स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २७१

विकिस्रोतः तः
Jump to navigation Jump to search

सूत उवाच॥
अथान्यदपि तत्रास्ति सुपुण्यं लिंगसप्तकम्॥
येनार्चितेन दृष्टेन पूजितेन विशेषतः॥१॥
दीर्घायुर्जायते मर्त्यः सर्वरोगविवर्जितः॥
मार्कण्डेश्वर इत्युक्तस्तत्र देवो महेश्वरः॥२॥
इन्द्रद्युम्नेश्वरोऽन्यस्तु सर्वपापहरो हरः॥
पालेश्वरस्तथा चैव सर्वव्याधिविनाशनः॥३॥
ततो घंटशिवः ख्यातो यो घंटेन प्रतिष्ठितः॥
कलशेश्वरसंज्ञस्तु वानरेश्वरसंयुतः॥४॥
ईशान शिव इत्युक्तस्तत्र क्षेत्रेश्वरेश्वरः॥
पूजितो मानवैर्भक्त्या कामान्यच्छत्यमानुषान्॥५॥
वांछितान्मनसा सर्वान्कलिकालेऽपि संस्थिते॥६॥
ऋषय ऊचुः॥
कोऽयं मार्कंडसंज्ञस्तु येन लिंगं प्रतिष्ठितम्॥
इन्द्रद्युम्नो महीपालः कतमो वद सूतज॥७॥
तथा पालकनामा च येनायं स्थापितो हरः॥
तथा यो घण्टसंज्ञस्तु कस्मिञ्जातः स चान्वये॥८॥
कलशाख्यस्तु यः ख्यातो वानरेण समन्वितः॥
ईशानोप्यखिलं ब्रूहि परं नःकौतुकं स्थितम्॥ ९।
यतोऽत्र जायते श्रेयः पुनः पुंसां प्रकीर्तय॥
यैरेतैः स्थापिता देवाः क्षेत्रेऽस्मिन्मानवोत्तमैः॥६.२७१.१०॥
तथा तेषां समाचारं प्रभावं चैव सूतज॥
दानं वापि यथाकालं मंत्रांश्च विस्तराद्वद॥११॥
सूत उवाच॥
अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम्॥
कथितां भर्तृयज्ञेन आनर्ताधिपतेः स्वयम्॥१२॥
श्रुतयापि यया मर्त्यो दीर्घायुर्जायतेनरः॥
नापमृत्युमवाप्नोति कथंचित्तत्प्रभावतः॥१३॥
यो मार्कंड इति ख्यातः प्रथमं परिकीर्तितः।
संभूतिस्तस्य संप्रोक्ता युष्माकं पापनाशिनी॥१४॥
इंद्रद्युम्नं प्रवक्ष्यामि सांप्रतं मुनिसत्तमाः॥
यद्वंशो यत्प्रभावश्च सर्वभूपालमानितः॥१५।.
इंद्रद्युम्नो महीपाल आसीत्पूर्वं द्विजोत्तमाः॥
ब्राह्मण्यश्च शरण्यश्च साधुलोकप्रपालकः॥
यज्वा दानपतिर्दक्षः सर्वभूतहिते रतः॥१६।
न दुर्भिक्षं न च व्याधिर्न च चौरकृतं भयम्॥
तस्मिञ्छासति धर्मज्ञे आसील्लोकस्य कस्यचित्॥१७॥
यथैव वर्षतो धारा यथा वा दिवि तारकाः॥
गंगायां सिकता यद्वत्संख्यया परिवर्जिताः॥१८॥
तद्वत्तेन कृता यज्ञाः सर्वे संपूर्णदक्षिणाः॥
अग्निष्टोमोऽतिरात्रश्च उक्थः षोडशिकास्तथा॥१९॥
सौत्रामण्याऽथ पशवश्चातुर्मास्या द्विजोत्तमाः॥
वाजपेयाश्वमेधाश्च राजसूया विशेषतः॥६.२७१.२०॥
पौण्डरीकास्तथैवान्ये श्रद्धापूतेन चेतसा॥२१।
तेन दानानि दत्तानि तीर्थेषु च विशेषतः॥
मिष्टान्नानि द्विजेंद्राणां दक्षिणासहितानि च॥२२॥
न तदस्ति धरापृष्ठे नगरं पत्तनं तथा॥
तीर्थं वा यत्र नो तस्य विद्यते त्रिदशालयः॥२३॥
तेन कन्यासहस्राणि अच्युतान्यर्बुदानि च॥
ब्राहमणेभ्यः प्रदत्तानि ब्राह्मणानां धनार्थिनाम्॥२४॥
दशमीदिवसे तस्य रात्रौ च गजपृष्ठिगः॥
दुन्दुभिस्ताड्यमानस्तु बभ्राम सकलं पुरम्॥ २५॥
प्रत्यूषे वैष्णवं भावि पापहारि च वासरम्॥
उपवासः प्रकर्त्तव्यो मुक्त्वा वृद्धं च बालकम्॥
अन्यथा निग्रहिष्यामि भोजनं यः करिष्यति॥२६॥
इंद्रद्युम्नः स राजर्षिस्तदा विष्णोः प्रसादतः॥
तेनैव स्वशरीरेण ब्रह्मलोकं तदा गतः॥२७॥
तत्र कल्पसहस्रांते स प्रोक्तो ब्रह्मणा स्वयम्॥
इंद्रद्युम्न धरां गच्छ न स्थातव्यं त्वयाऽधुना॥२८॥
इंद्रद्युम्न उवाच।
कस्माच्च्यावयसे ब्रह्मन्निजलोकाद्द्रुतं हि माम्॥
अपापमपि देवेश तथा मे वद कारणम्॥२९॥
श्रीब्रह्मोवाच॥
तव कीर्तिसमुच्छेदः संजातोऽद्य धरातले॥
