सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः १०

विकिस्रोतः तः

॥ ययातिरुवाच ॥ ॥
केदारं श्रूयते ब्रह्मन्पर्वते च हिमाचले ॥
गंगा तस्माद्विनिष्क्रान्ता प्रविष्टा पूर्वसागरम् ॥ १ ॥
तथा सरस्वती देवी चूतवृक्षाद्विनिर्गता ॥
पश्चिमं सागरं प्राप्ता गृहीत्वा वडवानलम्॥ २ ॥
कथमत्र समायातः केदारश्चात्र कौतुकम्॥
सर्वं विस्तरतो ब्रूहि विचित्रं मम भूसुर ॥ ३ ॥
॥ पुलस्त्य उवाच ॥ ॥
सत्यमेतन्महाराज यन्नोऽत्र परिपृच्छसि ॥
शृणुष्वावहितो भूत्वा यथा जातं श्रुतं तु वै ॥ ४ ॥
गंगाद्यानि च तीर्थानि केदाराद्या दिवौकसः ॥
मया सह पुरा देवाः शक्राद्या नृपसत्तमाः ॥ ५ ॥
ब्रह्माणं प्रति राजेन्द्र गताः सर्वे महर्षयः॥
सर्वे तत्र कथाश्चक्रुर्धर्म्या नाना पृथक्पृथक् ॥ ६ ॥
समुदाये च देवानां सर्वतीर्थानि पार्थिव ॥
क्षेत्राण्युप स्थितान्येव वनान्युपवनानि च ॥ ७ ॥
ततः कथाप्रसंगेन इन्द्रः प्राह चतुर्मुखम् ॥
कौतुकेन समायुक्तः पप्रच्छ नृपसत्तम ॥ ८ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
भगवन्पुण्यमाहात्म्यं श्रोतुमिच्छामि सांप्रतम् ॥
प्रमाणं चैव सर्वेषां कृतादीनां पृथग्विधम् ॥ ९ ॥
॥ ब्रह्मोवाच ॥ ॥
लक्षं सप्तदश प्रोक्तं युगमानं सुराधिप ॥
अष्टाविंशतिभिः सार्द्धं सहस्रैः कृतमुच्यते ॥ 7.3.10.१० ॥
लक्षद्वादशभिः प्रोक्तं युगं त्रेताभिसंज्ञितम् ॥
षण्णवत्यधिकैश्चैव सहस्रैः परिमाणितम्॥ ११ ॥
लक्षाण्यष्टौ चतुःषष्टिसहस्रैः परिकीर्तितम् ॥
ततो वै द्वापरं नाम युगं देवप्रकीर्तितम् ॥ १२ ॥
लक्षैश्चतुर्भिर्विख्यातो द्वात्रिंशद्भिः कलिस्तथा॥
सहस्रैश्च सुरश्रेष्ठ युगमानमितीरितम्॥ १३॥
चतुष्पदः कृते धर्मः शुक्लवर्णो जनार्दनः॥
न दुर्भिक्षं न च व्याधिस्तस्मिन्भवति वै क्वचित् ॥ १४ ॥
क्रियते च तदा धर्मो नाकाले मरणं नृणाम् ॥
लांगलेन विना सस्यं भूरिक्षीराश्च धेनवः ॥ १५ ॥
कामः क्रोधो भयं लोभो मत्सरश्चाभ्यसूयता ॥
तस्मिन्युगे सहस्राक्ष न भवंति कदाचन ॥ १६ ॥
ततस्त्रेतायुगे जातस्त्रिपादो धर्म एव च ॥
चिरायुषो नरास्तस्मिन्रक्तवर्णो जनार्दनः ॥ १७ ॥
तस्मिन्यज्ञाः प्रवर्त्तंते प्राणिनामिष्टदायिनः ॥
न कामादिप्रवृत्तिश्च तस्मिन्संजायते नृणाम्॥ १८ ॥
तपसा ब्रह्मचर्येण स्नानैर्दानैः पृथग्विधैः ॥
तथा यज्ञैर्जपैर्होमैस्तत्र वृत्तिर्भवेन्नृणाम् ॥ १९ ॥
ततस्तु द्वापरं नाम तृतीयं युग मुच्यते ॥
द्विपदो धर्मः सञ्जातः पीतवर्णो जनार्द्दनः ॥ 7.3.10.२० ॥
