सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः २२

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ श्रीमातां देववंदिताम् ॥
सर्वकामप्रदां नृणामिहलोके परत्र च ॥१॥
या च सर्वमयी शक्तिर्यया व्याप्तमिदं जगत् ॥
सा तस्मिन्पर्वते साक्षात्स्वयं वासमरोचयत् ॥२॥
पुरा देवयुगे राजा कलिंगोनाम दानवः ॥
जरामरणहीनोसौ देवानां च भयंकरः॥३॥
तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्॥
बलप्रभावतः स्वर्गो जितस्तेन सुराधिपः ॥
ब्रह्मलोकमनुप्राप्तो देवैः सर्वैः समन्वितः ॥४॥
तेन दैत्येन सर्वेऽपि त्रासिताः सुरमानवाः ॥
कलिंगोनाम दैत्यः स स्वयमिन्द्रो बभूव ह ॥ ५ ॥
वसवो मरुतः साध्या विश्वेदेवाः सुरर्षयः ॥
तेन सर्वे कृता दैत्या यथायोग्यं नराधिप ॥ ६ ॥
यज्ञभागान्स्वयं सर्वे बुभुजुस्ते च दानवाः ॥
तपोऽर्थे च ततो देवा गताः सर्वेऽर्बुदाचलम् ॥ ७ ॥
अद्यापि देवताखातं त्रैलोक्ये ख्यातिमागतम् ॥
तत्र व्रतपराः सर्वे पत्रमूलफलाशिनः ॥ ८ ॥
अव्यक्ताः परमत्रासाद्ध्यायंतस्ते च संस्थिताः ॥
पंचाग्निसाधकाः केचित्तत्र व्रतपरायणाः ॥ ९ ॥
एकाहारा निराहारा वायुभक्षास्तथा परे ॥
अन्ये मासोपवासाश्च चान्द्रायणपरायणाः ॥ 7.3.22.१० ॥
कृच्छ्रसांतपने निष्ठा महापाराकिणः परे ॥
अंबुभक्षा वायुभक्षाः फेनपाश्चोष्मपाः परे ॥ ११ ॥
जपहोमपराश्चान्ये ध्यानासक्तास्तथा परे ॥
बलिनैवद्यदानैश्च गंधधूपैर्नराधिप ॥ १२ ॥
पूजयंतः परां शक्तिं देवीं स्वकार्यहेतवे ॥
एवं तेषां व्रतस्थानां तपसा भावितात्मनाम् ॥
विमुक्तिरभवद्राजन्सर्वेषां कर्मबन्धनात् ॥ १३ ॥
ततः पूर्णे सहस्रांते वर्षाणां नृपसत्तम॥
देवी प्रत्यक्षतां प्राप्ता कन्यकारूपधारिणी॥ १४॥
पूर्वं जाता महाराज धूममूर्तिर्भयावहा॥
ततो ज्वाला ततः कन्या शुक्लवासोऽनुलेपना॥
दृष्ट्वा तां तुष्टुवुर्देवाः कृतांजलिपुटास्ततः॥ १५॥
नमोऽस्तु सर्वगे देवि नमस्ते सर्वपूजिते॥
कामगेऽचिन्त्ये नमस्ते त्रिदशाश्रये ॥ १६ ॥
नमस्ते परमादेवि ब्रह्मयोने नमोनमः ॥
अर्धमात्रेक्षरे चैव तस्यार्धार्धे नमोनमः ॥ १७ ॥
नमस्ते पद्मपत्राक्षि विश्वमातर्नमोनमः ॥
नमस्ते वरदे देवि रजःसत्त्वतमोमयि ॥ १८ ॥
स्वस्वरूपस्थिते देवि त्वं च संसारलक्षणम् ॥
त्वं बुद्धिस्त्वं धृतिः क्षांतिस्त्वं स्वाहा त्वं स्वधा क्षमा ॥ १९ ॥
त्वं वृद्धिस्त्वं गतिः कर्त्री शची लक्ष्मीश्च पार्वती ॥
सावित्री त्वं च गायत्री अजेया पापनाशिनी ॥7.3.22.२०॥
यच्चान्यदत्र देवेशि त्रैलोक्येऽस्तीतिसंज्ञितम् ॥
तद्रूपं तावकं देवि पर्वतेषु च संस्थितम् ॥ २१ ॥
वह्निना च यथा काष्ठं तंतुना च यथा पटः ॥
तथा त्वया जगद्व्याप्तं गुप्ता त्वं सर्वतः स्थिता ॥ २२ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं स्तुता जगन्माता तानुवाच सुरोत्तमान् ॥
