स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
श्रुत्वा हिमाचलो वाक्यं वसिष्ठस्य महात्मनः॥
चिन्तयामास तत्कार्यं विवरस्य प्रपूरणे॥१॥
चिरं विचार्य तमृषिमिदमाह नगोत्तमः॥
क उपायो नगानां वै तत्र गंतुं वदस्व मे ॥२॥
पक्षच्छेदस्तु शक्रेण सर्वेषां च पुरा कृतः ॥
तस्मादस्य मुनिश्रेष्ठ कार्यस्य पश्य निश्चयम्॥३॥ ॥
॥ वसिष्ठ उवाच ॥ ॥
अस्त्युपायो नगानां तु तत्र नेतुं महानग ॥
तवायं तनयस्तत्र विख्यातो नंदिवर्द्धनः ॥४॥
तस्यार्बुद इति ख्पातो वयस्यः परमं प्रियः ॥
नागः प्राणभृतां श्रेष्ठः खेचरोऽपि च वीर्यवान् ॥५॥
स वा ऊर्ध्वगतिः क्षिप्रं क्षणान्नेष्यत्यसंशयः ॥
लीलया सर्वकृत्येषु तं विदित्वाऽहमागतः ॥६॥
आदेशो दीयतामस्य दुःखं कर्तुं च नार्हसि ॥
अवश्यं यदि भक्तोऽसि तत्र प्रेषय सत्वरम्॥७॥
॥सूत उवाच॥ ॥
वसिष्ठस्य वचः श्रुत्वा हिमवान्पुत्रवत्सलः ॥
दुःखेन महताऽऽविष्टश्चिंतयामास भूधरः ॥८॥
मैनाकस्तनयोऽस्माकं प्रविष्टः सागरे भयात् ॥
ज्येष्ठं तु सर्वथा चाथ वसिष्ठो नेतुमागतः ॥
किं कृत्यमधुनाऽस्माकं कथं श्रेयो भविष्यति ॥ ९ ॥
इतः शापभयं तीव्रमितो दुःखं च पुत्रजम्॥
वरं पुत्रवियोगोऽस्तु न शापो द्विजसंभवः ॥ 7.3.3.१० ॥
स एवं निश्चयं कृत्वा नंदिवर्धनमुक्तवान् ॥
गच्छ त्वं पुत्र मे वाक्याद्वसिष्ठस्याश्रमं प्रति ॥ ११ ॥
तत्रास्ति विवरो रौद्रस्तं प्रपूरय सत्वरम् ॥
अर्बुदं नागमादाय मित्रं प्राणभृतां वरम् ॥ १२ ॥
॥ नंदिवर्द्धन उवाच ॥ ॥
पापीयान्स विभो देशः फलमूलैर्विवर्जितः ॥
पालाशैः खादिरैराढ्यो धवैः शाल्मलिभिस्तथा ॥ १३ ॥
सुनिष्ठुरैर्नृपशुभिर्भिल्लैश्च विविधैरपि ॥
नद्यो वहंति नो तत्र दुष्टा लोकाश्च वासिनः ॥
नार्होऽहं पर्वतश्रेष्ठ तत्र गंतुं कथंचन ॥ १४ ॥
अथोवाच वसिष्ठस्तं संत्रस्तं नंदिवर्द्धनम् ॥
मा भीः कार्या त्वया तत्र देशे दौष्ट्यात्कथंचन ॥ १५ ॥
तव मूर्ध्नि सदा वासो मम तत्र भविष्यति ॥
तीर्थानि सरितो देवाः पुण्यान्यायतनानि च ॥ १६ ॥
वृक्षाश्च विविधाकाराः पत्रपुष्पफलान्विताः ॥
सदा तत्र भविष्यंति मृगाश्च विहगाः शुभाः ॥ १७ ॥
अहमेवानयिष्यामि तवार्थे च महेश्वरम् ॥
तदा स्थास्यंति वै तत्र सर्वे देवाः सवासवाः ॥ ॥ १८ ॥
॥ सूत उवाच ॥ ॥
वसिष्ठस्य वचः श्रुत्व संहृष्टो नंदिवर्द्धनः ॥
अर्बुदं नागमासाद्य वाक्यमेतदुवाच ह ॥ १९ ॥
तत्र यावोऽद्य भद्रं ते वयस्य विनयान्वित ॥
एतत्कार्यमहं मन्ये सांप्रतं द्विजसंभवम् ॥ 7.3.3.२० ॥
॥ अर्बुद उवाच ॥ ॥
अहं तत्रागमिष्यामि स्नेहात्ते पर्वतात्मज ॥
तत्रैव च वसिष्यामि त्वया सार्द्धमसंशयम्॥ २१ ॥
किं त्वहं प्रणयाद्भ्रातर्वक्ष्यामि यद्वचः शृषु ॥
प्रणयान्नान्यथा कार्यं यद्यहं तव संमतः ॥ २२ ॥
मन्नाम्ना ख्यातिमायातु नान्यत्किंचिद्वृणोम्यहम्॥
ततः सोऽपि प्रतिज्ञाय आरूढस्तस्य चोपरि ॥