यावत्कीर्तिर्धरापृष्ठे तावत्स्वर्गे वसेन्नरः॥६.२७१.३०॥
एतस्मात्कारणाल्लोकाः स्वनामांकानि चक्रिरे॥
वापीकूपतडागानि देवतायतनानि च॥३१॥
तस्माद्गच्छ धरापृष्ठं स्वां कीर्तिं नूतनां कुरु॥
यदि वांछसि लोकेऽस्मिन्मामके वसतिं चिरम्॥ ३२॥
अथात्मानं स राजेंद्रो यावत्पश्यति तत्क्षणात्॥
तावत्प्राप्तं धरापृष्ठे कांपिल्य नगरं प्रति॥३३॥
अथ पप्रच्छ लोकान्स किमेतन्नगरं स्मृतम्॥
कोऽयं देशः कोऽत्र राजा किं पुरं नगरं च किम्॥३४॥
ते तमूचुः परं चैतत्कांपिल्यमिति विश्रुतम्॥
आनर्तनामा देशोऽयं राजात्र पृथिवीजयः॥३५॥
को भवान्किमिहायातः किंचित्कार्यं वदस्व नः॥३६॥
इंद्रद्युम्न उवाच॥ इंद्रद्युम्नो महीपालः पुरासीद्रोचके पुरे॥
देशे वैजरुके पूर्वं स देशः क्व च तत्पुरम्॥ ३७॥
जना ऊचुः॥
न वयं तत्पुरं विद्मो न देशं न च भूपतिम्॥
इन्द्रद्युम्नाभिधानं च यं त्वं पृच्छसि भद्रक॥३८॥
इंद्रद्युम्न उवाच॥
चिरायुरस्ति कोऽप्यत्र यस्तं वेत्ति महीपतिम्॥
देशं वा तत्पुरं वापि तन्मे वदथ मा चिरम्॥३९॥
जना ऊचुः॥
सप्तकल्पस्मरो नाम मार्कंडेयो महामुनिः॥
श्रूयते नैमिषारण्ये तं गत्वा पृच्छ वेत्स्यसि॥६.२७१.४०॥
अथासौ सत्वरं गत्वा व्योममार्गेण तं मुनिम्॥
पप्रच्छ प्रणिपत्योच्चैर्नैमिषारण्यमाश्रितम्॥४१॥
इंद्रद्युम्नेति वै भूपस्त्वया दृष्टः श्रुतोऽथ वा॥
चिरायुस्त्वं श्रुतोऽस्माभिः पृच्छामस्तेन सन्मुने॥४२॥
श्रीमार्कंडेय उवाच॥ सप्तकल्पांतरे भूपो न दृष्टो न मया श्रुतः॥
इंद्रद्युम्नाभिधानोऽत्र तत्र किं नु वदामि ते॥४३॥
तस्य तद्वचनं श्रुत्वा निराशः स महीपतिः॥
वैराग्यं परमं गत्वा मरणे कृतनिश्चयः॥४४॥
तेन चानीय दारूणि प्रज्वाल्य च हुताशनम्॥
प्रवेष्टुकामः स प्रोक्त इन्द्रद्युम्नो महीपतिः॥४५॥
त्वया चात्र न कर्तव्यमहं ते मित्रतां गतः॥
नाशयिष्यामि ते मृत्युं यद्यपि स्यान्महत्तरम्॥४६॥
नीरोगोऽसि सुभव्योऽसि कस्मान्मृत्युं प्रवांछसि॥
वद मे कारणं मृत्योः प्रतीकारं करोमि ते॥४७॥
इंद्रद्युम्न उवाच॥
चिरायुर्मे भवान्प्रोक्तः कांपिल्यपुरवासिभिः ॥
तेनाहं तव पार्श्वेऽत्र समायातो महामुने॥४८॥
इंद्रद्युम्नोद्भवां वार्तां त्वं वदिष्यसि सन्मुने॥
मत्कीर्तिर्न परिज्ञाता ततो मृत्युं व्रजाम्यहम्॥४९॥
सूत उवाच॥
तस्य तं निश्चयं ज्ञात्वा दयावान्स मुनीश्वरः॥
वृथाश्रमं च तं ज्ञात्वा दाक्षिण्यादिदमब्रवीत्॥६.२७१.५०॥
यद्येवं मा विशाग्निं त्वमहं ज्ञास्यामि तं नृपम्॥
नाडीजंघो बको नाम ममास्ति परमः सुहृत्॥५१॥
चिरंतनश्च सोऽस्माकं नूनं ज्ञास्यति तं नृपम्॥
तस्मादागच्छ गच्छावस्तस्य पार्श्वे हिमाचले॥५२॥
साधूनां दर्शनं जातु न वृथा जायते क्वचित्॥५३॥
एवमुक्त्वा ततस्तौ तु प्रस्थितौ मुनिपार्थिवौ॥
व्योममार्गेण संतुष्टौ बकं प्रति हिमाचले॥५४॥
बकोऽपि तं समालोक्य मार्कण्डेयं समागतम्॥
संमुखः प्रययौ तुष्टः स्वागतेनाभ्यपूजयत्॥५५॥
धन्योऽहं कृतपुण्योऽहं यस्य मे त्वत्समागमः॥
भो भो ब्रह्मविदां श्रेष्ठ आतिथ्यं ते करोमि किम्॥५६॥
श्रीमार्कंडेय उवाच॥
मत्तोपि त्वं चिरायुश्च यतो मित्रं व्यवस्थितः॥
इन्द्रद्युम्नो महीपालस्त्वया दृष्टः श्रुतोऽथवा॥५७॥
एतस्य मम मित्रस्य तेन दृष्टेन कारणम्॥
अन्यथा जायते मृत्युस्ततोऽहं त्वां समागतः॥५८॥
बक उवाच॥ सप्तद्विगुणितान्कल्पान्स्मराम्यहमसंशयम्॥
न स्मरामि कथामेव इंद्रद्युम्नसमुद्भवाम्॥५९॥
आस्तां हि दर्शनं तावत्सत्यमेतन्मयोदिम्॥६.२७१.६०॥