वरो मे याच्यतां शीघ्रमभीष्टः सुरसत्तमाः ॥ २३ ॥
किमत्र गुप्तभावेन तिष्ठथ श्वभ्रमध्यगाः ॥
मद्भक्तानां भयं नास्ति त्रैलोक्येपि चराचरे ॥ २४ ॥ ॥
॥ देवा ऊचुः ॥
कलिंगेन वयं देवि निरस्ताः संगरे मुहुः ॥
तेन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ २५ ॥
यज्ञभागो हृतोऽस्माकं दैत्यानां स प्रकल्पितः ॥
तेन स्वर्गः समाक्रान्तः सुराः सर्वे निराकृताः ॥ २६ ॥
हत्वा दैत्यान्यथा भूयः शक्रः स्वपदमाप्नुयात् ॥
तथा कुरु महाभागे वर एषोऽस्मदीप्सितः ॥ २७ ॥
॥ देव्युवाच ॥ ॥
यथा यूयं मया सृष्टास्तथैवायं महासुरः ॥
विशेषो नास्ति मे कश्चिदुभयोः सुरसत्तमाः ॥ २८ ॥
तस्मात्तान्वारयिष्यामि शक्राद्यांस्त्रिदिवात्पुनः ॥
एवमुक्त्वा वरारोहा प्रेषयामास पार्थिव ॥ २९ ॥
दूतं कलिंगदैत्याय त्यज त्वं त्रिदिवं द्रुतम् ॥
स गत्वा बाष्कलिं दैत्यं सामपूर्वं वचोऽब्रवीत् ॥ 7.3.22.३० ॥
॥ दूत उवाच ॥ ॥
या सा सर्वगता देवी शक्तिरूपा शुचि स्मिता ॥
श्रीमाता जगतां माता देवैराराधिता परा ॥
तेषां तुष्टा च देवी त्वामिदं वचनमब्रवीत् ॥ ३१ ॥
स्वस्थानं गच्छ शीघ्रं त्वं शक्रो यातु त्रिविष्टपम् ॥
मद्वाक्याद्दानवश्रेष्ठ देवत्वं न भवेत्तव ॥ ३२ ॥
॥ पुलस्त्य उवाच ॥ ॥
स दूतवचनं श्रुत्वा दानवो मदगर्वितः ॥ ३४ ॥
अहं लोकेश्वरो मत्वा सगर्वमिदमब्रवीत् ॥ ३३ ॥
॥ बाष्कलिरुवाच ॥ ॥
का श्रीमातेति के देवा नास्मात्स्वर्गं त्यजाम्यहम् ॥
न तां जानामि तांश्चैव गत्वा ब्रूहि ममाज्ञया ॥ ३४ ॥
न भवद्भ्यस्वहं स्वर्गं प्रयच्छामि कथंचन ॥
दूतोऽवध्यो भवेद्राज्ञामपि वैरे सुदारुणे ॥
एतस्मात्कारणाद्दूत न त्वां प्राणैर्वियोजये ॥ ३५ ॥
श्रीमातां यदि मे दूत दर्शयिष्यसि चेत्ततः ॥
अभीष्टान्संप्रदास्यामि सत्यमेव ब्रवीम्यहम् ॥ ३६ ॥
अहं त्वया समं तत्र यास्ये यत्र स्थिता च सा ॥
निग्रहं च करिष्यामि वाक्यं मे सत्यकारणम् ॥ ३७ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा मदोन्मत्तो दूतेन च स दानवः ॥
अर्बुदं प्रययौ तूर्णं रोषेण महता वृतः ॥ ३८ ॥
दृष्ट्वा बाष्कलिमायांतं देवाः शक्रपुरोगमाः ॥
वार्यमाणास्तदा देव्या पलायनपरायणाः ॥ ३९ ॥
भयेन महताविष्टा दिशो भेजुः समंततः ॥
अथासौ बाष्कलिः प्राप्तः सैन्येन महता वृतः ॥ 7.3.22.४० ॥
श्रीमाता तिष्ठते यत्र पर्वतेर्बुदसंज्ञके ॥
दूतं च प्रेषयामास तमुवाच नराधिपः ॥ ४१ ॥
॥ बाष्कलिरुवाच ॥ ॥
गच्छ दूतवर ब्रूहि श्रीमातां चारुहासिनीम्॥
भार्या मे भव सुश्रोणि अहं ते वशगः सदा ॥ ४२ ॥
भविष्यति हि मे राज्यं सर्वं वशगतं तव ॥
अन्यथा धर्षयिष्यामि सर्वैः सार्द्धं सुरोत्तमैः ॥४३॥
किमिंद्रेणाल्पवीर्येण किमन्यैश्च वरानने ॥
