स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २७४

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति दुर्वासःस्थापितं पुरा ॥
तल्लिंगं देवदेवस्य त्रिनेत्रस्य महात्मनः ॥ १ ॥
चैत्रमासि नरो यस्तु तमाराधयते द्विजाः ॥
नृत्यगीतप्रवाद्यैश्च त्रिकालं विहितक्षणः ॥
स नूनं तत्प्रसादेन गन्धर्वाधिपतिर्भवेत् १। २ ॥
॥ ऋषय ऊचुः ॥ ॥
दुर्वासा नामकश्चायं केनायं स्थापितो हरः ॥
कस्मिन्काले महाभाग सर्वं नो विस्तराद्वद ॥ ३ ॥
॥ सूत उवाच ॥ ॥
आसीत्पुरा निंबशुचो वैदिशे च पुरोत्तमे ॥ ४ ॥
स च पूजयते लिंगं किंचिन्मठपतिः स्थितः ॥
स यत्किंचिदवाप्नोति वस्त्राद्यं च तथा परम् ॥ ५ ॥
माहेश्वरस्य लोकस्य विक्रीणीते ततस्ततः ॥
ततो गृह्णाति नित्यं स हेम मूल्येन तस्य च ॥ ६ ॥
न करोति व्ययं तस्य केवलं संचये रतः ॥
ततः कालेन महता मंजूषाऽस्य निरर्गला ॥
जाता हेममयी विप्राः कार्पण्यनिरतस्य च ॥ ७ ॥
अथ संस्थाप्य भूमध्ये मंजूषां तां प्रपूरिताम् ॥
करोति व्यवहारं स कक्षां तां नैव मुंचति ॥ ८ ॥
कदाचिद्देवपूजायां सोऽपि ब्राह्मणसत्तमाः ॥
विश्वासं नैव निर्याति कस्यचिच्च कथंचन ॥ ९ ॥
कस्यचित्त्वथ कालस्य परवित्तापहारकः ॥
अलक्षद्ब्राह्मणस्तच्च दुःशीलाख्यो व्यचिंतयत् ॥ ६.२७४.१० ॥
ततः शिष्यो भविष्यामि विश्वासार्थं दुरात्मनः ॥
सुदीनैः कृपणैर्वाक्यैश्चाटुकारैः पृथग्विधैः ॥ ११ ॥
आलस्यं च दिवानक्तं साधयिष्याम्यसंशयम् ॥
अन्यस्मिन्नहनि प्राप्ते दृष्ट्वा तं मठमध्यगम् ॥ १२ ॥
ततः समीपमगमद्दंडाकारं प्रणम्य च ॥
अब्रवीत्प्रांजलिर्भूत्वा विनयावनतः स्थितः ॥ १३ ॥
भगवंस्ते प्रभावोऽद्य तपसा वै मया श्रुतः ॥ १४ ॥
यदन्यस्तापसो नास्ति ईदृशोऽत्र धरातले ॥
तेनाहं दूरतः प्राप्तो वैराग्येण समन्वितः ॥ १५ ॥
संसारासारतां ज्ञात्वा जन्ममृत्युजरात्मिकाम्॥
अर्थात्स्वप्नप्रतीकाशं यौवनं च नृणा मिह ॥ १६ ॥
यद्वत्पर्वतसंजाता नदी च क्षणभंगुरा ॥
पुत्राः कलत्राणि च वा ये चान्ये बांधवादयः ॥ १७ ॥
ते सर्वे च परिज्ञेया यथा पाप समागमाः ॥
तत्संसारसमुद्रस्य तारणार्थं ब्रवीहि मे ॥ १८ ॥
उपायं कंचिदद्यैव उपदेशे व्यवस्थितम् ॥
तरामि येन संसारं प्रसादात्तव सुव्रत ॥ १९ ॥
तस्य तद्वचनं श्रुत्वा रोमांचित तनूरुहः ॥
