स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम्॥
मणिकर्णिकसंज्ञं तु सर्वलोकेषु विश्रुतम्॥१॥
यत्र सिद्धिं गता राजन्वालखिल्या महर्षयः॥
तैस्तत्र निर्मितं कुण्डं सुरम्यं गिरि गह्वरे ॥ २ ॥
तेषां तत्रोपविष्टानां मुनीनां भावितात्मनाम् ॥
महाश्चर्यमभूत्तत्र तत्त्वं शृणु नराधिप ॥ ३ ॥
किरातवनिता काचिन्नाम्ना च मणिकर्णिका ॥
अतिकृष्णा विरूपाक्षी कराला भीषणाकृतिः ॥ ४ ॥
तृषार्त्ता तत्र संप्राप्ता मध्यंदिनगते रवौ ॥
ग्रस्ते च राहुणा सूर्ये प्रविष्टा सलिले तु सा ॥ ५ ॥
एतस्मिन्नेव काले तु दिव्यरूपवपुर्धरा ॥
मुनीनां पश्यतां चैव विनिष्क्रांता सुमध्यमा ॥ ६ ॥
अथ तस्याः पतिः प्राप्तस्तदन्वेषणतत्परः ॥
पप्रच्छ तां वरारोहां पत्न्या दुःखेन दुःखितः ॥ ७ ॥
मम भार्यात्र संप्राप्ता यदि दृष्टा सुमध्यमे ॥
शीघ्रं वद वरारोहे बालकोऽयं तदुद्भवः ॥ ८ ॥
तृषार्त्तश्च क्षुधाविष्टो रुदते च मुहुर्मुहुः ॥
दृष्टा चेत्कथ्यतां सुभ्रूर्विनाऽयं तां मरिष्यति ॥ ९ ॥
॥ स्त्र्युवाच ॥ ॥
साऽहं ते दयिता कान्त तीर्थस्यास्य प्रभावतः ॥
दिव्यरूपमिदं प्राप्ता देवैरपि सुदुर्लभम् ॥ 7.3.16.१० ॥
त्वं चापि सलिले ह्यस्मिन्कुरु स्नानं त्वरान्वितः ॥
प्राप्स्यसि त्वं परं रूपं यथा प्राप्तं मयाऽनघ ॥ ११ ॥
अथासौ सह पुत्रेण प्रविष्टस्तत्र निर्झरे ॥
विमुक्ते भास्करे राजन्विरूपश्चाभवत्पुनः ॥ १२ ॥
दुःखेन मृत्युमापन्नस्तस्मिन्नेव जलाशये ॥
अथ सा भर्तृशोकाच्च मरणे कृतनिश्चया ॥ १३ ॥
चितिं कृत्वा समं तेन ज्वालयामास पावकम् ॥
अथ ते मुनयो दृष्ट्वा तथाशीलां शुभांगनाम् ॥ १४ ॥
कृपया परयाविष्टास्तामूचुर्विस्मयान्विताः ॥
सर्वे तस्याश्च संदृष्ट्वा साहसं च नृपोत्तम ॥ १५ ॥
॥ ऋषय ऊचुः ॥ ॥
दिव्यरूपं त्वया प्राप्तं देवैरपि सुदुर्लभम् ॥
कस्मादेनं सुपाप्मानमनुगच्छसि भामिनि ॥ १६ ॥
॥ स्त्र्युवाच ॥ ॥
पतिव्रताहं विप्रेन्द्राः सदा भर्तृपरायणा ॥
किं रूपेण करिष्यामि विना पत्या निजेन च ॥ १७ ॥
विरूपो वा सुरूपो वा दरिद्रो वा धनाधिपः ॥
स्त्रीणामेकः पतिर्भर्त्ता गतिर्नान्या जगत्त्रये ॥ १८ ॥
बालकोऽयं मुनिश्रेष्ठा भवच्छरणमागतः ॥
अहं कान्तेन संयुक्ता प्रविशामि हुताशनम् ॥ १९ ॥
॥ पुलस्त्य उवाच ॥ ॥
अथ ते मुनयः सर्वे ज्ञात्वा तस्याः सुनिश्चयम् ॥
कृपया परयाविष्टाः संवीक्ष्य च परस्परम् ॥ 7.3.16.२० ॥
ततो जीवापयामासुस्तत्पतिं ते मुनीश्वराः ॥
सद्रूपेण समायुक्तं दिव्य लक्षणलक्षितम् ॥ २१ ॥
एतस्मिन्नेव कालं तु विमानं मनसेप्सितम् ॥
देवकन्यासमाकीर्णं सद्यस्तत्र समागतम् ॥ २२ ॥
अथ तौ दंपती तेषां मुनीनां भावितात्मनाम् ॥
पुरतः प्रणिपत्याथ प्रस्थितौ त्रिदिवं प्रति ॥ २३ ॥
अथ तैर्मुनिभिः प्रोक्ता सा नारी मणिकर्णिका ॥
वरं वरय कल्याणि सर्वे तुष्टा वयं तव ॥ २४ ॥
पतिव्रतत्वेन तुष्टाः सत्येन च विशेषतः ॥
नास्माकं दर्शनं व्यर्थं जायते च कथंचन ॥ २५ ॥
॥ मणिकर्णिकोवाच ॥ ॥
यदि मां मुनयस्तुष्टाः प्रयच्छथ वरं मुदा ॥
यदत्रास्ति महालिंगं मन्नाम्ना तद्भविष्यति ॥ २६ ॥
एतदेव ममाभीष्टं नान्यदस्ति प्रयोजनम्॥
सर्वेषां च प्रसादेन स्वर्गं गच्छामि सांप्रतम् ॥ २७ ॥
॥ ऋषय ऊचुः ॥ ॥
एवं भवतु ते ख्यातिस्तीर्थलिंगे वरानने ॥
तव नामान्वितं जातं तीर्थं वै मणिकर्णिका ॥ २८ ॥
॥ पुलस्त्य उवाच ॥ ॥
भर्त्रा सह दिवं प्राप्ता पुत्रेणैव समन्विता ॥
वालखिल्यास्तपोनिष्ठा विशेषात्तत्र संस्थिताः ॥ २९ ॥
तत्र सूर्यग्रहे प्राप्ते स्नानदानादिकाः क्रियाः ॥
यः करोति फलं तस्य कुरुक्षेत्र समं भवेत् ॥ 7.3.16.३० ॥
यं यं काममभिध्याय स्नानं तत्र करोति यः ॥
तं तं प्राप्नोति राजेन्द्र सम्यग्ध्यानसमन्वितः ॥ ३१ ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
तीर्थे दानं यथाशक्त्या देवर्षिपितृतर्पणम् ॥ ३२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे मणिकर्णिकेश्वरमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥ ॥