सहस्राक्षो न मे तुल्यो न मे तुल्याः सुरासुराः ॥ ४४ ॥
॥ पुलस्त्य उवाच ॥ ॥
एतच्छ्रुत्वा ततो गत्वा स दूतः संन्यवेदयत् ॥
तस्य सर्वं यथावाक्यं तेनोक्तं च महीपते ॥४५॥
ततः श्रुत्वा स्मितं कृत्वा चिंतयामास भामिनी ॥
जरा मरणहीनोयं दैत्येन्द्रः शंभुना कृतः ॥ ४६ ॥
कथमस्य मया कार्यो निग्रहो देवताकृते ॥
पुनश्चिंतयते यावत्सा देवी दानवं प्रति ॥
तावत्तत्रागतः शीघ्रं स कामेन परिप्लुतः ॥ ४७ ॥
अथ दृष्टिनिपातेन सा देवी दानवाधिपम् ॥
व्यलोकयत्ततस्तस्या निश्चयः संबभूव ह ॥ ४८ ॥
ततो जहास सा देवीशनकैर्वृपसत्तम ॥
मुखात्तस्यास्ततः सैन्यं निष्क्रांतमतिभीषणम्॥ ४९ ॥
हस्तिनो हयवर्याश्च पादाताश्च पृथग्विधाः ॥
रथसाहस्रमारूढा योधाश्चापि सहस्रशः ॥ 7.3.22.५० ॥
तैः सैन्यं दानवेशस्य सर्वं शस्त्रैर्निपातितम् ॥
पश्यतस्तस्य दैत्यस्य निश्चलस्यासुरस्य च ॥ ५१ ॥
हते सैन्य बले तस्मिन्निंद्राद्यास्त्रिदिवौकसः ॥
तामूचुर्वचनं देवि दानवं हन्तुमर्हसि ॥
नास्मिञ्जीवति नो राज्यं स्वर्गे देवि भविष्यति ॥ ५२ ॥
॥ पुलस्त्य उवाच ॥ ॥
श्रुत्वा तद्वचनं तेषां ज्ञात्वा तं मृत्युवर्जितम् ॥
पर्वतस्य महाशृंगं दत्त्वा तस्योपरि स्वयम् ॥ ५३ ॥
निविष्टा सा जगन्माता श्रीमाता कामरूपिणी ॥
हिताय जगतां राजन्नद्यापि वरपर्वते ॥
तत्रैव वसते साक्षान्नृणां कामप्रदायिनी ॥ ५४ ॥
एतस्मिन्नेव काले तु सर्वे देवाः सवासवाः ॥
तुष्टुवुस्तां महाशक्तिं भयहन्त्रीं प्रहर्षिताः ॥ ५५ ॥
प्रसन्नाऽभूत्ततो देवी तेषां तत्र नराधिप ॥
स्वंस्वं स्थानं सुराः सर्वे परियांतु गतव्यथाः ॥
गत्वा स्थानं स्वकं सर्वे परिपांतु गतव्यथाः ॥ ५६ ॥
वरं वरय देवेन्द्र ब्रूहि यत्ते मनोगतम् ॥
तत्सर्वं संप्रदास्यामि तुष्टाहं भक्तितस्तव ॥ ५७ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
यदि तुष्टासि मे देवि शाश्वते भक्तिवत्सले ॥
अत्रैव स्थीयतां तावत्स्वर्गे यावदहं विभुः ॥ ५८ ॥
प्रशास्मि राज्यं देवेशि शाश्वते भक्तवत्सले ॥
अजरश्चामरश्चैव यतो दैत्यः सुरेश्वरि ॥ ५९ ॥
हरेण निर्मितः पूर्वं येन तिष्ठति निश्चलः ॥
प्रसादात्तव लोकाश्च त्रयः संतु निरामयाः ॥7.3.22.६०॥
अत्र त्वां पूजयिष्यामो वयं सर्वे समेत्य च ॥
चैत्रशुक्लचतुर्द्दश्यां दृष्ट्वा त्वां यांतु सद्गतिम् ॥ ६१ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा सहस्राक्षः सर्वदेवैः समन्वितः ॥
हृष्टस्त्रिविष्टपं प्राप्तो देव्यास्तस्याः प्रभावतः ॥ ६२ ॥
सापि तत्र स्थिता देवी देवानां हितकाम्यया ॥ ॥। ६३ ॥
यस्तां पश्यति चैत्रस्य चतुर्द्दश्यां सिते नृप ॥
स याति परमं स्थानं जरामरणवर्ज्जितम् ॥ ६४ ॥
किं व्रतैर्नियमैर्वापि दानैर्दत्ते नराधिप ॥
सर्वे तद्दर्शनस्यापि कलां नार्हंति षोडशीम् ॥ ६५ ॥
