स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ११

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ देवं कोटीश्वरं परम् ॥
यं दृष्ट्वा मानवः सम्यक्परां सिद्धिमवाप्नुयात् ॥ १ ॥
शृणु तत्राभवत्पूर्वं यदाश्चर्यं महीपते ॥
दक्षिणस्या मुनिवराः कोटिसंख्याप्रमाणतः ॥ २ ॥
अन्योऽन्यं स्पर्धया सर्वे हेलयाऽर्बुदमागताः ॥
अहं पूर्वमहं पूर्वं प्रपश्याम्यचलेश्वरम् ॥ ३ ॥
आगमिष्यति यः पश्चाद्ब्राह्मणः श्वा भविष्यति ॥
पापीयान्भक्तिरहितः श्रद्धाहीनो भविष्यति ॥ ४ ॥
इत्येवं स्पर्धमानास्ते हेलयाऽर्बुदमागताः ॥
ततः सर्वे यतात्मानः सम्यग्व्रतपरायणाः ॥ ५ ॥
शांतास्तपस्विनः सर्वे वेदविद्याविशारदाः ॥
तेषामीहितमाज्ञाय सम्यक्कामनिषूदनः ॥ ६ ॥
कृपया परयाविष्टो भक्तिभावान्महेश्वरः ॥
कोटिं कृत्वाऽऽत्मलिंगानां तस्मिन्स्थाने व्यवस्थितः ॥ ७ ॥
एकस्मिन्नेव काले तु सर्वैर्दृष्टो महेश्वरः ॥
मुनिभिश्च नृपश्रेष्ठ कोटिसंख्यैः पृथक्पृथक् ॥ ८ ॥
अथ ते मुनयः सर्वे समं दृष्ट्वा महेश्वरम् ॥
विस्मयोत्फुल्लनयना साधुसाध्विति चाब्रुवन् ॥ ९ ॥
भक्तियुक्ता द्विजाः सर्वेऽस्तुवंस्ते वैदिकैः स्तवैः ॥
तेषां तुष्टस्ततः शंभुर्वाक्यमेतदुवाच ह ॥ 7.3.11.१० ॥ ॥
॥ श्रीमहादेव उवाच ॥ ॥
तुष्टोऽहं मुनयः सर्वे श्रद्धया परया हि वः ॥
वरं वै व्रियतां शीघ्रं सर्वैश्चैव पृथक्पृथक् ॥११॥
॥ ऋषय ऊचुः ॥ ॥
एष एव वरोऽस्माकं सर्वेषां हृदि वर्त्तितः ॥
युगपद्दर्शनाद्देव जायतां फलमुत्तमम् ॥ १२ ॥
॥ श्रीमहादेव उवाच ॥ ॥
न वृथा दर्शनं मे स्याद्विशेषाद्ब्राह्मणस्य च ॥
दर्शनं ये करिष्यंति तेषां च तीर्थजं फलम् ॥ १३ ॥
॥ मुनय ऊचुः ॥ ॥
अवश्यं यदि दातव्यो वरोऽस्माकं महेश्वर ॥
एकं कोटिमयं लिंगं क्रियतां वृषभध्वज ॥ १४ ॥
यस्मिन्दृष्टे फलं नृणां जायते कोटिलिंगजम् ॥
एवमेष वरोऽस्माकं दीयतां वृषभध्वज ॥ ॥ १५ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं सप्रार्थमानानां मुनीनां भावितात्मनाम् ॥
निर्भिद्य पर्वतश्रेष्ठं सहसा लिंगमुद्गतम् ॥ १६ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
कृपया परया सर्वांस्तानृषीन्वसुधाधिप ॥ १७ ॥
॥ वागुवाच ॥ ॥
कोटीश्वराख्यं मे लिंगं लोके ख्यातिं गमिष्यति ॥
माघकृष्णचतुर्द्दश्यां यश्चैनं पूजयिष्यति ॥ १८ ॥
सर्वं कोटिगुणं तस्य फलं विप्रा भविष्यति ॥
दाक्षिणात्यो नरो यस्तु श्राद्धमत्र करिष्यति ॥ १९ ॥
फलं कोटिगुणं तस्य गयाश्राद्धसमं भवेत् ॥
तस्माद्विशेषतः पूज्यं मम लिंगं च मानवैः ॥ 7.3.11.२० ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा तु सा वाणी विरराम महीपते ॥
ततस्ते मुनयः सर्वे गंधधूपानुलेपनैः ॥ २१ ॥
तल्लिंगं पूजयामासुः श्रद्धया परया नृप ॥
पूजयित्वा गताः सिद्धिं सर्वे लिंगप्रसादतः ॥ २२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभातखण्डे तृतीयेऽर्बुदखण्डे कोटीश्वरमाहात्म्यवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