सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २७६

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
तथान्येऽपि वसन्तीह रुद्रा एकादशैव तु ॥
सञ्जाता ब्राह्मणश्रेष्ठा मुनीनां हितकाम्यया ॥ १ ॥
यैर्दृष्टैः पूजितै र्वापि स्तुतैर्वाथ नमस्कृतैः ॥
विपाप्मा जायते मर्त्यः सर्वदोषविवर्जितः ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
एक एव श्रुतो रुद्रो न द्वितीयः कथंचन ॥
गौरी भार्याप्रिया यस्य स्कन्दः पुत्रः प्रकीर्तितः ॥ ३ ॥
तेनैकं विद्महे रुद्रं नान्यमीशं कथंचन ॥
तस्माद्ब्रूहि महाभाग सर्वानेतान्सुविस्तरात् ॥ ४ ॥
॥ सूत उवाच ॥ ॥
सत्यमेतन्महाभागा यद्भवद्भिरुदाहृतम् ॥
एक एव स्थितो रुद्रो न द्वितीयः कथंचन ॥ ५ ॥
परं यथा च सञ्जाता रुद्रा एकादशात्र भोः ॥
तथाहं कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥ ६ ॥
वाराणस्यां पुरा संस्था मुनयः शंसितव्रताः ॥
हाटकेश्वरदेवस्य दर्शनार्थं समुत्सुकाः ॥ ७ ॥
प्रस्थिताः समयं कृत्वा स्पर्धमानाः परस्परम् ॥
अहंपूर्वमहं पूर्वं वीक्षयिष्यामि तं विभुम् ॥ ८ ॥
सर्वेषामग्रतो भूत्वा पाताले हाटकेश्वरम् ॥
यश्चादौ तत्र गत्वा च नेक्षयिष्यति तं हरम् ॥
सर्वेषां श्रमजं पापं तस्यैकस्य भविष्यति ॥ ९ ॥
एवमुक्त्वा ततः सर्वे वाराणस्यां ततः परम् ॥
प्रस्थिता धावमानाश्च वेगेन महता ततः ॥ ६.२७६.१० ॥
एतस्मिन्नन्तरे देवो हाटकेश्वरसंज्ञितः ॥
ज्ञात्वा तेषामभिप्रायं मिथः स्पर्द्धासमुद्भवम् ॥
आत्मनो दर्शनार्थाय बहुभक्तिपुरस्कृतम् ॥ ११ ॥
लघुना रक्ष्यमाणेन सर्वेषां च महात्मनाम् ॥
नागरंध्रेण निष्क्रम्य पातालाच्चैव तत्क्षणात् ॥ १२ ॥
एकादशप्रकारं स कृत्वा रूपं मनोहरम् ॥
त्रिशूलभृत्त्रिनेत्रं च कपर्देन विभूषितम् ॥ १३ ॥
शशिखंडधरं चैव रुण्डमालाप्रधारकम् ॥
समं चैव स्थितस्तेषां दर्शने शंकरः प्रभुः ॥ १८३ ॥
ततस्ते वै समालोक्य पुरस्थं वृषभध्वजम् ॥
जानुभ्यां धरणीं गत्वा स्तुतिं चक्रुस्ततस्ततः ॥ १५ ॥
एको जानाति देवोऽयं मम संदर्शनं गतः ॥
देवदेवो महादेवः प्रथमं भक्तवत्सलः ॥ १६ ॥
अन्यो जानाति मे पूर्वं जातस्ते तापसोत्तमः ॥
स्तुतिं चक्रुश्च विप्रेंद्रा जानुभ्यामवनिं गताः ॥१७॥ ॥
॥ तापसा ऊचुः ॥ ॥
नमो देवाधिदेवाय सर्वदेवमयाय च ॥
नमः शांताय सूक्ष्माय नमश्चांधकभेदिने ॥ १८ ॥
नमोऽस्तु सर्वरुद्रेभ्यो ये दिवं संश्रिताः सदा ॥
जीवापयंति जगतीं वायुभिश्च पृथग्विधैः ॥ १९ ॥
नमोऽस्तु सर्वरुद्रेभ्यो ये स्थिता वारुणीं दिशम् ॥
रक्षंति सर्वलोकांश्च पिशाचानां दुरात्मनाम् ॥ ६.२७६.२० ॥
नमोऽस्तु सर्वरुद्रेभ्यो दिशमूर्ध्वं समाश्रिताः ॥
रक्षंति सकलांल्लोकान्भूतार्नां जंभकाद्भयात् ॥ २१ ॥
नमोऽस्तु सर्वरुद्रेभ्यो येऽध ऊर्ध्वं समाश्रिताः ॥
रक्षंति सकलांल्लोकान्कूष्मांडानां भयात्सदा ॥ २२ ॥
