स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं त्रैलोक्यविश्रुतम् ॥
केदारमिति विख्यातं सर्वपापहरं नृणाम् ॥ १ ॥
यत्र मन्दाकिनी पुण्या सरस्वत्या समागता ॥
तत्र स्नातो नरो राजन्मुच्यते सर्वकिल्बिषैः ॥ २ ॥
शृणु राजन्यथावृत्तमितिहास पुरातनम् ॥
ऋषिभिर्बहुधा गीतमर्बुदे पर्वतोत्तमे ॥ ३ ॥
अजपालो नृपश्रेष्ठः सूर्यवंशसमुद्भवः ॥
सप्तद्वीपवतीं पृथ्वीं स पाति नात्र संशयः ॥ ४ ॥
न हस्तिनो न पादाता न चाश्वास्तस्य भूपतेः ॥
न रथाश्च महाराज न कोशाश्च तथाविधाः ॥ ५ ॥
न गृह्णाति करं राजन्प्रजाभ्योथाधिकं नृप ॥
राज्यं स ईदृशं चक्रे सर्वलोकहिते रतः ॥६॥
जातापराधो भूपृष्ठे जायते चेत्कथंचन ॥
तं गत्वा निग्रहं तस्य चक्रुः शस्त्राणि तत्क्षणात् ॥ ७ ॥
एवमस्य नरेन्द्रस्य वर्त्तमानस्य भूतले ॥
सुखेन रमते लोको राज्ये निहतकंटके ॥ ८ ॥
कामं वर्षति पर्जन्यः सस्यानि रसवंति च ॥
गावः प्रभूतदुग्धाश्च विद्यमाने नराधिपे ॥ ९ ॥
केनचित्त्वथ कालेन वसिष्ठो भगवान्मुनिः ॥
तीर्थयात्राप्रसंगेन तस्य गेहमुपागतः ॥ 7.3.9.१० ॥
तं दृष्ट्वा पूजयामास शास्त्रदृष्टेन वर्त्मना ॥
प्रत्युत्थानाभिवादाभ्यामर्घ्यपाद्यादिभिस्तथा ॥ ११ ॥
एवं संपूजितस्तेन भक्त्या परमया नृप ॥
सुखोपविष्टो विश्रांतो वसिष्ठो मुनिसत्तमः ॥
राजर्षीणां कथाश्चक्रे देवर्षीणां तथैव च ॥ । ॥ १२ ॥
ततः कथावसाने तु कस्मिंश्चिन्नृपसत्तम ॥
पप्रच्छ विनयोपेतस्तं मुनिं शंसितव्रतम् ॥ १३ ॥
॥ अजपाल उवाच ॥ ॥
अतीतानागतं विप्र वर्त्तमानं तथैव च ॥
त्वं वेत्सि सकलं ब्रह्मंस्तपश्चर्याप्रभावतः ॥ १४ ॥
कौतुकं हृदि मे जातं वर्त्तते मुनिपुंगव ॥
प्रसादः क्रियतां मह्यं कथयस्व प्रसादतः ॥ १५ ॥
॥ वसिष्ठ उवाच॥ ॥
ब्रूहि पार्थिवशार्दूल यत्ते मनसि वर्त्तते ॥
कथयिष्यामि तत्सर्वं यद्यपि स्यात्सुदुर्ल्लभम् ॥ १६ ॥
॥ राजोवाच ॥ ॥
केन कर्मविपाकेन ममैतद्राज्यमुत्तमम् ॥
निष्कण्टकं सदा क्षेमं सर्वकामसमन्वितम् ॥ १७ ॥
न दीनो न च दुःखार्त्तो व्याधिग्रस्तो न कोऽपि च ॥
विद्यते मम राज्ये च न दरिद्रो महामुने ॥ १८ ॥
नारीयं मम साध्वी च प्राणेभ्योऽपि गरीयसी ॥
मच्चित्ता मद्गतप्राणा नित्यं मम हिते रता ॥
अनया चिंतितं ब्रह्मन्सर्वं विस्तरतो वद ॥ १९ ॥
किं दानस्य प्रभावेन व्रतयागस्य वा मुने ॥
तपसो वा मुनिश्रेष्ठ व्रतस्य नियमस्य च ॥ 7.3.9.२० ॥
जन्मान्तरकृतं पुण्यं परं कौतूहलं हि मे ॥