ज्ञात्वा माहेश्वरः कोऽयं चिंतावान्समुपस्थितः ॥ ६.२७४.२० ॥
यथा ब्रवीषि धन्योऽसि यस्य ते मतिरीदृशी ॥
तारुण्ये वर्तमानस्य सुकुमारस्य चैव हि ॥ २१ ।
तारुण्ये वर्तमानो यः शांतः सोऽत्र निगद्यते ॥
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ २२ ॥
यद्येवं सुविरक्तिः स्यात्संसारोपरि संस्थिता ॥
समाराधय देवेशं शंकरं शशिशेखरम् ॥ २३ ॥
नान्यथा घोरजाप्येन तीर्यते भवसागरः ॥
मया सम्यक्परिज्ञातमेतच्छास्त्रसमागमात् ॥ २४ ॥
शूद्रो वा यदि वा विप्रो म्लेछो वा पापकृन्नरः ॥
शिवदीक्षासमोपेतः पुष्पमेकं तु यो न्यसैत् [। २५ ॥
षडक्षरेण मंत्रेण लिंगस्योपरि भक्तितः ॥
स तां गतिमवाप्नोति यांयां यांतीह यज्विनः ॥ ५६ ॥
यो ददाति प्रभक्त्या च शिवदीक्षान्विताय च ॥
वस्त्रोपानहकौपीनं स यज्ञैः किं करिष्यति ॥ २७ ॥
तच्छ्रुत्वा चरणौ तस्य दुःशीलोऽसौ तदाऽऽददे ॥
विन्यस्य स्वशिर स्ताभ्यां ततोवाक्यमुवाच ह ॥ २८ ॥
शिवदीक्षाप्रमाणेन प्रसादं कुरु मे प्रभो ॥
शुश्रूषां येन ते नित्यं प्रकरोमि समाहितः ॥ २९ ॥
ततोऽसौ तापसो विप्राश्चिंतयामास चेतमि ॥
दक्षोऽयं दृश्यते कोऽपि पुमांश्चैव समागतः ॥ ६.२७४.३० ॥
ममास्ति नापरः शिष्यस्तस्मादेनं करोम्यहम् ॥
ततोऽब्रवीत्करे गृह्य यद्येवं वत्स मे समम् ॥
समयं कुरु येन त्वां दीक्षयाम्यद्य चैव हि ॥ ३१ ॥
त्वया कुटीरकं कार्यं मठस्यास्य विदूरतः ॥
प्रवेशो नैव कार्यस्तु ममात्रास्तं गते रवौ ॥ ३२ ॥
॥ दुःशील उवाच ॥ ॥
तवादेशः प्रमाणं मे केवलं तापसोत्तम ॥
किं मठेन करिष्यामि विशेषाद्रा त्रिसंगमे ॥ ३३ ॥
यः शिष्यो गुरुवाक्यं तु न करोति यथोदितम् ॥
तस्य व्रतं च तद्व्यर्थं नरकं च ततः परम् ॥ ३४ ॥
तच्छ्रुत्वा तुष्टिमापन्नः शिवदीक्षां ततो ददौ ॥
तस्मै विनययुक्ताय तदा निंबशुचो मुनिः ॥ ३५ ॥
ततःप्रभृति सोऽतीव तस्य शुश्रूषणे रतः॥।
रंजयामास तच्चित्तं परिचर्यापरायणः ॥ ३६ ॥
मनसा चिन्तयानस्तु तन्मात्रार्थं दिनेदिने ॥
न च्छिद्रं वीक्षते किंचिद्वीक्षमाणोऽपि यत्नतः ॥ ३७ ॥
शैवोऽपि च स कक्ष्यां तां तां मात्रां हेमसंभवाम् ॥
कथंचिन्मोक्षते भूमौ भोज्ये देवार्चनेऽपि न॥३८ ॥
ततोऽसौ चिन्तयामास दुःशीलो निजचेतसि ॥
मठे तावत्प्रवेशोऽस्ति नैव रात्रौ कथंचन ॥ ३९ ॥
सूर्यास्तमानवेलायां यत्प्रयच्छति तत्क्षणात् ॥