प्रणम्य पितरौ चैव प्रतस्थे मुनिना सह ॥ २३ ॥
दिव्यैर्वृक्षैः शुभैः पूर्णैर्नदीनिर्झरसंकुलैः ॥
मधुरैर्विहगैर्युक्तो मृगैः सौम्यैः समन्वितः ॥ २४ ॥
मुक्तोऽर्बुदेन तत्रैव विवरे मुनिवाक्यतः ॥
समस्तस्तत्रानासाग्रं गतः पर्वतसत्तमः ॥ २५ ॥
विमुक्तो विवरे तस्मिन्नर्बुदेन महात्मना ॥
परिपूर्णे महारौद्रे संतुष्टो मुनिपुंगवः ॥ २६ ॥
ब्रवीच्चार्बुदं नागं वरं वरय सुव्रत ॥
परितुष्टोऽस्मि ते भद्र कर्मणानेन पन्नग ॥ २७ ॥
॥ अर्बुद उवाच ॥ ॥
एष एव वरोऽस्माकं यत्त्वं तुष्टो महामुने ॥
अवश्यं यदि दातव्यं तच्छृणुष्व द्विजोत्तम ॥ २८ ॥
यच्चैतच्छिखरे ह्यस्मिन्निर्झरं निर्मलोदकम् ॥
नागतीर्थमिति ख्यातिं भूतले यातु सर्वतः ॥ २९ ॥
अत्रैवाहं वसिष्यामि मित्रस्नेहात्सदा मुने ॥
तत्र स्नात्वा दिवं यातु मानवस्त्वत्प्रसादतः ॥ 7.3.3.३० ॥
अपि वंध्या च या नारी स्नानमात्रं समाचरेत्॥
सा स्यात्पुत्रवती विप्र सुखसौभाग्यसंयुता ॥ ३१ ॥
॥ वसिष्ठ उवाच ॥ ॥
या वंध्यास्मिञ्जले पूर्णे स्नानमात्रं करिष्यति ॥
सापि पुत्रमवाप्नोति सर्वलक्षणलक्षितम् ॥ ३२ ॥
नभसः शुक्लपंचम्यां फलैः पूजां करोति च ॥
अपि वर्षशता नारी सा भविष्यति पुत्रिणी ॥ ३३ ॥
येऽत्र स्नानं करिष्यंति ह्यस्मिंस्तीर्थे च भक्तितः ॥
यास्यंति ते परं स्थानं जरामरणवर्जितम् ॥ ३४ ॥
श्राद्धं चात्र करिष्यंति पंचम्यां ये समाहिताः ॥
मासे नभसि तीर्थस्य फलं तेषां भविष्यति ॥ ३५ ॥
॥ सूत उवाच ॥ ॥
एवं दत्त्वा वरं तस्य वसिष्ठो भगवान्मुनिः ॥
नंदिवर्द्धनमभ्येत्य वाक्यमेतदुवाच ह ॥ ३६ ॥
वरं च व्रियतां वत्स परितुष्टोऽस्मि तेऽनघ ॥
विनयात्सौहृदात्सर्वं दास्यामि यत्सुदुर्ल्लभम्॥ ३७ ॥
॥ नंदिवर्द्धन उवाच ॥ ॥
तवास्तु वचनं सत्यं पूर्वोक्तं मुनिसत्तम ॥
सांनिध्यं जायतामत्र अवश्यं तव सर्वदा ॥ ३८ ॥
यथाहमर्बुदेत्येवं ख्यातिं गच्छामि भूतले ॥
प्रसादाच्चैव ते भूयादेतन्मे मनसि स्थितम् ॥ ३९ ॥
॥ सूत उवाच ॥ ॥
एवमस्त्विति तं प्रोच्य वसिष्ठो भगवान्मुनिः ॥
चक्रे स्वमाश्रमं तत्र तस्य वाक्येन नोदितः ॥ 7.3.3.४० ॥
पनसैश्चंपकैराम्रैः प्रियंगुबिल्वदाडिमैः ॥
नानापक्षिसमायुक्तो देवगन्धर्वसेवितः ॥ ४१ ॥
तस्थौ तत्र मुनिश्रेष्ठो ह्यरुंधत्या समन्वितः ॥
गोमतीमानयामास तपसा मुनिसत्तमः ॥ ४२ ॥
यस्यां स्नात्वा दिवं यांति अतिपापकृतो नराः ॥
माघमासे विशेषेण मकरस्थे दिवाकरे ॥ ४३ ॥
येत्र स्नानं करिष्यंति ते यास्यंति परां गतिम् ॥४४॥
माघमासे विशेषेण तिलदानं करोति यः ॥
तिलसंख्यानि वर्षाणि स्वर्गे तिष्ठति मानवः ॥ ४५ ॥
बहुना किमिहोक्तेन स्तानमात्रं समाचरेत् ॥ ४६ ॥
वसिष्ठस्य मुखं दृष्ट्वा पुनर्जन्म न विद्यते ॥
अरुंधती पूजनीया पूजनीया विशेषतः ॥ ४७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे वसिष्ठाज्ञया नन्दिवर्धनपर्वतेन विवरपूरणवर्णनंनाम तृतीयोऽध्यायः ॥३ ॥