तत्रैव पादुके दिव्ये तया न्यस्ते नराधिप ॥
यस्ते पश्यति भूयोऽसौ संसारं न हि पश्यति ॥
सर्वान्कामानवाप्नोति इह लोके परत्र च ॥ ६६ ॥
॥ ययातिरुवाच ॥ ॥
कस्मिन्काले द्विजश्रेष्ठ देव्या मुक्तेऽत्र पादुके ॥
कस्माच्च कारणाद्ब्रूहि सर्वं विस्तरतो मम ॥ ६७ ॥
॥ पुलस्त्य उवाच ॥ ॥
तां देवीं मानवाः सर्वे संवीक्ष्य नृपसत्तम ॥
प्राप्नुवंति परां सिद्धिं द्विविधां धर्मकारिणः ॥ ६८ ॥
एतस्मिन्नेव काले तु यज्ञदानादिकाः क्रियाः ॥
प्रणष्टा भूतले राजंस्तीर्थयात्राव्रतोद्भवाः ॥ ६९ ॥
शून्यास्ते नरकाः सर्वे संबभूवुर्यमस्य ये ॥
यज्ञभागविहीनाश्च देवाः कष्टमुपागताः ॥ 7.3.22.७० ॥
अथ सर्वे नृपश्रेष्ठ देवास्तत्र समागताः ॥
ऊचुर्गत्वाऽर्बुदं तत्र श्रीमातां परमे श्वरीम्॥ ७१ ॥
॥ देवा ऊचुः ॥ ॥
अग्निष्टोमादिकाः सर्वाः क्रिया नष्टाः सुरेश्वरि ॥
मर्त्यलोके वयं तेन कर्मणातीव पीडिताः ॥ ७२ ॥
दृष्ट्वा त्वां देवि पाप्मानः सिद्धिं यांति सपूर्वजाः ॥
तस्माद्यथा वयं पुष्टिं व्रजामस्ते प्रसादतः ॥ ७३ ॥
न निष्क्रामति दैत्यश्च बाष्कलिस्त्वं तथा कुरु ॥ ७४ ॥
॥ पुलस्त्य उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा संचिंत्य सुचिरं तदा ॥
मुक्त्वा स्वे पादुके तत्र कृत्वा चाश्मसमुद्भवे ॥
देवानुवाच राजेंद्र सर्वानर्त्तिमुपागतान् ॥ ७५ ॥
॥ श्रीदेव्युवाच ॥ ॥
युष्मद्वाक्येन त्यक्तो हि मयाऽयं पर्वतोत्तमः ॥
विन्यस्ते पादुके तस्य रक्षार्थं बाष्कलेः सुराः ॥ ७६ ॥
मत्पादुकाभराक्रांतो न स दैत्यः सुरोत्तमाः ॥
स्थानात्प्रचलितुं शक्तः स्तंभितः स्याद्यथा मया ॥ ७७ ॥
एतच्छास्त्रं मया कृत्स्नं पादुकार्थं विनिर्मितम् ॥
अध्यात्मकं हितार्थाय प्राणिनां पृथिवीतले ॥ ७८ ॥
शास्त्रमार्गेण चानेन भक्त्या यः पादुके मम ॥
पूजयिष्यति सिद्धिः स्यात्तस्य मद्दर्शनोद्भवा ॥ ७९ ॥
चैत्रशुक्लचतुर्द्दश्यामहमत्रार्बुदे सदा ॥
अहोरात्रे वसिष्यामि सुगुप्ता गिरिगह्वरे ॥ ॥ 7.3.22.८० ॥
पर्वतोऽयं ममाभीष्टो न च त्यक्तुं मनो दधे ॥
तथापि संपरित्यक्तो युष्माकं हितकाम्यया ॥ ८१ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा तु सा देवी समंताद्देवकिंनरैः ॥
स्तूयमाना ययौ स्वर्गं मुक्त्वा ते पादुके शुभे ॥ ८२॥
अद्यापि सिद्धिमायांति योगिनो ध्यानतत्पराः ॥
तन्निष्ठास्तद्गतप्राणा यथा देव्याः प्रदर्शनात्॥ ८३ ॥
एतत्ते सर्वमाख्यातं यन्मां त्व परिपृच्छसि ॥
श्रीमातासंभवं पुण्यं पादुकाभ्यां च भूमिप ॥८४॥
यस्त्वेतत्पठते भक्त्या श्लाघते वाऽथ यो नरः ॥
सर्वपापैर्महाराज मुच्यते ज्ञानतत्परः ॥ ८५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे श्रीमातामाहात्म्यवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