविष्टो हव्यवाहनः ॥ २५ ॥
भविष्यसि विजिह्वस्त्वं शप्त्वा तं दर्दुरं नृपः ॥ २६ ॥
ततो देवगणाः सर्वे निष्क्रांताः सलिलाश्रयात् ॥
संवेष्ट्य तुष्टुवुः सर्वे स्तवैर्वेदोद्भवैर्नृप ॥ २७ ॥
॥ देवा ऊचुः ॥ ॥
त्वमग्ने सर्वभूतानामंतश्चरसि पावक ॥
त्वया हीनं जगत्सर्वं नाशं यास्यति सत्वरम् ॥ २८ ॥
त्वं मुखं सर्वदेवानां त्वयि लोकाः प्रतिष्ठिताः ॥
भूलोके च त्वया त्यक्ते वयं सर्वे सवासवाः ॥
विनाशमेव यास्यामस्तस्मात्त्वं त्रातुमर्हसि ॥ २९ ॥
त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं दिवाकरः ॥
त्वं चंद्रस्त्वं च धनदो मरुत्त्वं च सुरेश्वरः ॥7.3.30.३०॥
इंद्राद्या विबुधाः सर्वे त्वदायत्ता हुताशन ॥
किमर्थं भगवन्मर्त्त्यं त्यक्त्वा त्वमत्र संस्थितः ॥
किमर्थं भगवन्नस्माननागांस्त्यक्तुमिच्छसि ॥ ३१ ॥
॥ पुलस्त्य उवाच ॥ ॥
वेष्टितो भगवान्वह्निर्देवैः स्तुतिपरायणैः ॥
तस्यैव निर्झरस्याथ तटस्थो वाक्यमब्रवीत् ॥ ३२ ॥
॥ वह्निरुवाच ॥ ॥
अभक्ष्यभक्षणे शक्रो मामिच्छति नियोजितुम् ॥
तेनैव न करोत्येष वृष्टिं मर्त्त्ये सुरेश्वरः ॥ ३३ ॥
अतोऽहं भूतलं त्यक्त्वा प्रविष्टो निर्झरे त्विह ॥
प्रणष्टान्नरसे लोके न चाहं स्थातुमुत्सहे ॥ ३४ ॥
॥ शक्र उवाच ॥ ॥
शृणु यस्मान्मया रोधः कृतो वृष्टेर्हुताशन ॥
देवापिर्नाम धर्मज्ञः क्षत्रियाणां यशस्करः ॥ ३५ ॥
प्रतीपस्तत्सुतः साधुः सर्वशीलवतां वरः ॥
देवापौ च गते स्वर्गं ज्येष्ठभ्रातरमग्रजम्॥
संत्यक्त्वा जगृहे राज्यं शंतनुस्तत्सुतोऽवरः ॥ ३६ ॥
एतस्मात्कारणाद्राज्ये तस्य वृष्टिर्निराकृता ॥
तवादेशात्करिष्यामि निवर्तस्व हुताशन ॥ ३७ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा सहस्राक्षः पुष्करावर्तकान्घनान् ॥
द्रुतमाज्ञापयामास वृष्ट्यर्थं जगतीतले॥ ३८॥
अथ शक्रसमादिष्टा विद्युत्वन्तो बलाहकाः॥
गम्भीरराविणः सर्वं भूतलं प्रचुरैर्जलैः॥
पूरयामासुरत्युग्रा द्युतिमन्तो महीपते॥ ३९॥
ततोऽगमत्परां तुष्टिं भगवान्हव्यवाहनः॥
रोचयामास भूपृष्ठे वसतिं देवकारणात्॥ 7.3.30.४०॥
देवा ऊचुः॥
तवाऽऽदेशात्कृता वृष्टिरन्यत्कार्यं हुताशन ॥
यत्ते प्रियं तदस्माकं सुशीघ्रं हि निवेदय ॥ ४१ ॥
॥ अग्निरुवाच ॥ ॥
एतज्जलाशयं पुण्यं मन्नाम्ना तीर्थमुत्तमम् ॥
ख्यातिं यातु धरापृष्ठे युष्माकं हि प्रसादतः ॥ ४२ ॥
॥ देवा ऊचुः ॥ ॥
अग्नितीर्थमिदं लोके प्रख्यातिं संप्रयास्यति ॥
अत्र स्नातो नरः सम्यगग्निलोकं प्रयास्यति ॥ ४३ ॥
यस्तिलान्दास्यति नरस्तीर्थेऽस्मिन्सुसमाहितः ॥
अग्निष्टोमस्य यज्ञस्य फलं तस्य भविष्यति ॥४४॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा सुराः सर्वे स्वस्वस्थानं ययुस्ततः ॥
वह्निश्च भगवान्राजन्यथापूर्वमवर्तत ॥ ४५ ॥
यश्चैत्पठते नित्यं प्रातरुत्थाय चोत्तमम् ॥ अग्नितीर्थस्य माहात्म्यं मुच्यते सर्वपातकैः ॥ ४६ ॥
अहोरात्रकृतात्पापात्स शृण्वन्नपि मुच्यते ॥ ४७ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डेऽग्नितीर्थमाहात्म्यवर्णनंनाम त्रिंशोऽध्यायः ॥ ३० ॥