परिघं सुदृढं पापस्तत्करोमि च किं पुनः ॥ ६.२७४.४० ॥
मठोऽयं सुशिलाबद्धो नैव खातं प्रजायते ॥
तुंगत्वान्न प्रवेशः स्यादुपायैर्विविधैः परैः ॥ ४१ ॥
तत्किं विषं प्रयच्छामि शस्त्रैर्व्यापादयामि किम् ॥
दिवापि पशुमारेण पंचत्वं वा नयामि किम् ॥ ४२ ॥
एवं चिन्तयतस्तस्य प्रावृट्काल उपस्थितः ॥
श्रावणस्यासिते पक्षे कर्कटस्थे दिवाकरे ॥ ४३ ॥
प्राप्तो महेश्वरस्तस्य कोऽपि तत्र धनी द्रुतम् ॥
तेनोक्तं प्रणिपत्योच्चैः करिष्यामि पवित्रकम् ॥ ४४ ॥
चतुर्द्दश्यामहं स्वामिन्यद्यादेशो भवेत्तव ॥
यद्यागच्छसि मे ग्रामं प्रसादेन सम न्वितः ॥ ४५ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा तुष्टिमापन्नस्ततो निंबशुचो मुनिः ॥
तथेति चैवमुक्त्वा तं प्रेषयामास तत्क्षणात् ॥ ४६ ॥
आगमिष्याम्यहं काले स्वशिष्येण समन्वितः ॥
करिष्यामि परं श्रेयस्तव वत्स न संशयः ॥ ४७ ॥
अथ काले तु संप्राप्ते चिन्तयित्वा प्रभातिकम् ॥
प्रभातसमये प्राप्ते स शैवः प्रस्थितस्तदा ॥
दुःशीलेन समायुक्तः संप्रहृष्टतनूरुहः ॥ ४८ ॥
ततो वै गच्छमानस्य तस्य मार्गे व्यवस्थिता ॥
पुण्या नदी सुविख्याता मुरला सागरंगमा ॥ ४९ ॥
स तां दृष्ट्वाऽब्रवीद्वाक्यं वत्स शिष्य करोम्यहम् ॥
भवता सह देवार्चां मुरलायां स्थिरो भव ॥ ६.२७४.५० ॥
बाढमित्येव स प्रोक्त्वा संस्थितोऽस्यास्तटे शुभे ॥
सोऽपि निंबशुचस्तस्य रंजितः सर्वदा गुणैः ॥ ५१ ॥
सुशिष्यं तं परिज्ञाय विश्वासं परमं गतः॥
स्थगितां तां समादाय हेममात्रासमुद्भवाम् ॥ ५२ ॥
जागेश्वरसमोपेतां स कन्थां व्याक्षिपत्क्षितौ ॥
पुरीषोत्सर्गकार्येण ततस्तोकांतरं गतः ॥ ५३ ॥
यावच्चादर्शनं प्राप्तो वेतसैः परिवारितः ॥
तावन्मात्रां समादाय दुःशीलः प्रस्थितो द्रुतम् ॥
उत्तरां दिशमाश्रित्य प्रहृष्टेनांतरात्मना ॥ ५४ ॥ ।
अथासौ चागतो यावद्दुःशीलं नैव पश्यति ॥
केवलं दृश्यते कन्था जागेश्वरसमन्विता ॥ ५५ ॥
ततः शीघ्रतरं शौचं किञ्चित्कृत्वा सुदुर्मनाः ॥
विनैवाचमनं प्राप्तः सा कन्था यत्र तिष्ठति ॥५६ ॥
यावन्मात्राविहीनां च ततो ज्ञात्वा च तां हृताम् ॥
तेन शिष्येण मूर्च्छाढ्यो निपपात महीतले ॥ ५७ ॥
ततश्च चेतनां प्राप्य कृच्छ्राच्चोत्थाय तत्क्षणात् ॥
शिलायां ताडयामास निजांगानि शिरस्तथा ॥ ५८ ॥