इंद्रद्युम्न उवाच॥
तपसः किं प्रभावोऽयं दानस्य नियमस्य च॥
यदायुरीदृशं जातं बकत्वेऽपि वदस्व नः॥६१॥
बक उवाच॥ घृतकंबलमाहात्म्याद्देवदेवस्य शूलिनः॥
ममायुरीदृशं जातं बकत्वं मुनिशापतः॥६२॥
अहमासं पुरा बालो ब्राह्मणस्य निवेशने॥
चमत्कारपुरे रम्ये पाराशर्यस्य धीमतः॥६४॥
नाम्ना च विश्वरूपाख्यो नाम्ना ऽन्येन बक स्मृतः॥
अतीव चपलत्वेन संयुक्तः पितृवल्लभः॥६४॥
कस्यचित्त्वथ कालस्य संक्रांतौ मकरस्य भोः॥
संप्राप्यातीव चापल्याल्लिंगं जागेश्वरं मया॥
घृतकुम्भे परिक्षिप्तं पूजितं जनकेन यत्॥६५॥
अथ रात्र्यां व्यतीतायां पृष्टोऽहं जनकेन च॥
त्वया पुत्र परिक्षिप्तं नूनं जागेश्वरं क्वचित्॥
तस्माद्वद प्रयच्छामि तेन ते भक्ष्यमुत्तमम्॥६६॥
ततो मयाज्यकुम्भाच्च तस्मादादाय सत्वरम्॥
भक्ष्यलौल्यात्पितुर्हस्ते विन्यस्तं घृतसंप्लुतम्॥६७॥
कस्यचित्त्वथ कालस्य पंचत्वं च समागतः॥
जातिस्मरस्ततो जातस्तत्प्रभावान्नृपालये॥६८॥
आनर्ताधिपतेर्हर्म्ये नाम्ना ख्यातस्त्वहं बकः॥
चमत्कारपुरे देवो हरः संस्थापितो मया॥६९॥
तत्प्रभावेण विप्रेंद्र प्राप्तः पैतामहं पदम्॥६.२७१.७०॥
ततो यानि धरापृष्ठे सुलिंगानि स्थितानि च॥
घृतेनच्छादयाम्येव मकरस्थे दिवाकरे॥
मया यत्स्थापितं लिंगं चमत्कारपुरे शुभम्॥७१॥
आराधितं दिवा नक्तं राज्ये संस्थाप्य पुत्रकम्॥
नियोज्य सर्वतो भृत्यान्धनवस्त्रसमन्वितान्॥७२॥
ततःकालेन महता तुष्टो मे भगवाञ्छिवः॥
मत्समीपं समासाद्य वाक्यमेतदुवाच सः॥७३॥
परितुष्टोऽस्मि भद्रं ते तव पार्थिवसत्तम॥
घृतकंबलदानेन संख्यया रहितेन च॥ ७४॥
तस्माद्वरय भद्रं ते वरं यन्मनसि स्थितम्॥
अदेयमपि दास्यामि यद्यपि स्यात्सुदुर्लभम्॥७५॥
ततो मया हरः प्रोक्तो यदि तुष्टोऽसि मे प्रभो।.
कुरुष्व मां गणं देव नान्यत्किंचिद्वृणोम्यहम्॥७६॥
श्रीभगवानुवाच॥
बकैहि त्वं महाभाग कैलासं पर्वतोत्तमम्॥
मया सार्धमनेनैव शरीरेण गणो भव॥७७॥
अन्योऽपि मर्त्यलोकेत्र यः करिष्यति मानवः॥
मकरस्थे रवौ मह्यं संक्रांतौ रजनीमुखे।
स नूनं मद्गणो भावी सकृत्कृत्वाऽथ कंबलम्॥७८॥
त्वं पुनर्मामकं लिंगं समं कुर्वन्भविष्यसि॥
धर्मसेनेति विख्यातो विकृत्या परिवर्जितः॥७९॥
एवमुक्त्वा स भगवान्मामादाय ततः परम्॥
कैलासं पर्वतं गत्वा गणकोटीशतामदात्॥६.२७१.८०॥
कस्यचित्त्वथ कालस्य भ्रममाणो यदृच्छया॥
गतोऽहं पर्वतश्रेष्ठं हिमवंतं महागिरिम्॥८१।.
यत्रास्ते गालवो नाम सदैव तपसि स्थितः॥
तस्य भार्या विशालाक्षी सर्वलक्षणलक्षिता॥ ८२॥
सप्तरक्ता त्रिगंभीरा गूढगुल्फा कृशोदरी॥
तां दृष्ट्वा मन्मथाविष्टः संजातोऽहं मुनीश्वर॥८३॥
चिंतितं च मया चित्ते कथमेतां हराम्यहम्॥
तस्माच्छिष्यत्वमासाद्य भक्तिमस्य करोम्यहम्॥८४॥
शुश्रूषानिरतो भूत्वा येन प्राप्नोमि भामिनीम्॥८५॥
ततो बटुकरूपेण संप्राप्तो गालवो मया॥
संसारस्य विरक्तोऽहं करिष्यामि मह्त्तपः॥८६॥
दीक्षां यच्छ विभो मह्यं येन शिष्यो भवामि ते॥८७॥
आहरिष्याम्यहं दर्भांस्तथा सुमनसः सदा॥
समिधश्च सदैवाहं फलानि जलमेव च॥८८॥
स मां विनयसंपन्नं ज्ञात्वा ब्राह्मणरूपिणम्॥
ददौ दीक्षां ततो मह्यं शास्त्रदृष्टेन कर्मणा॥८९॥
अथ दीक्षां समासाद्य तोषयामि दिनेदिने ॥
तं चैव तस्य पत्नीं तां यथोक्तपरिचर्यया॥
अशुद्धेनापि चित्तेन छिद्रान्वेषणतत्परः॥६.२७१.९०॥
अन्यस्मिन्दिवसे प्राप्ते सा स्त्रीधर्मसमन्विता॥
उटजं दूरतस्त्यक्त्वा रात्रौ सुप्ता मनस्विनी॥९१।.
