स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ०४

विकिस्रोतः तः

सूत उवाच ॥ ॥
स कृत्वा स्वाश्रमं तत्र वसिष्ठो भगवान्मुनिः ॥
तत्र शंभोर्निवासाय तपस्तेपे सुदारुणम्॥ १ ॥
स बभूव मुनिः सम्यक्फलाहारसमन्वितः ॥
शीर्ण पर्णाशनः पश्चाद्द्वे शते समपद्यत ॥ २ ॥
जलाहारः पञ्चशतवर्षाणि संबभूव ह ॥
वर्षाणां वायुभक्षोऽभूत्ततो दशशतानि च ॥ ३ ॥
पञ्चाग्निसाधको ग्रीष्मे हेमन्ते सलिलाशयः ॥
वर्षास्वाकाशवासी च सहस्रं च ततोऽभवत् ॥ ४ ॥
ततस्तुष्टो महादेवस्तस्यर्षेः सुमहात्मनः ॥
भित्त्वा तं पर्वतं सद्यस्तत्पुरो लिंगमुत्थितम् ॥
तं दृष्ट्वा विस्मयाविष्टो मुनिः स्तोत्रमुदैरयत्॥ ५ ॥
नमः शिवाय शुद्धाय सर्वगायाऽमृताय च ॥
कपर्द्दिने नमस्तुभ्यं नमस्तस्मै त्रिमूर्त्तये ॥ ६ ॥
नमः स्थूलाय सूक्ष्माय व्यापकाय महात्मने ॥
निषंगिणे नमस्तुभ्यं त्रिनेत्राय नमोनमः ॥ ७ ॥
नमश्चन्द्रकलाधार नमो दिग्वसनाय च ॥
पिनाकपाणये तुभ्यमष्टमूर्ते नमोनमः ॥ ८॥
नमस्ते ज्ञानरूपाय ज्ञानगम्याय ते नमः ॥
नमस्ते ज्ञानदेहाय सर्वज्ञानमयाय च ॥ ९ ॥
काशीपते नमस्तुभ्यं गिरिशाय नमोनमः ॥
जगत्कारणरूपाय महादेवाय ते नमः ॥ 7.3.4.१० ॥
गौरीकान्त नम स्तुभ्यं नमस्तुभ्यं शिवात्मने ॥
ब्रह्मविष्णुस्वरूपाय त्रिनेत्राय नमोनमः ॥ ११ ॥
विश्वरूपाय शुद्धाय नमस्तुभ्यं महात्मने ॥
नमो विश्वस्वरूपाय सर्वदेवमयाय च ॥ १२ ॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
परितुष्टोऽस्मि ते भद्रं वरं वरय सुव्रत ॥ १३ ॥
इत्युक्त्वा पर्वतं भित्त्वा तत्पुरो लिंगमुत्थितम् ॥ १४ ॥
॥ वसिष्ठ उवाच ॥ ॥
लिंगेऽस्मिंस्तव सांनिध्यं सदा भवतु शंकर ॥
मया पूर्वं प्रतिज्ञातं नगस्येह महात्मने ॥
सत्यं कुरु वचो मे त्वं यदि तुष्टोऽसि शंकर ॥ १५ ॥
॥ श्रीभगवानुवाच ॥ ॥
अद्यप्रभृति लिंगेऽस्मिन्सांनिध्यं मे भविष्यति ॥
त्वद्वाक्याद्ब्राह्मणश्रेष्ठ सर्वं सत्यं भविष्यति ॥ १६ ॥
स्तोत्रेणानेन यो मर्त्यो मां स्तविष्यति भक्तितः ॥
कृष्णपक्षे चतुर्दश्यामाश्विने मुनिसत्तम ॥ १७ ॥
मत्प्रियार्थं तु शक्रेण प्रेषिता मुनिसत्तम ॥
मन्दाकिनीति विख्याता नदी त्रैलोक्यपाविनी ॥ १८ ॥
देवस्योत्तरदिग्भागे कुंडं तिष्ठति नित्यशः ॥
तस्यां स्नात्वा मुनिश्रेष्ठ लिंगं मे पश्यते तु यः ॥
स याति परमं स्थानं जरामरणवर्जितम् ॥ १९ ॥
अचलं भेदयित्वा तु यस्मान्मे लिंगमुद्गतम्॥
अचलेश्वरनाम्नैव लोके ख्यातिं गमिष्यति ॥ 7.3.4.२० ॥
अस्य लिंगस्य माहात्म्यान्न कदाचिच्चलिष्यति ॥
सर्वथा म इदं लिंगं प्रलयान्ते न चाल्यते ॥ २१ ॥
॥ सूत उवाच ॥
एतावदुक्त्वा वचनं विरराम महेश्वरः ॥
वसिष्ठोऽपि सुहृष्टात्मा गौतमाद्या मुनीश्वराः ॥ २२ ॥
शक्रादयस्ततो देवास्तीर्थान्यायतनानि च ॥
आनयामास ब्रह्मर्षिस्तपसा पर्वतोत्तमे ॥ २३ ॥
ततस्तुष्टः सुरश्रेष्ठस्तत्र वासमथाकरोत्॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽचलेश्वरोत्पत्ति वर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