सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २७२

विकिस्रोतः तः

ऋषय ऊचुः ॥ ।
यदेतद्भवता प्रोक्तमीशानस्य महीपतेः॥
ईश्वरेण पुरा दत्तमायुर्यावत्स्ववासरम्॥ १ ॥
किंप्रमाणं भवेत्तस्य दिवसस्य ब्रवीहि नः ॥
॥ सूत उवाच ॥ ॥
अहं वः कीर्तयिष्यामि प्रमाणं दिवसस्य तु ॥ २ ॥
माहेश्वरस्य विप्रेन्द्राः श्रूयतां गदतः स्फुटम् ॥
निमेषस्य चतुर्भागस्त्रुटिः स्यात्तद्द्वयं लवः ॥ ३ ॥
लवद्वयं यवः प्रोक्तः काष्ठा ते दश पंच च ॥
त्रिंशत्काष्ठाः कलामाहुः क्षणस्त्रिंशत्कलो मतः ॥ ४ ॥
क्षणैः षष्ट्या पलं प्रोक्तं षष्ट्या तेषां च नाडिका ॥
नाडिकाद्वितयेनैव मुहूर्तं परिकीर्तितम् ॥ ५ ॥
त्रिंशन्मुहूर्त्तमुद्दिष्टमहोरात्रं मनीषिभिः ॥
मासस्त्रिंशदहोरात्रैद्वौ द्वौ मासावृतुं विदुः ॥ ६ ॥
ऋतुत्रयं चाप्ययनमयने द्वे तु वत्सरम् ॥
मानुषाणां हि सर्वेषां स एव परिकीर्तितः ॥ ७ ॥
स देवानामहोरात्रं पुराणज्ञाः प्रचक्षते ॥
अयनं चोत्तरं शुक्लं यद्देवानां दिनं च तत् ॥
यद्दक्षिणं तु सा रात्रिः शुभकर्मविगर्हिता ॥ ८ ॥
यथा सुप्तो न गृह्णाति किंचिद्भोगादिकं नरः ॥
तथा देवाश्च यज्ञांशान्न गृह्णन्ति कथं चन ॥ ९ ॥
अनेनैव तु मानेन मानवेन द्विजोत्तमाः ॥
लक्षैः सप्तदशाख्यैस्तु वत्सराणां प्रकीर्तितम् ॥ ६.२७२.१० ॥
अष्टाविंशत्सहस्रैस्तु वत्सराणां कृतं युगम् ॥
तस्मिञ्छ्वेतोऽभवद्विष्णुर्भगवान्यो जगद्गुरुः ॥ ११ ॥
लोकाः पापविनिर्मुक्ताः शांता दांता जितेन्द्रियाः ॥
दीर्घायुषस्तथा सर्वे सदैव तपसि स्थिताः ॥ १२ ॥
यो यथा जन्म चाप्नोति तथा स म्रियते नरः॥
न पुत्रसंभवो मृत्युर्वीक्ष्यते जनकैः क्वचित् ॥ १३ ॥
कामः क्रोधस्तथा लोभो दंभो मत्सर एव च ॥
न जायते नृणां तत्र युगे तु द्विजसत्तमाः ॥१४॥
ततस्त्रेतायुगं भावि द्वितीयं मुनिसत्तमाः ॥
पादेनैकेन पापं तु रौद्रं धर्मे तदाविशत् ॥ १५ ॥
ततो रक्तत्वमभ्येति भगवान्मधुसूदनः ॥
पापांशेऽपि च संप्राप्ते सस्पर्द्धो जायते जनः ॥ १६ ॥
 स्वर्गमार्गकृते सर्वे चक्रुर्यज्ञांस्ततः परम् ॥
अग्निष्टोमादिकांस्तत्र बहुहोमादिकांस्तथा ॥ १७ ॥
देवलोकांस्ततो यांति मूलाद्यावच्चतुर्दश ॥
ब्रह्मलोकस्य पर्यंतं स्वकीयैर्य ज्ञकर्मभिः ॥१९॥
किंचित्स्वल्पायुषस्तत्र जायन्ते स्पर्धयाऽन्विताः ॥
परं तत्रापि नो यांति मृत्युं पुत्राः कथंचन ॥ १९ ॥
जनके विद्यमाने च स्व ल्पदोषाः प्रकीर्तिताः ॥