हा हतोऽस्मि विनष्टोऽस्मि मुष्टस्तेन दुरात्मना ॥
किं करोमि क्व गच्छामि कथं तं वीक्षयाम्यहम्॥ ५९ ॥
ततस्तु पदवीं वीक्ष्य तस्य तां चलितो ध्रुवम् ॥
वृद्ध भावात्परिश्रांतो वावृत्य स मठं गतः ॥ ६.२७४.६० ॥
दुःशीलोऽपि समादाय मात्रां स्थानांतरं गतः ॥
ततस्तेन सुवर्णेन व्यवहारान्करोति सः ॥ ६१ ॥
ततो गृहस्थतां प्राप्तः कृतदारपरिग्रहः ॥
वृद्धभावं समापन्नः संतानेन विवर्जितः ॥ ६२ ॥
कस्यचित्त्वथ कालस्य तीर्थयात्रापरायणः ॥
भार्यया सहितो विप्रश्चमत्कारपुरं गतः ॥ ६३ ॥
स्नात्वा तीर्थेषु सर्वेषु देवतायतनेषु च ॥
भ्रममाणेन संदृष्टो दुर्वासा नाम सन्मुनिः ॥ ६४ ॥
निजदेवस्य सद्भक्त्या नृत्यगीतपरायणः ॥
तं च दृष्ट्वा नमस्कृत्य वाक्यमेतदुवाच सः ॥ ६५ ॥
केनैतत्स्थापितं लिंगं निर्मलं शंकरोद्भवम् ॥
किं त्वं नृत्यसि गीतं च पुरोऽस्य प्रकरोषि च ॥
मुनीनां युज्यते नैव यदेतत्तव चेष्टितम्॥६६॥
॥ दुर्वासा उवाच ॥ ॥
मयैतत्स्थापितं लिंगं देवदेवस्य शूलिनः॥
नृत्यगीतप्रियो यस्माद्देवदेवो महेश्वरः ॥ ६७ ॥
न मेऽस्ति विभवः कश्चिद्येन भोगं करोम्यहम्॥६८॥
एतस्मिन्नंतरे प्राप्तश्चिर्भटिर्नाम योगवित् ॥
तेन पृष्टः स दुर्वासा वेदांतिकमिदं वचः ॥६९॥ चिर्भटि
असूर्या नाम ते लोका अंधेन तमसा वृताः ॥
तांस्ते प्रेत्याऽभिगच्छंति ये केचात्महनो जनाः ॥ ॥ ६.२७४.७० ॥
उपविश्य ततस्तेन तस्य दत्तस्तु निर्णयः ॥
दुःशीलेनापि तत्सर्व विज्ञातं तस्य संस्तुतम् ॥ ७१ ॥
ततो विशेषतो जाता भक्तिस्तस्य हरं प्रति ॥
तं प्रणम्य ततश्चोच्चैर्वाक्यमेतदुवाच ह ॥ ७२ ॥
भगवन् ब्राह्मणोऽस्मीति जात्या चैव न कर्मणा ॥
न कस्यचिन्मया दत्तं कदाचिन्नैव भोजनम् ॥
केवलं देवविप्राणां वंचयित्वा धनं हृतम् ॥
व्यसनेनाभिभूतेन द्यूतवेश्योद्भवेन च ॥ ७४ ॥
तथा च ब्राह्मणेनापि मया शैवो गुरुः कृतः ॥
वंचितश्च तथानेकैश्चाटुभिर्विहृतं धनम् ॥ ७५ ॥
तस्य सक्तं धनं भूयः साधुमार्गेण चाहृतम् ॥
स चापि च गुरुर्मह्यं परलोकमिहागतः ॥ ॥ ७६ ॥
पश्चात्तापेन तेनैव प्रदह्यामि दिवानिशम् ॥
पुरश्चरणदानेन तत्प्रसादं कुरुष्व मे ॥ ७७ ॥
अस्ति मे विपुलं वित्तं न संतानं मुनीश्वर ॥
तन्मे वद मुने श्रेयस्तद्वित्तस्य यथा भवेत् ॥
इह लोके परे चैव येन सर्वं करोम्यहम् ॥ ७८ ॥
॥ दुर्वासा उवाच ॥ ॥
