स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ०६

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ वसिष्ठं तपसां निधिम् ॥
यं दृष्ट्वा मानवः सम्यक्कृतार्थत्वमवाप्नुयात् ॥ १ ॥
तत्रास्ति जलसम्पूर्णं कुण्डं पापहरं नृणाम्॥
तस्मिन्कुण्डे नृपश्रेष्ठ वसिष्ठेन महात्मना ॥ २ ॥
गोमती च समानीता तपसा नृपसत्तम ॥
तत्र स्नातो नरः सम्यक्पातकै र्विप्रमुच्यते ॥३॥
ऋषिधान्येन यस्तत्र श्राद्धं नृप समाचरेत् ॥
स पितृंस्तारयेत्सर्वान्पक्षयोरुभयोरपि ॥४॥
अत्र गाथा पुरा गीता नारदेन महात्म ना ॥
स्नात्वा पुण्योदके तत्र दृष्ट्वा तं मुनिसत्तमम् ॥ ५ ॥
किं गयाश्राद्धदानेन किमन्यैर्मखविस्तरैः ॥
वसिष्ठस्याश्रमं प्राप्य यः श्राद्धं कुरुते नरः ॥
स पितॄंस्तारयेत्सर्वानात्मना नृपसत्तम ॥ ६ ॥
तत्रैवारुंधती साध्वी वसिष्ठस्य समीपतः ॥
पूजनीया विशेषेण सर्वकामप्रदा नृणाम् ॥ ७ ॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥
वसिष्ठदर्शनात्सद्यो नराणां याति संक्षयम् ॥८॥
दीपं प्रयच्छते यस्तु वसिष्ठाग्रे समाहितः ॥
सुखसौभाग्यसंयुक्तस्तेजस्वी जायते नरः ॥ ९ ॥
उपवासपरो यस्तु तत्रैका रजनीं नयेत् ॥
स याति परमं स्थानं यत्र सप्तर्षयोऽमलाः ॥ 7.3.6.१० ॥
त्रिरात्रिं कुरुते यस्तु वसिष्ठाग्रे समाहितः ॥
स याति च महर्लोकं जरामरणवर्जितः ॥ ११ ॥
यस्तु मासोपवासं च वसिष्ठाग्रे करोति च ॥
सोऽपि मुक्तिमवाप्नोति न याति स भवार्णवम्॥ १२॥
श्रावणस्य सिते पक्षे पौर्णमास्यां समाहितः॥
ऋषिं तर्पयते यस्तु ब्रह्मलोकं स गच्छति॥१३॥
वसिष्ठस्याग्रतो यस्तु गायत्र्यष्टशतं जपेत्॥
आजन्ममरणात्पापात्सद्यो मुच्येत मानवः॥ १४॥
वामदेवं यजेत्तत्र यदि श्रद्धासमन्वितः॥
अग्निष्टोमफलं राजन्सद्यः प्राप्नोति मानवः ॥ १५ ॥
तस्मात्सर्वप्रयत्नेन द्रष्टव्योऽसौ महामुनिः ॥
शुचिभिः श्रद्धया युक्तास्ते यास्यंति परं पदम् ॥ १६ ॥
तस्मात्सर्वात्मना राजन्वामदेवं च पूजयेत्॥ १७ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे वसिष्ठाश्रममाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