कामक्रोधादयो ये च भवंति न भवंति च ॥ ६.२७२.२० ॥
एकया वेलया तत्र वापितं सस्यमुत्तमम् ॥
सप्तवारान्प्रगृह्णंति वैश्याः कृषिपरायणाः ॥ २१ ॥
सर्वा घटस्रवा गावो महिष्यश्च चतुर्गुणाः ॥
प्रयच्छंति तथा क्षीरमुष्ट्र्यस्तासां चतुर्गुणम् ॥ २२ ॥
अजाविकास्तथा पादं नार्यः सर्वास्तथैव च ॥
वेदाध्ययनसंपन्नाः प्रतिग्रहविवर्जिताः ॥
शापानुग्रहकृत्येषु समर्थाः संभवंति च २३ ॥
क्षत्रियाः क्षात्रधर्मेण पालयंति वसुंधराम् ॥
न तत्र दृश्यते चौरो न च जारः कथंचन ॥
स्वधर्मनिरताः सर्वे वर्णाश्चैव व्यवस्थिताः ॥ २४ ॥
तच्च द्वादशभिर्लक्षैर्वत्सराणां प्रकीर्तितम् ॥
षण्णवत्या सहस्रैस्तु द्वितीयं युगमुत्तमम् ॥२५॥
ततश्च द्वापरं भावि तृतीयं द्विजसत्तमाः ॥
द्वौ पादौ तत्र पापस्य द्वौ च धर्मस्य संस्थितौ॥
भगवान्वासुदेवश्च कपिलस्तत्र जायते ॥ २६ ॥
तच्चाष्टलक्षमानेन वत्सराणां प्रकीर्तितम् ॥
चतुःषष्टिभिरन्यैस्तु सहस्राणां द्विजोत्तमाः ॥ २७ ॥
कामः क्रोधस्तथा लोभो दंभो मत्सर एव च ॥
षडेते तत्र जायंते ईर्ष्या चैव तु सप्तमी॥२८॥
अथ संसेवितास्तैस्तु मानवाश्च परस्परम् ॥
विरुद्धांश्च प्रकुर्वंति नाप्नुवंति यथा दिवम् ॥ २९ ॥
केचित्तत्रापि जायंते शांता दांता जितेंद्रियाः ॥
न सर्वेऽपि द्विजश्रेष्ठा यतोऽर्द्धं पातकस्य तु ॥ ६.२७२.३० ॥
ततः कलियुगं प्रोक्तं चतुर्थं च सुदारुणम् ॥
एकपादो वृषो यत्र पापं पादैस्त्रिभिः स्थितम् ॥ ३१ ॥
कृष्णत्वं याति देवोऽपि तत्र चैव चतुर्भुजः ॥
एक पादोऽपि धर्मस्य यावत्तावत्प्रवर्तते ॥ ३२ ॥
पश्चान्नाशं समभ्येति यावत्तावच्छनैःशनैः ॥
प्रमाणं तस्य निर्दिष्टं लक्षाश्चत्वार एव हि ॥ ३३ ॥
द्वात्रिंशच्च सहस्राणि युगस्यैवांतिमस्य च ॥
कलिना तत्र संपृष्टा मर्त्याः सर्वे परस्परम् ॥ ३४ ॥
विबुधैस्ते प्रवर्तंते रागद्वेषपरायणाः ॥
यस्ययस्य गृहे वित्तं तथा नार्यो मनोरमाः ॥३६॥
तेनतेन समं मैत्रीं कलौ कुर्वंति मानवाः ॥
विधवानां यतीनां च सर्वेषां च तपस्विनाम्॥३६॥
लोकद्वयविनाशः स्याद्यतश्चेतो न शुध्यति ॥
प्रावृट्कालेऽपि संप्राप्ते दुर्भिक्षेण प्रपीडिताः ॥ ३७ ॥
भ्रमंति च कलौ लोका गगनासक्तदृष्टयः॥
जानाति चापि तनयः पिता चेन्निधनं व्रजेत् ॥ ३८ ।
ततोहं गृहपो भूयां बांधवो ह्यपि बांधवम् ॥
स्नुषापि वेत्ति चित्तेन यदि श्वश्रूः क्षयं व्रजेत् ॥ ३९ ॥
मम स्याद्गृह ऐश्वर्यं तत्सर्वं नान्यथा व्रजेत् ॥
