स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ पौलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ कपिलातीर्थमुत्तमम् ॥
यत्र स्नातो नरः सम्यङ्मुच्यते सर्वकिल्बिषैः ॥ १ ॥
पुराऽभून्नृपतिर्नाम सुप्रभः परवीरहा ॥
नित्यं च मृगयाशीलो मृगाणामहिते रतः ॥ २ ॥
न तथा स्त्रीषु नो भोगे नाश्वयाने न वारणे ॥
तस्याभूदनुरागश्च यथा मृगविमर्द्दने ॥ ३ ॥
स कदाचिन्नृपश्रेष्ठ मृगासक्तोऽर्बुदं गतः ॥
अपश्यत्सानुदेशे च मृगीं शिशुसमावृताम् ॥ ४ ॥
स्तनं धयन्तीं सुस्निग्धां शिशोः क्षीरानुरागिणः ॥
सा तेन विद्धा बाणेन सहसा नतपर्वणा ॥ ५ ॥
अथ सा पार्थिवं दृष्ट्वा प्रगृहीतशरासनम् ॥
द्वितीयं योजयानं च मृगी बाणं सुनिर्मलम् ॥ ६ ॥
ततः सा कोपसन्तप्ता भूपालं प्रत्यभाषत ॥
नायं धर्मः स्मृतः क्षात्त्रो यस्त्वयाद्य निषेवितः ॥७ ॥
शयानो मैथुनासक्तः स्तनपो व्याधिपीडितः ॥
न हंतव्यो मृगो राजन्मृगी च शिशुना वृता ॥ ८ ॥
तदद्य मरणं जातं मम सर्वं नृपाधम ॥
तव बाणं समासाद्य पुत्रस्य च मया विना ॥ ९ ॥
यस्मादहमधर्मेण हता भूमिपते त्वया ॥
तस्मादत्रैव सानौ त्वं रौद्रव्याघ्रो भविष्यसि॥ 7.3.29.१० ॥
॥ पुलस्त्य उवाच ॥ ॥
तच्छ्रुत्वा सुमहत्पापं स नृपो भयसंकुलम् ॥
तां वै प्रसादयामास प्राणशेषां तदा मृगीम् ॥ ११ ॥
अविवेकान्मया भद्रे हता त्वं निर्घृणेन च ॥
कुरु शापविमोक्षं त्वं तस्माद्दीनस्य सन्मृगि ॥ १२ ॥
॥ मृग्युवाच ॥ ॥
यदा तु कपिलां नाम द्रक्ष्यसे त्वं पयस्विनीम् ॥
धेनुं तया समालापात्प्रकृतिं यास्यसे पुनः ॥ १३ ॥
एवमुक्त्वा मृगी राजाग्रतः प्राणैर्व्ययुज्यत ॥
पीडिता शरघातेन पुत्रस्नेहाद्विशेषतः ॥ १४ ॥
अथाऽसौ पार्थिवः सद्यो रौद्रास्यः समजायत ॥
व्याघ्रो दशकरालश्च तीक्ष्णदन्तनखस्तथा ॥
भक्षयामास तां सेनामात्मीयां क्रोधमूर्च्छितः ॥ १५ ॥
ततस्ते सैनिका राजन्हतशेषाः सुदुःखिताः ॥
स्वगृहाणि ययुस्तत्र यथा वृत्तं जने पुरे ॥ १६ ॥
निवेदयन्तो वृत्तांतं चत्वरेषु त्रिकेषु च ॥
यथा वै व्याघ्रतां प्राप्तः स राजाऽर्बुदपर्वते ॥ १७ ॥
तच्छ्रुत्वा वचनं तस्य पुत्रं भूरिपराक्रमम् ॥
राज्येऽभिषेचयामासु नाम्ना ख्यातं महौजसम् ॥ १८ ॥
कस्यचित्त्वथ कालस्य तस्मिन्सानौ नृपोत्तम ॥
तृषार्तं गोकुलं प्राप्तं गोपगोपीसमाकुलम् ॥ १९ ॥
तत्रैका गौः परिभ्रष्टा स्वयूथात्तृणतृष्णया ॥
कपिलेति च विख्याता स्वयूथस्याग्रगामिनी॥ ॥ 7.3.29.२० ॥
अच्छिन्नाग्रतृणं या तु सदा भक्षयते नृप ॥
अथ सा गह्वरं प्राप्ता गिरेः शून्यं भयंकरम् ॥ २१ ॥
तत्राससाद तां व्याघ्रो दंष्ट्रोत्कटमुखावहः ॥
सा तं दृष्टवती पापं त्रासमाप मृगीव हि ॥ २२ ॥
स्मरंती गोकुले बद्धं स्वसुतं क्षीरपायिनम् ॥
दुःखेन रुदतीं तां स दृष्ट्वोवाच मृगाधिपः ॥ २३ ॥