कथयस्व प्रसादेन विस्तरेण द्विजोत्तम ॥ २१ ॥ ॥
॥ वसिष्ठ उवाच ॥ ॥
शृणु सर्वं महीपाल विस्तरेण च कथ्यते ॥
न च मन्युस्त्वया कार्यो न च व्रीडा महामते ॥ २२ ॥
अन्यदेहांतरे राजञ्छूद्रजातिसमुद्भवः ॥
शूद्रजातिरियं साध्वी तव पत्नी ह्यभूत्पुरा ॥ २३ ॥
केनचित्त्वथ कालेन दुर्भिक्षे समुपस्थिते ॥
अन्नक्षयान्महाराज सर्व लोकः क्षुधार्दितः ॥ २४ ॥
ततस्त्वं भार्यया सार्द्धमन्यदेशांतरे गतः ॥
समारुह्य च कृच्छ्रेण कस्मिंश्चिद्गिरिनिर्झरे ॥ २५ ॥
त्वया दृष्टं मनोहारि शुभं पंकजकाननम् ॥
तत्र स्नात्वा पयः पीत्वा पितृदेवाः प्रतर्पिताः ॥ २६ ॥
मनसा चिंतितं ह्येतत्पद्मान्यादाय करोम्यहम् ॥
विक्रयं येन चाहारो भवेन्मम च सर्वथा ॥ २७ ॥
ततः पद्मानि भूरीणि गृहीत्वा भार्यया सह ॥
गतो यत्र जनो भूरि गतः पार्थिवसत्तम ॥ २८ ॥
न केऽपि प्रति गृह्णंति लोका दुर्भिक्षपीडिताः॥
भ्रमितस्त्वं च सर्वत्र श्रांतो वैराग्यमागतः ॥ २९ ॥
ततो दिनावसाने तु गुहामेकां समाश्रितः ॥
भूमौ पद्मानि निक्षिप्य क्षुधाविष्टः प्रसुप्तवान्॥ 7.3.9.३० ॥
एतस्मिन्नेव काले तु कर्णयोस्ते समागतः ॥
पठतां द्विजमुख्यानां ध्वनिर्वेदपुराणयोः ॥ ३१ ॥
तं श्रुत्वा सहसोत्थाय ज्ञात्वा जागरणं ततः ॥
पद्मान्यादाय तत्रैव सभार्यः शिवमंदिरे ॥ ३२ ॥
तत्र नागवती वेश्या शिवरात्रिपरायणा ॥
केदारे परया भक्त्या करोति निशि जागरम् ॥ ३३ ॥
तस्याः पार्श्वे स्थिता दासी त्वया पृष्टा नरेश्वर ॥
देवस्य पुरतो बाले किमर्थं रात्रिजागरम् ॥ ३४ ॥
तयोक्तं शिवरात्र्यां वै वेश्येयं वरवर्णिनी ॥
कुरुते नागवती नाम रात्रौ भक्त्या च जागरम् ॥ ३५ ॥
यः श्रद्धाभक्तिसंयुक्तः कुरुते रात्रिजागरम् ॥
पूजयित्वा महादेवं स याति परमं पदम्॥ ३६ ॥
कृत्वोपवासं पद्मैर्य्यः पूजयेत्त्र्यंबकं नरः ॥
स याति रुद्रसालोक्यं सेव्यमानो ऽप्सरोगणैः ॥ ३७ ॥
सकामो लभते कामान्देवैरपि सुदुर्ल्लभान् ॥
स त्वं पद्मानि मे देहि कांचनं च पलत्रयम्॥
एतेषां मूल्यमादाय प्राणाधारं समाचर ॥ ३८ ॥
ततस्त्वं भार्यया चोक्तो गृह्यमाणे च कांचने ॥
न ग्राह्यं मूल्यमेतेषां त्वया नाथ कथंचन ॥ ३९ ॥
उपवासो बलाज्जातो ह्यन्नाभावाद्वयोरपि ॥
पद्मैरेभिर्हरः पूज्यो द्वाभ्यामेवाद्य निश्चयम् ॥ 7.3.9.४०॥
इदं त्वयाऽद्य कर्त्तव्यं त्याज्यमस्यास्तु कांचनम्॥
भार्याया वचनं श्रुत्वा तैः पद्मैः पूजितः शिवः ॥४१॥