कृत्वा पापसहस्राणि पश्चाद्धर्मपरो भवेत् ॥
यः पुमान्सोऽतिकृच्छ्रेण तरेत्संसारसागरम् ॥ ७९ ॥
दिनेनापि गुरुर्योऽसौ त्वया शैवो विनिर्मितः ।
अधर्मेणापि संजातः स गुरुस्तेन संशयः ॥ ६.२७४.८० ॥
ब्राह्मणो ब्रह्मचारी स्याद्ग्रहस्थस्तदनंतरम् ॥
वानप्रस्थो यतिश्चैव तत श्चैव कुटीचरः ॥ ८१ ॥
बहूदकस्ततो हंसः परमश्च ततो भवेत् ॥
ततश्च मुक्तिमायाति मार्गमेनं समाश्रितः ॥ ८२ ॥
त्वया पुनः कुमार्गेण यद्व्रतं ब्राह्मणेन च [।
शैवमार्गं समास्थाय तन्महापातकं कृतम् ॥ ८३ ॥
॥ दुःशील उवाच ॥ ॥
सर्वेष्वेव हि वेदेषु रुद्रः संकीर्त्यते प्रभुः ॥
तत्किं दोषस्त्वया प्रोक्तस्तस्य दीक्षासमुद्भवः ॥ ८४ ॥
॥ दुर्वासा उवाच ॥ ॥
सत्यमेतत्त्वया ख्यातं वेदे रुद्रः प्रकीर्तितः ॥
बहुधा वासुदेवोऽपि ब्रह्मा चैव विशेषतः ॥ ८५ ॥
परं विप्रस्य या दीक्षा व्रतवंधसमुद्भवा ॥
गायत्री परमा जाप्ये गुरुर्व्रतपरो हि सः ॥
वैष्णवीं चाथ शैवीं च योऽन्यां दीक्षां समाचरेत् ॥ ८६ ॥
ब्राह्मणो न भवेत्सोऽत्र यद्यपि स्यात्षडंगवित् ॥
अपरं लिंगभेदस्ते संजातः कपटादिषु ॥ ८७ ॥
व्रतत्यागान्न संदेहस्तत्र ते नास्ति किंचन ॥
प्रायश्चित्तं मया सम्यक्स्मृतिमार्गेण चिंतितम्॥ ८८ ॥
॥ दुःशील उवाच ॥ ॥
सतां सप्तपदीं मैत्रीं प्रवदंति मनीषिणः ॥
मित्रतां तु पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु ॥ ८९ ॥
अस्ति मे विपुलं वित्तं यदि तेन प्रसिद्ध्यति ॥
तद्वदस्व महाभाग येन सर्वं करोम्यहम् ॥ ॥ ६.२७४.९० ॥
॥ दुर्वासा उवाच ॥ ॥
एक एव ह्युपायोऽस्ति तव पातकनाशने ॥
तं चेत्करोषि मे वाक्याद्विशुद्धः संभविष्यसि ॥ ९१ ॥
तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च ॥
द्वापरे तीर्थयात्रां च दानमेव कलौ युगे ॥ ९२ ॥
सांप्रतं कलिकालोऽयं वर्तते दारुणाकृतिः ॥
तस्मात्कृष्णाजिनं देहि सर्वपापविशुद्धये ॥ ९३ ॥
तथा च ते घृणाऽप्यस्ति गुरुवित्तसमुद्भवा ॥
तदर्थं कुरु तन्नाम्ना शंकरस्य निवेशनम्॥ ९४ ॥
येन तस्मादपि त्वं हि आनृण्यं यासि तत्क्षणात् ॥
अन्यत्रापि च तद्वित्तं यत्किंचिच्च प्रपद्यते ॥ ९५ ॥
ब्राह्मणेभ्यो विशिष्टेभ्यो नित्यं देहि समाहितः ॥
तिलपात्रं सदा देहि सहिरण्यं विशेषतः ॥ ९६ ॥
येन ते सकलं पापं देहान्नाशं प्रगच्छति ॥