फलाकांक्षाप्रवृत्तानि जपयज्ञतपांसि च ॥
सत्यानृतान्वितो लोको द्वापरे सुरसत्तम ॥ २१ ॥
तत्रान्योन्यं महीपाला युयुधुर्वसुधातले ॥
सुपूताश्च दिवं यांति यज्ञैरिष्ट्वा जनार्दनम् ॥ २२ ॥
ततः कलियुगं घोरं चतुर्थं तु प्रव र्त्तते ॥
एकपादो भवेद्धर्मः संत्रस्तो नित्यपूजने ॥ २३ ॥
कृष्णवर्णो भवेद्विष्णुः पापाधिक्यं प्रवर्तते ॥
माया च मत्सरश्चैव कामः क्रोधस्तथा भयम् ॥ २४ ॥
अर्थलुब्धास्तथा भूपा लोभमोहशतान्विताः ॥
अल्पायुषो नरास्तत्र अल्पसस्या च मेदिनी ॥ २५ ॥
अल्पक्षीरास्तथा गावः सत्यहीना द्विजातयः ॥
तत्र मायाविनो लोका जैह्व्यौपस्थ्यपरायणाः ॥ २६ ॥
सत्यहीनास्तथा पापा भविष्यंति कलौ युगे ॥
तत्र षोडशमे वर्षे नराः पलितकुन्तलाः ॥ २७ ॥
नार्यो द्वादशमे वर्षे भविष्यंति सुगर्भिताः ॥
भविष्यति क्रमाद्वर्णसंकरश्च सुराधिप ॥ २८ ॥
एकाकारा भविष्यंति सर्ववर्णाश्रमाश्च वै ॥
नाशं यास्यंति यज्ञाश्च कुलधर्मः सनातनः ॥ २९ ॥
व्यर्थानि तत्र तीर्थानि म्लेच्छस्पृष्टानि सर्वशः ॥
भविष्यंति सुरश्रेष्ठ प्रभावरहितानि च ॥ 7.3.10.३० ॥
एतच्छ्रुत्वा ततो वाक्यं ब्रह्मणोऽव्यक्तजन्मनः ॥
तत्र स्थितानि तीर्थानि ब्रह्माणमिदमब्रुवन् ॥ ॥ ३१ ॥
॥ तीर्थान्यूचुः ॥ ॥
कथं वयं भविष्यामः संप्राप्ते दारुणे कलौ ॥
स्थानं नो ब्रूहि देवेश स्थातव्यं च सदैव हि ॥ ३२ ॥
॥ ब्रह्मोवाच ॥ ॥
अर्बुदः पर्वतश्रेष्ठः कलिस्तत्र न विद्यते ॥
अतस्तत्र च गंतव्यं तीर्थैरायतनैः सह ॥ ३३ ॥
अपि कृत्वा महत्पापमर्बुदं प्रेक्षते तु यः ॥
कलिदोषविनिर्मुक्तः स यास्यति परां गतिम् ॥३४॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा चतुर्वक्त्रो ब्रह्मलोकं गतो नृप ॥
ततः सर्वाणि तीर्थानि गतानि च कलौ युगे ॥ ३५ ॥
भूमावर्बुदशैलेन्द्रे संस्थितानि कलेर्भयात् ॥
गंगा सरस्वती चैव यमुना पुष्कराणि च ॥ ३६ ॥
कुरुक्षेत्रं प्रभासं च ब्रह्मावर्तं तथैव च॥
तिस्रःकोट्योऽर्द्धकोटिश्च यानि तीर्थानि भूतले ॥ ३७ ॥
तेषां वासश्च सञ्जातः पर्वतेऽर्बुदसंज्ञिके ॥
एवं तत्र समापन्ना गंगा चैव सरस्वती ॥ ३८ ॥
तत्र शांता नराः सम्यक्परं निर्वाणमाप्नुयुः ॥
श्राद्धं कृत्वा महाराज स्वर्गे यांति च पूर्वजाः ॥ ३९ ॥
शृणु तत्राभवत्पूर्वं यदाश्चर्यं महामते ॥
ऋषिर्मंकणकोनाम सरस्वत्यास्तटे स्थितः ॥ 7.3.10.४० ॥
तपस्तेपे सुधर्मात्मा कामक्रोधविवर्जितः ॥
तस्यैवं वर्तमानस्य क्षुतमासीत्कदाचन ॥ ४१ ॥