सोऽहं रूपं महत्कृत्वा तामादाय तपस्विनीम्॥
सुखसुप्तां सुविश्रब्धां प्रस्थितो दक्षिणामुखः॥९२॥
अथासौ संपरित्यक्ता संस्पर्शान्मम निद्रया॥
चौररूपं परिज्ञाय मां शिष्यं प्ररुरोद ह॥९३॥
साब्रवीच्च स्वभर्तारं गालवं मुनिसत्तमम्॥
एष शिष्यो दुराचारो हरते मामितः प्रभो॥९४॥
तस्माद्रक्ष महाभाग यावद्दूरं न गच्छति॥९५॥
तच्छ्रुत्वा गालवः प्राह तिष्ठतिष्ठेति चासकृत्॥
पापाचार सुदुष्टात्मन्गतिस्ते स्तंभिता मया॥९६॥
तस्य वाक्यात्ततो मह्यं गतिस्तंभो व्यजायत॥
यद्वल्लिखित एवाहं प्रतिष्ठामि सुनिश्चलः॥९७॥
ततस्तेन च शप्तोऽहं गालवेन महात्मना॥
वंचितोऽहं त्वया यस्माद्बको भव सुदुर्मते॥९८॥
ततः पश्यामि चात्मानं सहसा बकरूपिणम्॥
बकत्वेऽपि न मे नष्टा या स्मृतिः पूर्वसंभवा॥९९।
ततः साऽपि च तत्पत्नी सचैलं स्नानमाश्रिता॥
मत्स्पर्शादुःखितांगी च शापाय समुपस्थिता॥६.२७१.१००॥
यस्मात्पाप त्वया स्पृष्टा प्रसुप्ताहं रजस्वला॥
बकधर्मं समाश्रित्य भर्त्ता मे वंचितस्त्वया॥
अन्यरूपं समास्थाय तस्मात्सत्यं बको भव॥१०१॥
एवं शप्तस्ततो द्वाभ्यां ताभ्यां वै दुःखसंयुतः॥
चरणाभ्यां प्रलग्नस्तु गालवस्य महात्मनः॥१०२॥
गणोऽहं देवदेवस्य त्रिनेत्रस्य महात्मनः॥
पालकेति च विख्यातो गणकोटिप्रभुः स्थितः॥१०३॥
सोऽहमत्र समायातः प्रभोः कार्येण केनचित्॥
तव भार्यां समालोक्य कामदेववशं गतः॥१०४॥
क्षमापराधं त्वं मह्यमेवं ज्ञात्वा मुनीश्वर॥
दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव च॥१०५॥
न तिष्ठति चिरं स्थाने यथाहं मदगर्वितः॥
शिष्यरूपं समास्थाय ततः प्राप्तस्तवांतिकम्॥१०६॥
अस्या हरणहेतोश्च महासत्या मुनीश्वर॥
तस्मात्कुरु प्रसादं मे दीनस्य प्रणतस्य च॥१०७॥
अनुग्रहप्रदानेन क्षमा यस्मात्तपस्विनाम्॥
कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता॥
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्॥१०८॥
सूत उवाच॥
तस्य तत्कृपणं श्रुत्वा सोपि माहेश्वरो मुनिः॥
ज्ञात्वा तं बांधवस्थाने दयां कृत्वाऽब्रवीद्वचः॥१०९॥
सत्यवाक्तिष्ठते विप्रश्चमत्कारपुरे शुभे॥६.२७१.११०॥
भर्त्तृयज्ञ इति ख्यातस्तदा तस्योपदेशतः॥
बकत्वं यास्यते नूनं मम वाक्यादसंशयम्॥१११॥
ततः पश्यामि चात्मानं बकत्वेन समाश्रितम्॥११२॥
एवं मे दीर्घमायुष्यं संजातं शिवभक्तितः॥
घृतकम्बलमाहात्म्याद्बकत्वं मुनिशापतः॥ ११३॥
इंद्रद्युम्न उवाच॥ एतदर्थं समानीतस्त्वत्सकाशं विहंगम॥
इंद्रद्युम्नस्य वार्तार्थं मरणे कृतनिश्चयः॥११४॥
सा त्वया नैव विज्ञाता ममाभाग्यैर्विहंगम॥
सेवयिष्याम्यहं तस्मात्प्रदीप्तं हव्यवाहनम्॥११५॥
प्रतिज्ञातं मया पूर्वमेतन्निश्चित्य चेतसि॥
इंद्रद्युम्ने ह्यविज्ञाते संसेव्यः पावको मया॥११६॥
तस्माद्देहि ममादेशं मार्कंडेयसमन्वितः॥
प्रविशामि यथा वह्निं भ्रष्टकीर्तिरहं बक॥११७॥
मार्कंडेय उवाच॥
वेत्सि चान्यं नरं कञ्चिद्वयसा चात्मनोऽधिकम्॥
पृच्छामि येन तं गत्वा कृते ह्यस्य महात्मनः॥ ११८॥
श्रद्धया परया युक्तः संप्राप्तोऽयं मया सह॥
तत्कथं त्यजति प्राणान्सहाये मयि संस्थिते॥११९॥
अपरं च क्षमं वाक्यं यत्त्वां वच्मि विहंगम॥
अयं दुःखेन संयुक्तः साधयिष्यति पावकम्॥
अहमेनमनुद्धृत्य कस्माद्गच्छामि चाश्रमम्॥६.२७१.१२०॥