असंख्याताः सहस्राणि ये रुद्रा भूमिमाश्रिताः ॥
नमस्तेभ्योऽपि सर्वेभ्यस्तेषां रक्षंति ये रुजः ॥ २३ ॥
एवं स्तुतास्तु ते रुद्रा एकादशतपस्विभिः ॥
एकादशापि तान्प्रोचुर्भक्तिनम्रांस्तु तापसान् ॥ २४ ॥
॥ रुद्रा ऊचुः ॥ ॥
एकादशप्रकारोऽहं तुष्टो वस्तापसोत्तमाः ॥
बहुभक्त्यतिरेकेण व्रियतां च यथेप्सितम् ॥२५॥
॥ तापसा ऊचुः ॥ ॥
यदि तुष्टोसि नो देव यदि यच्छसि वांछितम् ॥
एकादशप्रकारैस्तु सदा स्थेयमिहैव तु ॥ २६ ॥
हाटकेश्वरजे क्षेत्रे सर्वतीर्थमये शुभे ॥
आराधनं प्रकुर्वाणा वसामो येन वै वयम् ॥ २७ ॥
॥ श्रीभगवानुवाच ॥ ॥
एकादशप्रकारा या मूर्तयो निर्मिता मया ॥
एताभिरेव सर्वाभिः स्थास्याम्यत्र सदैव हि ॥ २८ ॥
आद्या तु मम या मूर्तिः सा कैलासं समाश्रिता ॥
संतिष्ठति सदैवात्र कैलासे पर्वतोत्तमे ॥ २९ ॥
एतास्तु मूर्तयोऽस्माकं स्थास्यंत्यत्रैव सर्वदा ॥
सर्वेषामेव लोकानां हिताय द्विजसत्तमाः ॥ ६.२७६.३० ॥
नामभिश्च क्रमेणैव युष्मदीयैः स्वयं द्विजाः ॥
विश्वामित्रह्रदे स्नात्वा एता मूर्तीर्ममात्र वै ॥
पूजयिष्यंति ये मर्त्यास्ते यास्यंति परां गतिम् ॥ ३१ ॥
किं वाचा बहुनोक्तेन भूयोभूयो द्विजोत्तमाः ॥
या तासां क्रियते पूजा एकादशगुणा भवेत् ॥ ३२ ॥
एवमुक्त्वा त्रिनेत्रस्तु तत्रैवादर्शनं गतः ॥
तेऽपि तत्राश्रमं कृत्वा श्रद्धया परया युताः ॥
मूर्तीश्च ताः समाराध्य संप्राप्ताः परमं पदम् ॥ ३३ ॥
अन्योऽपि यः पुमांस्ताश्च आराधयति श्रद्धया ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ ३४ ॥
ततः प्रभृति ते जाता रुद्रा एकादशैव तु ॥
संख्यया देवदेवस्य महेश्वरवपुर्धराः ॥ ३५ ॥
तेजोत्तमास्ते संयुक्तास्त्रिनेत्राः शूलपाणयः ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥ ३६ ॥
एकादशप्रकारस्तु यथा जातो महेश्वरः ॥
चैत्रे मासि सिते पक्षे चतुर्दश्यां दिने स्थिते ॥ ३७ ॥
यस्तान्पूजयते भक्त्या स याति परमां गतिम् ॥
अधनो धनमाप्नोति ह्यपुत्रः पुत्रवान्भवेत् ॥ ३८ ॥
सरोगो रोगमुक्तस्तु पराभूतो रिपुक्षयम् ॥
तत्समाराधनादेव कामानंत्यमवाप्नुयात् ॥ ३९ ॥
यः पुनः शिवदीक्षाढ्यो भस्मस्नानपरायणः ॥
तत्समाराधनं कुर्याच्छृणु तस्यापि यत्फलम् ॥ ६.२७६.४० ॥
यदन्यः प्राप्नुयान्मर्त्यस्तत्पूजासंभवं फलम् ॥
षडक्षरेण मंत्रेण पुष्पेणैकेन तत्फलम् ॥ ४१ ॥
शिवदीक्षाधरो यस्तु शतघ्नं लभते फलम् ॥
तस्माच्छतघ्नमाप्नोति शैवात्पाशुपतश्च यः ॥
तस्मात्कालमुखो यश्च महाव्रतधरश्च यः ॥ ४२ ॥
मूर्तीर्यास्ताश्च ये भक्त्या विनताः पूजयंति च ॥
सर्वेषामेव तेषां तु फलं शतगुणं भवेत् ॥ ४३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य एकादशरुद्रोत्पत्ति वर्णनं नाम षट्सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७६ ॥