पित्तं प्रपतितं तत्र तच्च रक्तमयं बभौ ॥
तद्दृष्ट्वाऽतीव हृष्टः स मंकणर्षिर्बभूव ह ॥ ४२ ॥
सिद्धोऽहमिति विज्ञाय ततो नृत्यं चकार सः ॥
तस्यैवं वर्तमानस्य जगत्स्थावरजंगमम् ॥ ४३ ॥
तत्र संक्षोभमापन्नं सागरा अपि चुक्षुभुः ॥
गृहकृत्यानि संत्यज्य सर्वे विस्मयमा गताः ॥ ४४ ॥
तस्यैवं नृत्यमानस्य सर्वे लोका नृपोत्तम ॥
ननृतुः पार्थिवश्रेष्ठ प्रभावात्तस्य सन्मुनेः ॥ ४५ ॥
ततो देवगणाः सर्वे गत्वा कामनिषूदनम् ॥
यथाऽयं नृत्यते नैव तथा कुरु महेश्वर ॥४६॥
अथ ब्राह्मणरूपेण शंभुनोक्तो द्विजोत्तमः ॥
त्वया ब्रह्मंस्तपस्तप्तमधुना नृत्यते कथम् ॥ ॥ ४७ ॥
॥ मंकण उवाच ॥ ॥
किं न पश्यसि हे ब्रह्मन्रक्तं पित्तं च मे स्थितम् ॥
संजातं सिद्धिमापन्नो रक्तं पित्तं यतो मम ॥ ४८ ॥
एतस्मात्कारणाद्धर्षाद्द्विज नृत्यं करोम्यहम् ॥
एवमुक्तस्ततस्तेन देवदेवो महेश्वरः ॥ ४९ ॥
तर्जन्या ताडयामास स्वांगुष्ठं नृपसत्तम ॥
ततोंगुष्ठाद्विनिष्क्रांतं भस्म वै बिसपांडुरम् ॥ 7.3.10.५० ॥
ततो मंकणकं प्राह पश्य विप्र करान्मम ॥
शुभ्रं भस्म विनिष्क्रांतं पश्य मे द्विज कौतुकम् ॥ ५१ ॥ ॥
॥ पुलस्त्य उवाच ॥ ॥
तद्दृष्ट्वा विस्मितो विप्रो ज्ञात्वा तं वृषभध्वजम् ॥
जानुभ्यामवनिं गत्वा वाक्यमेतदुवाच ह ॥५२॥
॥ मंकण उवाच ॥ ॥
नूनं भवान्महादेवः साक्षाद्दृष्टः प्रसीद मे ॥
निश्चितं त्वं मया ज्ञात एतन्मे हृदि वर्तते ॥ ५३ ॥
नान्यस्यायं प्रभावश्च त्वया यो मे प्रदर्शितः ॥
मां समुद्धर देवेश कृपां कृत्वा महेश्वर ॥ ५४ ॥
॥ श्रीमहादेव उवाच ॥ ॥
सम्यग्ज्ञातोऽस्मि विप्रेन्द्र त्वयाऽहं नात्र संशयः ॥
वरं वरय भद्रं ते नृत्याधिक्यं यतः कृतम् ॥ ५५ ॥
॥ मंकण उवाच ॥ ॥
येऽत्र स्नानं प्रकुर्वंति सरस्वत्यां समाहिताः ॥
त्वत्प्रसादात्फलं तेषां राजसूयाश्वमेधयोः ॥ ५६ ॥
॥ श्रीमहादेव उवाच ॥ ॥
येऽत्र स्नानं करिष्यंति सरस्वत्यां समाहिताः ॥
ते यास्यंति परं स्थानं जरामरणवर्जितम् ॥ ५७ ॥
अत्र गंगासरस्वत्योः संगमे लोकविश्रुते ॥
श्राद्धं कुर्युर्द्विजश्रेष्ठ ते यास्यंति परां गतिम् ॥ ५८ ॥
सुवर्णं येऽत्र दास्यंति यथाशक्त्या द्विजोत्तमे ॥
सर्व पापविनिर्मुक्तास्ते यास्यन्ति परां गतिम् ॥ ५९ ॥
 इत्युक्त्वांतर्दधे राजन्देवदेवो महेश्वरः ॥ 7.3.10.६० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डेऽर्बुदाचले कलियुगपभावात्सर्वतीर्थागमनवर्णनंनाम दशमोऽध्यायः ॥ १० ॥