सूत उवाच॥
तयोस्तं निश्चयं ज्ञात्वा बकः परमदुर्मना॥
सुचिरं चिंतयामास कथं स्यादेतयोः सुखम्॥१२१॥
ततो राजा मुनिश्चैव दारूण्याहृत्य पावकम्॥
प्रवेष्टुकामौ तौ दृष्ट्वा बको वचनमब्रवीत्॥१२२॥
मम वाक्यं कुरु प्राज्ञ यदि जीवितुमिच्छसि॥
ज्ञातः सोऽद्य मया व्यक्तमिन्द्रद्युम्नं नराधिपम्॥१२३॥
यो ज्ञास्यति मम ज्येष्ठः सर्वशास्त्रविचक्षणः॥
तत्त्वमेनं समादाय मरणे कृतनिश्चयम्॥ १२४॥
निश्वसन्तं यथा नागं बाष्पव्याकुललोचनम्॥
समागच्छ मया सार्धं कैलासं पर्वतं प्रति॥१२५॥
यत्रास्ति दयितो मह्यमुलूकश्चिरजीवभाक्॥
स नूनं ज्ञास्यते तं हि मा वृथा मरणं कृथाः॥ १२६॥
ततोऽसौ तेन संयुक्तो बकेन सुमहात्मना॥
मार्कंडेयेन संप्राप्तः कैलासं पर्वतोत्तमम्॥१२७॥
सोऽपि दृष्ट्वा बकं प्राप्तं मित्रं परमसंमतम्॥
समागच्छदसौ हृष्टः स्वागतेनाभ्यनन्दयत्॥१२८॥
अथ तं चैव विश्रान्तं समालिङ्ग्य मुहुर्मुहुः॥
प्राकारवर्णनामासौ वाक्यमेतदुवाच ह॥१२९॥
स्वागतं ते द्विजश्रेष्ठ भूप सुस्वागतं च ते॥
सख्येऽद्य यच्च ते कार्यं वदागमनकारणम्॥६.२७१.१३०॥
कावेतौ पुरुषौ प्राप्तौ त्वया सार्धं ममांतिकम्॥
दिव्यरूपौ महाभागौ तेजसा परिवारितौ॥१३१॥
बक उवाच॥
एष मार्कंडसंज्ञोऽत्र प्रसिद्धो भुवनत्रये॥
महेश्वरप्रसादेन संसिद्धिं परमां गतः॥
द्वितीयोऽसौ सुहृच्चास्य कश्चिन्नो वेद्मि तत्त्वतः॥
मार्कंडेन समायातः सुहृदा व ममांतिकम्॥१३२॥
यदि जानासि तं भूपमिन्द्रद्युम्नं महामते॥
तत्त्वं कीर्तय येनासौ मरणाद्विनिवर्तते॥१३५॥
चिरायुस्त्वं मया ज्ञातो ह्यतः प्राप्तोऽस्मि तेंऽतिकम्॥१३६॥
उलूक उवाच॥
अष्टाविंशत्प्रमाणेन कल्पा जातस्य मे स्थिताः॥
न दृष्टो न श्रुतः कश्चिदिंद्रद्युम्नो महीपतिः॥१३७॥
इंद्रद्युम्न उवाच॥
तव कस्मादुलूकत्वं शीघ्रं तन्मे प्रकीर्तय॥
एतन्मे कौतुकं भावि यत्ते ह्यायुरनन्तकम्॥
उलूकत्वं च संजातं रौद्रं लोकविगर्हितम्॥१३८॥
उलूक उवाच॥
शृणु तेऽहं प्रवक्ष्यामि दीर्घायुर्मे यथा स्थितम्॥
महेश्वरप्रसादेन बिल्वपत्रार्चनान्मया॥
उलूकत्वं मया प्राप्तं भृगोः शापान्महात्मनः॥१३९॥
अहमासं पुरा विप्रः सर्वविद्यासु पारगः॥
चमत्कारपुरे श्रेष्ठे नाम्ना ख्यातस्तु घंटकः॥
ब्रह्मचारी दमोपेतो हरपूजार्चने रतः॥६.२७१.१४०॥
अखंडितैर्बिल्वपत्रैरग्रजातैस्त्रिपत्रकैः॥
त्रिकालं पूजितः शंभुर्लक्षमात्रैः सदा मया॥१४१॥
ततो वर्षसह्स्रांते तुष्टो मे भगवान्हरः॥
प्रोवाच दर्शनं गत्वा मेघगंभीरया गिरा॥१४२॥
अहं तुष्टोऽस्मि ते वत्स वरं वरय सुव्रत॥
अखंडितैर्बिल्वपत्रैस्त्रिकाले यत्त्वयार्चितः॥१४३॥
बिल्वस्य प्रसवाग्रेण त्रिपत्रेण प्रजायते॥
एकेनापि यथातुष्टिस्तथान्येषां न कोटिभिः॥१४४॥
पुष्पाणामपि भद्रं ते सुगंधानामपि ध्रुवम्॥
सखे मया प्रणम्योच्चैः स प्रोक्तः शशिशेखरः॥१४५॥
यदि तुष्टोसि मे देव यदि देयो वरो मम॥
तन्मां कुरु जगन्नाथ जरामरणवर्जितम्॥१४६॥
स तथेति प्रतिज्ञाय महादेवो महेश्वरः॥
कैलासं प्रति देवेशः क्षणाच्चादर्शनं गतः॥१४७॥
ततोहं परितुष्टोथ वरं प्राप्य महेश्वरात्॥
कृतकृत्यमिवात्मानं चिंतयामि प्रहर्षितः॥१४८॥
एतस्मिन्नेव काले तु भार्गवो मुनिसत्तमः॥
कुशलः सर्वशास्त्रेषु वेदवेदांग पारगः॥१४९॥
