स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः १९

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम् ॥
वाराहस्य हरेरिष्टं सदा वाससुखप्रदम् ॥ १ ॥
वाराहेणावतारेण पृथ्वी तत्र समुद्धृता ॥
हरिणोक्ता स्थिरा तिष्ठ न भेतव्यं कदाचन ॥ २ ॥
अहं चेतो गमिष्यामि वैकुण्ठे च पुनः शुभे ॥
वरं वरय कल्याणि यद्यदिष्टं सुदुर्लभम् ॥ ३ ॥
॥ पृथिव्युवाच ॥ ॥
यदि देयो वरो मह्यं शंखचक्रगदाधर ॥
अनेन वपुषा तिष्ठ ह्यस्मिंस्तीर्थे सदा हरे ॥ ४ ॥
॥ हरिरुवाच ॥ ॥
अनेन वपुषा देवि पर्वतेऽर्बुदसंज्ञके ॥
अहं स्थास्यामि ते वाक्यात्सदा लोक हिते रतः ॥ ५ ॥
ममाग्रे यो ह्रदः पुण्यः सुनिर्मलजलान्वितः ॥
माघमासे सिते पक्ष एकादश्यां समाहितः ॥ ६ ॥
तत्र स्नात्वा नरो भक्त्या मुच्यते ब्रह्महत्यया ॥
तत्र श्राद्धं करिष्यंति मनुष्याः श्रद्धयान्विताः ॥ ७ ॥
पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम् ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥ ८ ॥
॥ पुलस्त्य उवाच ॥ ॥
इत्युक्त्वांतर्दधे राजन्गोविंदो गरुडध्वजः ॥
तस्मिन्दिने नृपश्रेष्ठ स्नात्वा व्रतं समाचरेत् ॥९॥
तर्पणं पिंडदानं च यः कुर्याद्भक्तितत्परः ॥
स याति विष्णुसालोक्यं पूर्वजैः सह पार्थिव ॥ 7.3.19.१० ॥
तत्र दानं प्रशंसंति गत्वा ब्राह्मणसत्तमे ॥
अस्मिंस्तीर्थे नृपश्रेष्ठ गोदानं च करोति यः ॥ ११ ॥
रोमसंख्यानि वर्षाणि स्वर्गे तिष्ठति मानवः ॥
तस्मात्सर्वात्मना राजन्गोदानं च समाचरेत् ॥ १२ ॥
एकादश्यां विशेषेण कर्त्तव्यं स्नानमुत्तमम् ॥
दानं कुर्याद्यथाशक्त्या स याति परमां गतिम् ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे वाराहतीर्थमाहात्म्यवर्णनंनामैकोनविंशोध्यायः ॥ १९ ॥