श्रद्धया च सभार्येण जागरं च शिवाग्रतः ॥
कृतं त्वया महाराज भार्यया शिवमंदिरे ॥४२॥
पुराणश्रवणं जातं तत्र पार्थिवसत्तम ॥
शिवरात्र्यां महाराज पद्मैस्तु पूजितः शिवः ॥४३॥
केदारस्याग्रतो भक्त्या रात्रौ जागरणं तथा॥
कृतं त्वया महाराज एकाग्रेण च चेतसा॥४४॥
ततःप्रभाते संजाते भिक्षां कृत्वा च पारणा ॥
कृता त्वया महाराज शिवाग्रे सह भार्यया ॥४४॥
ततः कालांतरेणैव कालधर्मं गतो भवान् ॥
भार्येयं च त्वया सार्धं संप्रविष्टा हुताशनम् ॥४६॥
ततो जाता महाराज दशार्णाधिपतेः सुता ॥
वैदेहे नगरे राजा जातस्त्वं पार्थिवोत्तम ॥ ४७ ॥
अजपाल इति ख्यातो नाम्ना च धरणीतले ॥
सर्वेषां प्राणिनां त्वं च वल्लभो नृपसत्तम ॥ ४८ ॥
एतस्मात्कारणाज्जाता भार्येयं प्राणसंमता ॥
भूयोऽपि तव संजाता यन्मां त्वं परिपृच्छसि ॥४९॥
तस्य देवस्य माहात्म्यात्केदारस्य महीपतेः ॥
राज्यं ते सुखदं नृणां तथा निहतकण्टकम् ॥ 7.3.9.५० ॥
प्राप्तं त्वया महाराज केदारस्य प्रसादतः ॥
येन त्वं सैन्यहीनोऽपि पृथिवीं परिरक्षसि ॥ ५१ ॥
॥ पुलस्त्य उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा स राजा विस्मयान्वितः ॥
गमनाय मतिं चक्रे केदारं प्रति भूमिपः ॥ ५२ ॥
स गत्वा पर्वते रम्ये पूजयित्वा च तं विभुम् ॥
शिवरात्रिपरः सम्यग्वर्षेवर्षे बभूव ह ॥ ५३ ॥
पुत्रं राज्ये च संस्थाप्य ततोऽर्बुदमथागमत् ॥
प्राप्तो मुक्तिं ततो भूयः सभार्यस्तत्प्रभावतः ॥ ५४ ॥
एतत्ते सर्वमाख्यातं केदारस्य महीपते ॥
माहात्म्यं शुभदं नृणां सर्व पापप्रणाशनम् ॥ ५५ ॥
माघफाल्गुनयोर्मध्ये कृष्णपक्षे चतुर्दशी ॥
शिवरात्रिरिति ख्याता भूतलेऽस्मिन्महामते ॥ ५६ ॥
तस्यां तु सर्वथा राजन्यात्रां तस्य समाचरेत्॥
केदारस्य महाराज प्रकुर्यात्पूजनं नृप ॥ ५७ ॥
माघकृष्णचतुर्दश्यां यः कुर्यात्तत्र जागरम् ॥
कृतोपवासो नृपते शिवलोकं स गच्छति ॥ ५८ ॥
स्नात्वा गंगासरस्वत्योः संगमे सर्वकामदे ॥
ये प्रपश्यन्ति केदारं ते यास्यंति परां गतिम् ॥ ५९ ॥
कुण्डे केदारसंज्ञे यः प्रपिबेद्विमलं जलम् ॥
सप्तपूर्वान्सप्त परान्पूर्वजांस्तारयेत्तु सः ॥ 7.3.9.६० ॥
यश्चैतच्छृणुयान्नित्यं भक्त्या परमया नृप ॥
सोऽपि पापैर्विमुच्येत केदारस्य प्रभावतः ॥ ६१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे केदारमाहात्म्यवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