तस्य भार्याऽभवत्साध्वी नाम्ना ख्याता सुदर्शना॥
प्राणेभ्योऽपि प्रिया तस्य गालवस्य मुनेः सुता॥६.२७१.१५०॥
तस्य कन्या समभवद्रूपेणाप्रतिमा भुवि॥
सा मया सहसा दृष्टा क्रीडमाना यथेच्छया॥१५१॥
मध्यक्षामा सुकेशी च बिंबोष्ठी दीर्घलोचना॥
तामहं वीक्षयित्वा तु कामदेववशं गतः॥१५२॥
ततः पृष्टा मया कस्य कन्येयं चारुलोचना॥
विभक्तसर्वावयवा देवकन्येव राजते॥१५३॥
सखीभिः कीर्तिता मह्यं भार्गवस्य मुनेः सुता॥
एषा चाद्यापि कन्यात्वे वर्तते चारुहासिनी॥१५४॥
ततोऽहं भार्गवं गत्वा विनयेन समन्वितः॥
ययाचे कन्यकां ता च कृतांजलिपुटः स्थितः॥ १५५।
सवर्णं मां परिज्ञाय सोऽपि भार्गवनंदनः॥
दत्तवांस्तां महाभाग विरूपस्यापि कन्यकाम्॥१५६॥
अथ सा कन्यका ज्ञात्वा पित्रा दत्तास्मि धर्मतः॥
विरूपाय ततो गत्वा मातरं वाक्यमब्रवीत्॥५७॥
सुलज्जा साऽतिदुःखार्ता पश्यांब जनकेन च ॥
विरूपाय प्रदत्तास्मि नाहं जीवितुमुत्सहे॥१५८॥
विषं वा भक्षयिष्यामि प्रवेक्ष्यामि हुताशनम्॥
तस्यास्तद्वचनं श्रुत्वा निषिद्धः स द्विजस्तया॥१५९॥
कस्मान्नाथ प्रदत्तासौ विरूपाय त्वया विभो॥
कन्यकेयं सुरूपाढ्या सर्वलक्षणसंयुता॥६.२७१.१६०॥
एतच्छ्रुत्वा तु वचनं भार्गवो मुनिसत्तमः॥
ततस्तां गर्हयित्वासौ धिङ्नारी पुरुषायते॥१६१॥
अनेन प्रार्थिता कन्या मया चास्मै प्रदीयते॥
तत्किं निषेधयसि मां दीयमानां सुतामिमाम्॥१६२॥
इत्युक्त्वा स प्रसुष्वाप पत्न्याथ कन्यया समम्॥१६३॥
ततोऽर्द्धरात्रे चागत्य मया सुप्ता च भार्गवी॥
हृत्वा स्वभवने नीता निशि सुप्ते जने तदा॥१६४॥
नियुक्ता कामधर्मेण ह्यनिच्छंती बलान्मया॥
विप्रः प्रातर्जजागार पिता तस्यास्ततः परम्॥१६५॥
क्वासौ सा दुहिता केन हृता नष्टा मदीयिका॥
अथासौ वीक्षितुं बाह्ये बभ्राम स्ववनांतिकम्॥१६६॥
पदसंहतिमार्गेण मुनिभिर्बहुभिर्वृतः॥
तेन दृष्टाऽथ सा कन्या कृतकौतुकमंगला॥१६७॥
रुदंती सस्वनं तत्र लज्जमाना ह्यधोमुखी॥
ततः कोपपरीतात्मा मां प्रोवाच स भार्गवः॥ १६८॥
निशाचरस्य धर्मेण यस्मादूढा सुता मम॥
निशाचरो भवानस्तु कर्मणानेन सांप्रतम्।१६९॥
घंटक उवाच॥
निर्दोषं मां द्विजश्रेष्ठ कस्मात्त्वं शपसि द्रुतम्॥
त्वयैषा मे स्वयं दत्ता तेन रात्रौ हृता मया॥६.२७१.१७०॥
यो दत्वा कन्यकां पूर्वं पश्चाद्यच्छेन्न दुर्मतिः।
स याति नरकं घोरं यावदाभूतसंप्लवम्॥१७१॥
अथासौ चिंतयामास सत्यमेतेन जल्पितम्॥
पश्चात्तापसमोपेतो वाक्यमेतदुवाच ह॥१७२॥
सत्यमेतत्त्वया प्रोक्तं न मे वचनमन्यथा॥
उलूकरूपसंयुक्तो भविष्यसि न संशयः॥१७३॥
उत्पत्स्यते यदा चात्र भर्तृयज्ञो महामुनिः॥
तस्योपदेशमासाद्य भूयः प्राप्स्यसि स्वां तनुम्॥१७४॥
ततः कौशिकरूपं तु पश्याम्यात्मानमेव च॥
तथापि न स्मृतिर्नष्टा मम या पूर्वसंभवा॥१७५॥
अथ या तत्सुता चोढा मया तस्मिन्गिरौ तदा॥
सापि मां संनिरीक्ष्याथ तद्रूपं दुःखसंयुता॥
प्रविष्टा हव्यवाहं सा विधवात्वमनिच्छती॥१७६॥
एवं मे कौशिकत्वं हि संजातं तु महाद्युते॥
भार्गवस्य तु शापेन कन्यार्थे यत्तवोदितम्॥१७७॥
अखंडबिल्वपत्रेण पूजितो यन्महेश्वरः॥
चिरायुस्तेनसंजातं सत्यमेतन्मयोदितम्॥१७८॥
सत्यं कथय यत्कृत्यं गृहायातस्य किं तव॥
प्रकरोमि महाभाग यद्यपि स्यात्सुदुर्लभम्॥१७९॥
