स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ गुहामध्यनिवासिनी ॥
देवी कात्यायनी यत्र शुंभदानवनाशिनी ॥ १ ॥
शुंभोनाम महादैत्यः पुराऽऽसीत्पृथिवीतले ॥
तेन सर्वं जगद्व्याप्तं जित्वा देवान्रणाजिरे ॥ २ ॥
स शंकरवराद्दैत्यो देवदानवरक्षसाम्॥
अवध्यो योषितं मुक्त्वा सर्वेषां प्राणिनां भुवि ॥ ३ ॥
ततो देवगणाः सर्वे गत्वाऽर्बुदमथाचलम् ॥
तपस्तेपुर्वधार्थाय शुंभस्य जगतीपते ॥
देवीमाराधयामासुर्व्यक्तरूपां सुरेश्वरीम् ॥ ४ ॥
अथ तेषां प्रसन्ना सा दृष्टिगोचरमागता ॥
अब्रवीद्वरदास्मीति ब्रूत किं करवाणि च ॥ ५ ॥
॥ देवा ऊचुः ॥ ॥
सर्वं नोऽपहृतं देवि शुंभेन सुदुरात्मना ॥
तं निषूदय कल्याणि सोवध्योन्यैः सदा रणे ॥ ६ ॥
त्वया संरक्षिता देवि पुरा बाष्कलितो वयम् ॥ ७ ॥
नान्याऽस्माकं गतिर्मातस्त्वां मुक्त्वा चारुहासिनीम् ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्ता सुरैर्देवी गत्वा शुंभनिकेतनम्॥
आजुहाव रणे क्रुद्धा भर्त्सयित्वा मुहुर्मुहुः ॥ ७ ॥
स तया याचिते युद्धे ज्ञात्वा तां योषितं नृप ॥
अवज्ञाय ततो दैत्यः प्रेषयामास दानवान् ॥ ९ ॥
जीवग्राहेण दुष्टेयं गृह्यतां परुषस्वना ॥
क्रियतां दारुणो दंडो मम वाक्यान्न संशयः ॥ 7.3.24.१० ॥
अथ तस्य समादेशाद्दानवास्तां ततो द्रुतम् ॥
गत्वा निर्भर्त्सयामासुर्वेष्टयित्वा दिशो दश ॥ ११ ॥
ततोऽवलोकनाद्दैत्यास्तया ते भस्मसात्कृताः ॥
ततः शुंभः प्रकुपितः स्वयमेव समाययौ ॥१२॥
अब्रवीत्तिष्ठतिष्ठेति खङ्गमुद्यम्य भीषणः ॥
सोऽपिदेव्या महाराज तथा चैवावलोकितः ॥१३॥
अभवद्भस्मसात्सद्यः पतंग इव पावकम्॥
हते तस्मिंस्ततो दैत्याः शेषाः पार्थिवसत्तम॥
भित्त्वा रसातलं जग्मुः पातालं भयसंयुताः ॥१४॥
ततो देवगणाः सर्वे तुष्टुवुस्तां सुरेश्वरीम्॥
अब्रुवंश्च वरं ब्रूहि यत्ते मनसि वर्त्तते ॥१५॥
देव्युवाच ॥ ॥
तत्रैव पर्वते स्थास्ये ह्यर्बुदेऽहं सुरोत्तमाः ॥
अभीष्टः पर्वतोऽस्माकं सं सदाऽर्बुदसंज्ञितः ॥१६॥
॥ देवा ऊचुः ॥ ॥
तत्रस्थां त्वां समालोक्य मर्त्त्या यांति त्रिविष्टपम् ॥
विना यज्ञैस्तथा दानैः स्वर्गः संकीर्णतां गतः॥
नान्यत्कारणमस्तीह निषेधस्य सुरेश्वरि ॥१७॥
॥ देव्युवाच ॥ ॥
तत्राहं विजने रम्ये गुहामध्ये सुरेश्वराः ॥
स्थास्यामि विरलाः केचिद्यास्यंति प्राणिनो मम ॥
दृष्टिगोचरमार्गे हि गत्वा तं पर्वतं प्रति ॥१७॥
॥ देवा ऊचुः ॥ ॥
यद्येवं देवि तेऽभीष्टमेवं कुरु शुचिस्मिते ॥
वयं त्वां तत्र द्रक्ष्यामः शुक्लाष्टम्यां सदा शुचेः ॥ १९ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्ताः सुरा देव्या प्रहृष्टास्त्रिदिवं ययुः ॥
सापि देवी गिरौ तत्र गत्वा चैवार्बुदे नृप ॥ 7.3.24.२० ॥
गुहामध्यं समासाद्य नित्यं जगद्धिताय वै ॥
विविक्ते न्यवसत्प्रीता दुर्ल्लभा सुरमानवैः ॥ २१ ॥
यस्तां पश्यति राजेन्द्र शुक्लाष्टम्यां समाहितः ॥
अभीष्टं स सदाप्नोति यद्यपि स्यात्सुदुर्ल्लभम् ॥२२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कात्यायनीमाहात्म्यवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