सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः २५

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
ततः पिंडारकं गच्छेत्तीर्थं पापहरं नृप ॥
यत्र पूर्वं तपस्तप्तं मंकिना ब्राह्मणेन च ॥
सिद्धिं गतस्तथा राजंस्तीर्थस्यास्य प्रभावतः ॥ १ ॥
पुरा मंकिरभूद्विप्रो नाममात्रेण भूपते ॥
मूर्खो ब्राह्मणकृत्यानामनभिज्ञः सुमन्दधीः ॥ २ ॥
अथासौ पर्वते रम्ये लोकानां नृपसत्तम ॥
महिषी रक्षयामास ततः पिंडारकर्मणि ॥३॥
कस्यचित्त्वथ कालस्य तेन वित्तमुपार्जितम्॥
दूरात्कृच्छ्रेण च स्तोकं जगृहे गोयुगं ततः ॥ ४॥।
ततस्तद्दमयामास गोयुगं नृपसत्तम ॥
अथ दैववशाद्राजन्दमितं तस्य गोयुगम्॥ ५ ॥
निबद्धमुष्ट्रमासाद्य ग्रीवादेशे बलात्स्थितम् ॥
अथोष्ट्रस्त्वरया राजन्नुत्थितस्त्रासतत्परः ॥६॥
गोयुगेन हि ग्रीवायां लम्बमानेन भूपते ॥
तद्दृष्ट्वा सुमहाश्चर्यं विनाशं गोयुगस्य तु ॥ ७ ॥
मंकिर्वैराग्यमापन्नस्त्यक्त्वा ग्रामं वनं ययौ ॥
स गत्वा निर्झरं कञ्चिदर्बुदे नृपसत्तम ॥८॥
त्रिकालं कुरुते स्नानं गायत्रीजपमुत्तमम् ॥
तेनासौ गतपापोऽभूद्दिव्यदर्शी च भूमिप ॥९॥
एतस्मिन्नेव काले तु तेन मार्गेण शंकरः ॥
सह गौर्या विनिष्क्रांतः क्रीडार्थं रम्यपर्वते ॥7.3.25.१०॥
स दृष्टः सहसा तेन पिंडारेण महात्मना ॥
प्रणाममकरोद्राजंस्ततस्तं शंकरोऽब्रवीत् ॥ ११ ॥
न वृथा दर्शनं मे स्याद्वरो मे गृह्यतां द्विज ॥
यदभीष्टं महाराज यद्यपि स्यात्सुदुर्लभम् ॥ १२ ॥
॥ पिंडारक उवाच ॥ ॥
गणोऽहं तव देवेश भवानि त्रिपुरांतक ॥
यथा तथा कुरु विभो नान्यन्मे हृदि वर्तते ॥ १३ ॥
एतत्पिण्डारकं तीर्थ मम नाम्ना प्रसिध्यतु ॥ १४ ॥
॥ भगवानुवाच ॥ ॥
भविष्यसि गणोऽस्माकं देहांते त्वं द्विजोत्तम ॥
एतत्पिंडारकंनाम तीर्थमत्र भविष्यति ॥ १५ ॥
अहमत्र महाष्टम्यां निवेक्ष्यामि महामते ॥
ये च स्नानं करिष्यंति संप्राप्ते चाष्टमीदिने ॥
ते यास्यंति परं स्थानं यत्राहं नित्यसंस्थितः ॥ १६ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा महादेवस्तत्रैवांतरधीयत ॥।
मंकिः पिंडारकस्तत्र तपस्तेपे दिवानिशम् ॥ १७ ॥
ततः कालेन महता त्यक्त्वा देहं दिवं गतः ॥
यत्रास्ते भगवान्रुद्रो गणस्तत्र बभूव ह ॥ १८ ॥।
तस्मात्सर्वप्रयत्नेन स्नानं मन्त्रेण चाचरेत् ॥१९॥
राजेन्द्र महिषीदानमथाष्टम्यां विशेषतः ॥
य इच्छति सदाऽभीष्टमिह लोके परत्र च ॥7.3.25.२०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पिंडारकतीर्थमाहात्म्यवर्णनंनाम पंचविंशोऽध्यायः॥ २५॥