काव्यैरुपहता वेदाः पुत्रा जामातृकैस्तथा ॥ ६.२७२.४० ॥
शालकैर्बांधवाश्चैव ह्यसतीभिः कुलस्त्रियः ॥
शूद्रास्तपस्विनश्चैव शूद्रा धर्मस्य सूचकाः ॥४१॥
ब्राह्मणानां ततः शूद्रा उपदेशं वदंति च ॥
अल्पोदकास्तथा मेघा अल्पसस्या च मेदिनी ॥ ४२ ॥
अल्पक्षीरास्तथा गावः क्षीरे सर्पिस्तथाऽल्पकम् ।
सर्वभक्षास्तथा विप्रा नृपा निष्करुणास्ततः ॥
कृष्या लज्जंति वैश्याश्च शूद्रा ब्राह्मणप्रेषकाः ॥ ४३ ॥
हेतुवादरता ये च भंडंविद्यापराश्च ये ॥
तेते स्युर्भूमिपालस्य सदाऽभीष्टाः कलौ युगे ॥४४॥
श्वःश्वःपापीयदिवसाः पृथिवी गतयौवना ।
अतिक्रांत शुभाः कालाः पर्युपस्थितदारुणाः ॥४५॥
यथायथा युगं भावि वृद्धिं यांति स्त्रियो नराः ॥
तथातथा प्रयांति स्म लघुतां जंतुभिः सह ॥४६॥
द्वादशमे चैव कन्या स्याद्भर्तृसंयुता ॥४७॥
ततः षोडशमे वर्षे नराः पलितयौवनाः ॥
शौचाचारपरित्यक्ता निजकार्यपरास्तथा ॥ ४८ ॥
भविष्यंति युगस्यांते नराः अंगुष्ठमात्रकाः ॥
गृहं च तेऽथ कुर्वंति बिलैराखुसमुद्भवैः ॥ ४९ ॥
तथा प्रावरणं तेषां कृमिवस्त्रं भविष्यति ॥
एकवर्णा भविष्यंति वर्णाः सर्वे ततः परः ॥
म्लेछीभूता दुराचारा धर्मकृत्यविदूषकाः ॥६.२७२.५॥।
एवं जाते ततो लोके ब्राह्मणो हरिपिंगलः ॥
कल्किगोत्रसमुत्पन्नस्तान्सर्वा न्सूदयेत्ततः ॥९१॥
पश्चात्कृतयुगं भावि भूयोऽपि द्विजसत्तमाः ॥५२॥
एवं युगसहस्रेण संप्राप्तेन ततः परम् ॥
ब्रह्मणो दिवसं भावि रात्रिश्चैव ततः परम् ॥ ५३ ॥
ततश्चानेन मानेन षष्ट्या युक्तैस्त्रिभिः शतैः ॥
ब्रह्मणो वत्सरं भावि केशवस्य च तद्दिनम् ॥ ५४ ॥
आत्मीये जीविते ब्रह्म यावद्वर्षशतं स्थितः ॥
केशवोऽपि स्वमानेन वर्षाणां जीविते शतम् ॥ ५५ ॥
वर्षेण वासुदेवस्य दिनं माहेश्वरं भवेत् ॥
निजमानेन सोप्यत्र याव द्वर्षशतं स्थितः ॥ ५६ ॥
ततः शक्तिस्वरूपः स्यात्सोऽक्षयी कीर्त्यते यतः ॥
सदाशिवस्य निःश्वासः शैवं वर्षशतं भवेत् ॥
उच्छ्वासस्तु पुनस्तस्य शक्तिरूपेण संस्थितः ॥ ५७ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं शिवशक्तिसमुद्भवम् ॥
यावदायुः प्रमाणं च मानुषाढ्यं च यद्भवेत् ॥ ॥ ५८ ॥
भवद्भिः शांकरं पृष्टो द्विजा अस्मि दिनं पुरा ॥
मया पुनस्तु सर्वेषां मर्त्यादीनां तु कीर्तितम् ॥ ५९ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये युगस्वरूपवर्णनंनाम द्विसप्तत्युत्तरद्विशततमोअध्यायः ॥ २७२ ॥