॥ व्याघ्र उवाच ॥ ॥
किं वृथा रुद्यते धेनो मां प्राप्य न हि जीवितम् ॥
विद्यते कस्यचिन्मूर्खे स्मरेष्टां देवतां ततः ॥ २४ ॥ ॥
॥ कपिलोवाच ॥ ॥
स्वजीवितभयाद्व्याघ्र न रोदिमि कथंचन ॥
पुत्रो मे बालको गोष्ठ्यां क्षीरपायी प्रतीक्षते ॥ २५ ॥
नाद्यापि स तृणा न्यत्ति तेनाहं शोकविक्लवा ॥
रोद्मि व्याघ्र सुतस्नेहात्सत्येनात्मानमालभे ॥ २६ ॥
पाययित्वा सुतं बालं दृष्ट्वा पृष्ट्वा जनं स्वकम् ॥
पुनः प्रत्यागमिष्यामि यदि त्वं मन्यसे विभो ॥ २७ ॥
॥ व्याघ्र उवाच ॥ ॥
गत्वा स्वसुतसांनिध्यं दृष्ट्वात्मीयं च गोकुलम् ॥
पुनरागमनं यत्ते न च तच्छ्रद्दधाम्यहम् ॥ २८ ॥
भयान्मां भाषसे चैवं नास्ति प्राणसमं भयम् ॥
तस्मात्प्राणभयान्न त्वमागमिष्यसि धेनुके ॥ २९ ॥
॥ कपिलो वाच ॥ ॥
शपथैरागमिष्यामि सत्यमेतच्छृणुष्व मे ॥
प्रत्ययो यदि ते भूयान्मां मुञ्च त्वं मृगाधिप ॥ 7.3.29.३० ॥
॥ व्याघ्र उवाच ॥ ॥
ब्रूहि ताञ्छपथान्भद्रे समागच्छसि यैः पुनः॥
ततोऽहं प्रत्ययं गत्वा मोचयिष्यामि वा न वा ॥ ३१ ॥
॥ कपिलोवाच ॥ ॥
वेदाध्ययनसंपन्नं ब्राह्मणं वंचयेत्तु यः ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३२ ॥
गुरुद्रोहरतानां च यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३३ ॥
यत्पापं ब्राह्मणं हत्वा गां च हत्वा प्रजायते ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३४ ॥
मित्रद्रोहे च यत्पापं यत्पापं गुरुवंचके ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३५ ॥
यो गां स्पृशति पादेन ब्राह्मणं पावकं तथा ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३६ ॥
कूपारामतडागानां यो भंगं कुरुत नरः ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३७ ॥
कृतघ्नस्य च यत्पापं सूचकस्य च यद्भवेत् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३८ ॥
मद्यमांसरतानां च यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३९ ॥
राजपैशुन्यकर्तॄणां यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ 7.3.29.४० ॥
वेदविक्रयकर्तॄणां यत्पापं संप्रजायते ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४१ ॥
दीयमानं द्विजातीनां निवारयति योऽल्पधीः ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४२ ॥
विश्वस्तघातकानां च यत्पापं समुदाहृतम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४३ ॥
द्विजद्वेषरतानां हि यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४४ ॥
परवादरतानां च पापं यच्च दुरात्मनाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ॥ ४५ ॥
रात्रौ ये पापकर्माणो भक्षंति दधिसक्तुकान् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४६ ॥