इन्द्रद्युम्न उवाच ॥
इन्द्रद्युम्नस्य ज्ञानाय प्राप्तोऽहं यत्तवांतिकम्॥
नाडीजंघेन चानीतो मरणे कृतनिश्चयः॥६.२७१.१८०॥
यदि नो ज्ञास्यति भवांस्तं कीर्त्या च कुलेन च॥
प्रविशामि ततो नूनं प्रदीप्तं हव्यवाहनम्॥१८१॥
नो चेत्कीर्तय मे कञ्चिदन्यं तु चिरजीविनम्॥
पृच्छामि तेन तं गत्वा येन वेत्ति न वा च सः॥१८२॥
बक उवाच॥
युक्तमुक्तमनेनाद्य तत्कुरुष्व वदास्य भोः॥
यदि जानासि कंचित्वमात्मनश्चिरजीविनम्॥१८३॥
नो चेदहमपि क्षिप्रं प्रविशामि हुताशनम्॥
मार्कंडेनापि सहितः सांप्रतं तव पश्यतः॥१८४॥
एवम् ज्ञात्वा महाभाग चिन्तयस्व चिरंतनम्॥
कंचिद्भूमितलेऽन्यत्र यतस्त्वं चिरजीवधृक्॥१८५॥
आशया परया प्राप्तस्तवाहं किल मंदिरे॥
पुमानेष विशेषेण मार्कंडेयः प्रियो मम ॥१८६॥
संत्यत्र पर्वतश्रेष्ठाः शतशोऽथ सहस्रशः॥
येषु सन्ति महाभागास्तापसाश्चिरजीविनः॥
नान्यथा जीवितं चास्य कथंचित्संभविष्यति॥१८७॥
इंद्रद्युम्नस्य राजर्षेर्हितं परमकं भवेत्॥
तथावयोर्द्वयोश्चापि तस्माच्चिंतय सत्वरम्॥१८८॥
तस्य तं निश्चयं ज्ञात्वा मरणार्थं महीपतेः॥
स उलूकः कृपां गत्वा ततो वचनमब्रवीत्॥१८९॥
यद्येवं तु महाभाग मर्तुकामोऽसि सांप्रतम्॥
तदागच्छ मया सार्धं गन्धमादनपर्वतम्॥६.२७१.१९०॥
तत्र संतिष्ठते गृध्रः स च मे परमः सुहृत्॥
चिरंतनस्तथा सम्यक्स ते ज्ञास्यति तं नृपम्॥
कथयिष्यत्यसंदिग्धं मम वाक्यादसंशयम्॥१९१॥
तस्य तद्वचनं श्रुत्वा मार्कंडेयादिभिस्त्रिभिः॥
प्रोक्तः सर्वैर्महाभाग मा त्वं प्रविश पावकम्॥१९२॥
वयं यास्यामहे सर्वे त्वया सार्धं च तत्र हि॥
कदाचित्सोऽपि जानाति इंद्रद्युम्नं महीपतिम्॥१९३॥
तेषां तद्वचनं श्रुत्वा आशया परया युतः॥
स राजा सह तैः सर्वैः प्रययौ गंधमादनम्॥१९४॥
गृध्रराजोऽपि तान्दृष्ट्वा सर्वानेव कृतांजलिः॥
उलूकं पुरतो दृष्ट्वा प्रहृष्टः सन्मुखो ययौ॥१९५॥
ततोऽब्रवीत्प्रहृष्टात्मा स्वागतं ते द्विजोत्तम॥
चिरकालात्प्रदृष्टोऽसि क एतेऽन्येऽत्र ये स्थिताः॥१९६॥
उलूक उवाच॥
एष मे परमं मित्रं नाडीजंघो बकः स्मृतः॥
एतस्यापि तु मार्कण्डः संस्थितः परमः सुहृत्॥१९७॥
असौ त्रैलोक्यविख्यातः सप्तकल्पस्मरो भुवि॥
एतस्यापि सुहृत्कश्चिन्नैनं जानामि सत्वरम्॥१९८॥
म्रियमाणो मया ह्येष समानी तस्तवांतिकम्॥
अयं जीवति विज्ञात इंद्रद्युम्ने नरेश्वरे॥
नो चेत्प्रविशति क्षिप्रं प्रदीप्तं हव्यवाहनम्॥१९९॥
स त्वं जानासि चेद्ब्रूहि इन्द्रद्युम्नं महीपतिम्॥
चिरंतनो मयापि त्वं तेन प्रष्टुं समागतः॥६.२७१.२००॥
गृध्र उवाच॥
इन्द्रद्युम्नेति विख्यातं राजानं न स्मराम्यहम्॥
न दृष्टो न श्रुतश्चापि इन्द्रद्युम्नो महीपतिः॥२०१॥
तस्य तद्वचनं श्रुत्वा सोऽपि राजा सुदुर्मनाः॥
मनसा चिन्तयामास मरणे कृतनिश्चयः॥२०२॥
ततस्तु कौतुकाविष्टस्तं पप्रच्छ द्विजोत्तमम्॥
कर्मणा केन संप्राप्तमायुष्यं चेदृशं वद॥२०३॥
ततः संभावयिष्यामि श्रुत्वा तेऽहं विभावसुम्॥२०४॥
गृध्र उवाच॥ अहमासं चमत्कारपुरे मर्कटकः किल॥
उपत्यकायां तत्रैव रक्तशृंगस्य भूभृतः॥२०५॥
तत्रैवास्ति महच्छंभोर्मंदिरं मंदरोपमम्।
चित्रेश्वराभिधानं च सर्वपातकनाशनम्॥२०६॥
वसंते तत्र संप्राप्ते पौरजानपदैस्तथा॥
आगत्य चैव सुमहानुत्सवो विहितोऽभवत्॥२०७॥