अपरं चैत्रमासेऽहं सदाऽऽगच्छामि भक्तितः ॥ ९७ ॥
कल्पग्रामात्सुदूराच्च प्रासादेऽत्र स्वयं कृते ॥
पुनर्यामि च तत्रैव व्रतमेतद्धि मे स्थितम् ॥ ९८ ॥
तस्माच्चिंत्यस्त्वयाह्येष प्रासादो यो मया कृतः ॥
चिंतनीयं सदैवेह स्नानादिभिरनेकशः ॥ ९९ ॥
॥ दुःशील उवाच ॥ ॥
करिष्यामि वचस्तेऽहं यथा वदसि सन्मुने ॥ ६.२७४.१०० ॥ ॥ ॥
॥ दुर्वासा उवाच ॥ ॥
सर्वपापविशुद्ध्यर्थं दत्ते कृष्णाजिने द्विजः ॥
प्रयच्छ तिलपात्राणि गुप्तपापस्य शुद्धये ॥ १०१ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा दत्तं तेन महात्मना ॥
ततः कृष्णाजिनं भक्त्या ब्राह्मणायाहिताग्नये ॥ १०२ ॥
दुर्वाससः समा देशाद्यथोक्तविधिना द्विजाः ।
यच्छतस्तिलपात्राणि तस्य नित्यं प्रभक्तितः ॥ १०३ ॥
गतपापस्य दीक्षां च ददौ निर्वाणसंभवाम् ॥
तथासौ गतपापस्य दीक्षां दत्त्वा यथाविधि ॥ १०४ ॥
ततः प्रोवाच मधुरं देहि मे गुरुदक्षिणाम् ॥ १०५ ॥
॥ दुःशील उवाच ॥ ॥
याचस्व त्वं प्रभो शीघ्रं यां ते यच्छामि दक्षिणाम् ॥
तां प्रदास्यामि चेच्छक्तिर्वित्तशाठ्यविवर्जिताम्॥ १०६ ॥
॥ दुर्वासा उवाच ॥ ॥
कल्पग्रामं गमिष्यामि सांप्रतं वर्तते कलिः ॥
नाहमत्रागमिष्यामि यावन्नैव कृतं भवेत् ॥ १०७ ॥
अर्धनिष्पादितो ह्येष प्रासादो यो मया कृतः ॥
परिपूर्तिं त्वया नेय एषा मे गुरुदक्षिणा ॥ १०८ ॥
नृत्यगीतादिकं यच्च तथा कार्यं स्वशक्तितः ॥
पुरतोऽस्य बलिर्देयस्तथान्यत्कुसुमादिकम् ॥ १०९ ॥
एवमुक्त्वा गतः सोऽथ कल्पग्रामं मुनीश्वरः ॥
दुःशीलोऽपि तथा चक्रे यत्तेन समुदाहृतम् ॥ ६.२७४.११० ॥
॥ सूत उवाच ॥ ॥
एवं तस्य प्रभक्तस्य तत्कार्याणि प्रकुर्वतः ॥
तन्नाम्ना कीर्त्यते सोऽथ दुःशील इति संज्ञितः ॥ १११ ॥
चैत्रमासे च यो नित्यं तं च देवं प्रपश्यति ॥
क्षणं कृत्वा स पापेन वार्षिकेण प्रमुच्यते ॥ ११२ ॥
यः पुनः स्नपनं तस्य सर्वं चैव करोति च ॥
त्रिंशद्वर्षोद्भवं पापं तस्य गात्रात्प्रणश्यति ॥ ११३ ॥
यः पुनर्नृत्यगीताद्यं कुरुते च तदग्रतः ॥
आजन्ममरणात्पापात्सोऽपि मुक्तिमवाप्नुयात् ॥११४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दुर्वासःस्थापित
शिवलिंगस्य दुःशीलेश्वरसंज्ञाप्राप्तिकारणवृत्तान्तवर्णनं नाम चतुःसप्तत्युत्तर द्विशततमोऽध्यायः ॥ २७४ ॥ ॥ छ ॥