वृंताकं मूलकं श्वेतं रक्तं येऽश्नंति गृंजनम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४७ ॥
॥ पुलस्त्य उवाच ॥ ॥
स तस्याः शपथाञ्छ्रुत्वा विस्मयोत्फुल्ललोचनः ॥
प्रत्ययं च तदा गत्वा व्याघ्रो वाक्यमथाब्रवीत् ॥ ४८ ॥
॥ व्याघ्र उवाच ॥ ॥
गच्छ त्वं गोकुले भद्रे पुनरागमनं कुरु ॥
न चैतदवगंतव्यं यदयं वञ्चितो मया ॥ ४९ ॥
कपिले गच्छ पश्य त्वं तनयं सुतवत्सले ॥
पाययित्वा स्तनं पूर्णमवघ्राय च मूर्धनि ॥ 7.3.29.५० ॥
मातरं भ्रातरं दृष्ट्वा सखीः स्वजनवबांधवान् ॥
सत्यमेवाग्रतः कृत्वा नान्यथा कर्तुमर्हसि ॥ ५१ ॥
॥ पुलस्त्य उवाच ॥ ॥
साऽनुज्ञाता मृगेन्द्रेण कपिला पुत्रवत्सला ॥।
अश्रुपूर्णमुखी दीना प्रस्थिता गोकुलं प्रति ॥ ५२ ॥
वेपमाना भयोद्विग्ना शोकसागरमध्यगा ॥
करिणीव हि रौद्रेण हरिणा सा बलीयसा ॥।
ततः स्वगोकुलं प्राप्ता रभमाणा मुहुर्मुहुः ॥ ५३ ॥
तस्याः शब्दं ततः श्रुत्वा ज्ञात्वा वत्सः स्वमातरम् ॥
सम्मुखः प्रययौ तूर्णमूर्द्ध्वपुच्छः प्रहर्षितः ॥ ५४ ॥
अकालागमनं तस्या रौद्रं भंभारवं तथा ॥
दृष्ट्वा श्रुत्वा च वत्सोऽसौ शंकितः परिपृच्छति ॥ ५५ ॥
॥ वत्स उवाच ॥ ॥
न ते पश्यामि सौम्यत्वं दुर्मना इव लक्ष्यमे ॥
किमर्थमन्यवेलायां समायाता वदस्व मे ॥ ५६ ॥
॥ कपिलोवाच ॥ ॥
पिब पुत्र स्तनं पश्चात्कारणं चापि मे शृणु ॥
आगताऽहं तव स्नेहात्कुरु तृप्तिं यथेप्सिताम् ॥५७ ॥
अपश्चिममिदं पुत्र दुर्लभं मातृदर्शनम् ॥
मयाऽद्य पुत्र गंतव्यं शपथैरागता यतः ॥५८॥
व्याघ्रस्य कामरूपस्य दातव्यं जीवितं मया ॥
तेनाहं शपथैर्मुक्ता कारणात्तव पुत्रक ॥ ५९ ॥
मयाऽद्य तत्र गंतव्यं मृगराजसमीपतः ॥
यदा च शपथैः पुत्र दास्यामि च कलेवरम् ॥7.3.29.६०॥
॥ वत्स उवाच ॥ ॥
अहं तत्र गमिष्यामि यत्र त्वं गंतुमिच्छसि ॥
श्लाघ्यं हि मरणं मेऽद्य त्वया सह न संशयः ॥६१॥
एकाकिनाऽपि मर्त्तव्यं यस्मान्मया त्वया विना ॥
यदि मां सहितं तत्र त्वया व्याघ्रो वधिष्यति ॥६२॥
या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति ॥
तस्मादवश्यं यास्यामि त्वया सह न संशयः ॥ ६३ ॥
अथवाऽत्रैव तिष्ठ त्वं शपथाः संतु मे तव ॥
तव स्थाने प्रयास्यामि मातस्त्वं यदि मन्यसे ॥ ६४ ॥
जनन्या विप्रयुक्तस्य जीवितं न हि मे प्रियम् ॥
नास्ति मातृसमः कश्चिद्बालानां क्षीरजीविनाम् ॥ ६५ ॥
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः ॥
ये मातृनिरताः पुत्रास्ते यांति परमां गतिम् ॥ ६६ ॥
॥ कपिलोवाच ॥ ॥
ममैव विहितो मृत्युर्न ते पुत्रक सांप्रतम् ॥
न चायमन्यभूतानां मृत्युः स्यादन्यमृत्युतः ॥ ६७ ॥
अपश्चिममिदं पुत्र मातुः सन्देशमुत्तमम् ॥
शृणुष्वावहितो भूत्वा परिणामसुखावहम् ॥ ६८ ॥
वने चर सदा वत्स अप्रमादपरो भव ॥
प्रमादात्सर्वभूतानि विनश्यंति न संशयः ॥ ६९ ॥
न च लोभेन चर्तव्यं विषमस्थं तृणं क्वचित् ॥
लोभाद्विनाशो जंतूनामिह लोके परत्र च ॥ 7.3.29.७० ॥
समुद्रमटवीं युद्धं विशंते लोभमोहिताः ॥
लोभादि कार्यमत्युग्रं कुर्वंति त्याज्य एव सः ॥ ७१ ॥
लोभात्प्रमादादाश्वासात्पुरुषो बाध्यते त्रिभिः ॥
तस्माल्लोभो न कर्त्तव्यो न प्रमादो न विश्वसेत् ॥ ७२ ॥
आत्मा च सततं पुत्र रक्षितव्यः प्रयत्नतः ॥
सर्वेभ्यः श्वापदेभ्यश्च म्लेच्छेभ्यस्तस्करादितः ॥७३॥
तिर्यग्भ्यः पापयोनिभ्यः सदा विचरता वने ॥
न च शोकस्त्वया कार्यः सर्वेषां मरणं धुवम् ॥ ७४ ॥
अस्माकं प्रतिवाचं च शृणु शोकविनाशिनीम् ॥
यथा हि पथिकः कश्चिच्छायार्थी वृक्षमास्थितः ॥
विश्रान्तश्च पुनर्याति तद्वद्भूतसमागमः ॥ ७५ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं संभाष्य तं वत्समवघ्राय च मूर्द्धनि ॥
स्वमातरं सखीवर्गं ततो द्रष्टुं समागता ॥ ७६ ॥
अब्रवीच्च ततो वाक्यं पुत्रशोकेन दुःखिता ॥
अंबाः शृणुत मे वाक्यमपश्चिममिदं स्फुटम् ॥ ७७ ॥
अनाथमबलं दीनं फेनपं मम पुत्रकम् ॥
मातृशोकाभिसंतप्तं सर्वास्तं पालयिष्यथ ॥ ७८ ॥
भाविनीनामयं पुत्रः सांप्रतं च विशेषतः ॥
स्नपनीयः पायितव्यः पोष्यः पाल्यः स्वपुत्रवत् ॥ ७९ ॥
चरंतं विषमे स्थाने चरंतं परगोकुले ॥
अकार्येषु प्रवर्तंतं हे सख्यो वारयिष्यथ ॥ 7.3.29.८० ॥
क्षमध्वं च महाभागा यास्येऽहं सत्यसंश्रयात् ॥
यत्राऽसौ तिष्ठते व्याघ्रो मुक्ताऽहं येन सांप्रतम् ॥ ८१॥
सर्वास्ता वचनं श्रुत्वा तस्याः शोकसमन्विताः ॥
विषादं परमं गत्वा वाक्यमूचुः सुदुःखिताः॥ ८२॥
कपिले नैव गंतव्यं न ते दोषो भविष्यति॥
प्राणात्यये न दोषोऽस्ति संपराये च दारुणे॥ ८३॥
अत्र गाथा पुरा गीता मुनिभिर्धर्मवादिभिः॥
प्राणात्यये समुत्पन्ने शपथे नास्ति पातकम्॥ ८४॥
कपिलोवाच॥
प्राणिनां प्राण रक्षार्थं वदाम्येवानृतं वचः ॥
नात्मार्थमुपयुञ्जामि स्वल्पमप्यनृतं क्वचित् ॥ ८५ ॥
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् ॥
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ८६ ॥
तस्मान्नानृतमात्मानं करिष्ये जीविताशया ॥
आज्ञापयतु मामार्या यास्ये यत्र मृगाधिपः ॥ ८७ ॥
॥ वयस्या ऊचुः ॥ ॥
कपिले त्वं नमस्कार्या सर्वैरपि सुरासुरैः ॥
यत्त्वं परमसत्येन प्राणांस्त्यजसि दुस्त्यजान् ॥ ८८ ॥
अवश्यं न च ते भावी मृत्युः सत्यात्कथंचन ॥
प्रमाणं यदि सत्यं हि व्रज पंथाः शिवोऽस्तु ते ॥ ८९ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्ता च कपिला गता यत्र मृगाधिपः ॥
अथासौ कपिलां दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥
अब्रवीत्प्रश्रितं वाक्यं हर्षगद्गदया गिरा ॥ 7.3.29.९० ॥
॥ व्याघ्र उवाच ॥ ॥
स्वागतं तव कल्याणि कपिले सत्यवादिनि ॥
नहि सत्यवतां किंचिदशुभं विद्यते क्वचित् ॥ ९१ ॥
त्वयोक्तं कपिले पूर्वं शपथैरागमाय च ॥
तेन मे कौतुकं जातं याताऽऽगच्छेत्पुनः कथम् ॥ ९२ ॥
तस्माद्गच्छ मया मुक्ता यत्राऽसौ तनयस्तव ॥
तिष्ठते गोकुले बद्धः क्षीरपायी सुदुःखितः ॥९३॥ ॥
॥ पुलस्त्य उवाच ॥ ॥
एतस्मिन्नेव काले तु स राजा प्रकृतिं गतः ॥
मृगीशापेन निर्मुक्तो दिव्यरूपवपुर्धरः ॥
ततोऽब्रवीत्प्रहृष्टात्मा कपिलां सत्यवादिनीम् ॥ ९४ ॥
॥ राजोवाच ॥ ॥
प्रसादात्तव मुक्तोऽहं शापादस्मात्सुदारुणात् ॥
किं ते प्रियं करोम्यद्य धेनुके ब्रूहि सत्वरम् ॥ ९५ ॥
॥ कपिलोवाच ॥ ॥
कृतकृत्याऽस्मि राजेन्द यत्त्वं मुक्तोऽसि किल्बिषात्॥
पिपासा बाधतेत्यर्थं सांप्रतं जलमानयम् ॥ ९६ ॥
नैवानृतं विजानीहि सत्यमेतन्मयोदितम् ॥ ९७ ॥
॥ पुलस्त्य उवाच ॥ ॥
अथासौ पार्थिवो हस्ते चापमादाय सत्वरम् ॥
सज्यं कृत्वा शरं गृह्य जघान धरणीतलम् ॥ ९८ ॥
ततः सलिलमुत्तस्थौ निर्मलं शीतलं शुभम् ॥
तत्र सा कपिला स्नात्वा वितृषा समपद्यत ॥ ९९ ॥
एतस्मिन्नन्तरे धर्मः स्वयं तत्र समागतः ॥
अब्रवीत्कपिलां हृष्टो वरं वरय शोभने ॥7.3.29.१०० ॥
तव सत्येन तुष्टोऽहं नास्ति ते सदृशी क्वचित् ॥
त्रैलोक्ये सकले धेनुर्न भविष्यति वै शुभे ॥ १०१ ॥
॥ कपिलोवाच ॥ ॥
प्रसादात्तव गच्छेय सह राज्ञा सगोकुला ॥
सुप्रभेण पदं दिव्यं जरामरणवर्जितम्॥ १०२ ॥
मन्नाम्ना ख्यातिमायातु पुण्यमेतज्जलाशयम् ॥
सर्वपापहरं नृणां सर्वकामप्रदं तथा ॥ १०३ ॥
॥ धर्म उवाच ॥ ॥
येऽत्र स्नानं करिष्यंति सुपुण्ये सलिले शुभे ॥
चतुर्द्दश्यां विशेषेण ते यास्यंति परां गतिम् ॥ १०४ ॥
तव नाम्ना सुपुण्यं हि तीर्थमेतद्भविष्यति ॥
दर्शमुद्दिश्य मर्त्यस्तु प्राप्स्यते गोसहस्रकम् ॥
स्नानाल्लक्षगुणं दानात्पुण्यं चैव तथाऽक्षयम् ॥ १०५ ॥
येऽत्र श्राद्धं करिष्यंति मानवाः सुसमाहिताः॥
सर्वदानफलं तेषां भुक्तिमुक्ती महात्मनाम् ॥ १०६ ॥
अपि कीटपतंगा ये तृषार्ताः सलिले शुभे ॥
मज्जयिष्यति यास्यंति तेऽपि स्थानं दिवौकसाम्॥ १०७ ॥
किं पुनर्भक्तिसंयुक्ता मानवाः सत्यवादिनः ॥
मनस्विनो महाभागाः श्रद्धावंतो विचक्षणाः ॥ १०८ ॥
॥ पुलस्त्य उवाच ॥ ॥
एतस्मिन्नेव काले तु विमानानि सहस्रशः ॥
समायातानि राजेंद्र कपिलायाः प्रभावतः ॥ १०९ ॥
तान्यारुह्याथ कपिला गोपगोकुलसंकुला ॥
सुप्रभेण समायुक्ता तत्पदं परमं गता ॥ 7.3.29.११० ॥
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥
श्राद्धं चैवात्मनः शक्त्या दानं पार्थिवसत्तम ॥ ॥ १११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे कपिलातीर्थमाहात्म्यवर्णनंनामैकोनत्रिंशोऽध्यायः॥२९॥