लिंगस्य सविधै रम्ये सर्वर्तुफलितद्रुमे॥
कानने कामिनीलोककांते जनमनोहरे॥
लिंगमारोपितं चारु तरोरांदोलके मुदा॥ २०८॥
कृत्वा दमनकेनार्चां स्थाप्यांदोले सुयंत्रिते॥
ययुस्ते स्वगृहं पश्चादर्चयित्वा त्रिलोचनम्॥२०९॥
ततोऽहं रजनीवक्त्रे तां दोलां सुमनोहराम्॥
कौतुकाविष्टहृदयो दोलयामि मुहुर्मुहुः॥६.२७१.२१०॥
एवं संदोलयानस्य मम प्राप्ता नरास्तदा॥
कैश्चित्तैस्त्रासितो हत्वा लगुडैः सर्वतोदिशम्॥२११॥
ततः पंचत्वमापन्नस्तत्रैवायतने द्रुतम्॥
ततो जातिस्मरो भूत्वा संजातो नृपमंदिरे॥२१२॥
कोटीश्वरस्यविख्यातो नाम्ना चैव कुशध्वजः॥
पितृपैतामहं राज्यं मया प्राप्तं ततः क्रमात्।२१३॥
कोटीशे समनुप्राप्ते परलोकं स्वकर्मणा ॥
जागेश्वरं महाभागं दोलयामि यथेच्छया॥२१४॥
शिवसिद्धांतजैर्मंत्रैर्गुरुणा संनिवेदितैः॥
ततः कालेन महता तुष्टो देवो हरो मम॥
भवतो वरदश्चास्मि वाक्यमेतदुवाच ह॥२१५॥
कुशध्वज प्रतुष्टोऽस्मि श्रद्धया परया तव॥
वरं वृणीष्व भद्रं ते यः सदा मनसि स्थितः॥२१६॥
ततो मया प्रणम्योच्चैः स प्रोक्तो भगवान्हरः॥२१७॥
यदि तुष्टोसि मे देव तन्मां कुरु निजं गणम्॥
त्रैलोक्यराज्यमपि मे नान्यत्संप्रति रोचते॥२१८॥
एवमुक्तो मया देवो विमाने मां निधाय सः॥
शिवलोकं महापुण्यं सहसा मां समानयत्॥२१९॥
ततः प्रसादतश्चाहं भवान्याश्च हरस्य च॥
क्रीडामि स्वेच्छया तत्र गणमध्ये व्यवस्थितः॥६.२७१.२२०॥
कस्यचित्त्वथ कालस्य विमानवरमाश्रितः ॥
स्वेच्छयाभ्रममाणस्तु प्राप्तोऽत्रैव महागिरौ ॥ २२१ ॥
वसंतसमये प्राप्ते प्रवृत्ते दक्षिणानिले ॥
अग्निवेश्यसुता दृष्टा विवस्त्रा जलम ध्यगा ॥ २२२ ॥
आलिभिर्बहुभिर्युक्ता क्रीडमाना यथेच्छया ॥
मुष्टिग्राह्या तु मध्ये सा बिंबोष्ठी वारिजेक्षणा ॥ २२३ ॥
बिल्वस्तनी शशांकास्या सर्वलक्षणलक्षिता ॥
ततोऽहं मन्मथाविष्टः समभूवं हि तत्क्षणात् ॥ २२४ ॥
अवतीर्य विमानाग्र्याद्गृहीताथ करे मया ॥
प्रकुर्वाणाथ करुणं पक्षिणीकुररी यथा ॥ २२५ ॥
ततः कन्या मुनींद्राणां याः स्थितास्तत्र वारिणि ॥
रुदंत्यः संप्रयातास्ता अग्निवेश्यस्य संनिधौ ॥ २२६ ॥
नीयते त्वत्सुता ब्रह्मन्विमानवरमाश्रिता ॥
वैमानिकेन केनापि क्रन्दमाना निरर्गलम् ॥२२७ ॥
तच्छ्रुत्वा कुपितः सोऽथ व्योममार्गावलोकनः ॥
स्वाश्रमात्संप्रयातः स भर्त्समानो मुहुर्मुहुः॥२२९॥
तिष्ठतिष्ठेति च प्रोच्य स्तंभयामास सर्वतः ॥
तपसोग्रेण विप्रस्य विमानं मम संस्थितम् ॥२२९॥
अब्रवीच्च ततो मां स कोपेन महताऽन्वितः ॥
यस्मात्पाप त्वया कन्या क्रीडती विहृताधुना ॥ ६.२७१.२३० ॥
अकामा मांसपेशीव यथा गृध्रेण दुर्मते ॥
तस्माद्गृध्रो भवत्वाशु मम वाक्यादसंशयम् ॥२३१॥
एवमुक्तस्ततस्तेन लज्जयाऽहं परिप्लुतः ॥
निवेद्य कन्यकां तस्मै प्रणिपत्य मुहुर्मुहुः ॥ २३२ ॥
ततः प्रोक्तो मया विप्रस्त्वग्निवेश्यो महातपाः ॥
न मया ते सुता ज्ञाता न कोपयितुमर्हसि॥२३३॥
गृध्रत्वं मे यथा न स्यात्तथाकुरु मुनीश्वर ॥२३४॥
ततोऽहं तेन च प्रोक्तो न मिथ्यावचनं मम ॥
कथंचिज्जायते तस्माद्गृध्रत्वं प्रभविष्यति ॥ २३५ ॥
आनर्तस्योपदेशेन यदा यास्यसि भोऽधम ॥
भर्तृयज्ञं महाभागमुपदेशकृते तदा ॥ २३६ ॥
तस्माच्च निष्कृतिं प्राप्य गृध्रत्वं ते प्रयास्यति ॥
स मयाऽन्वेषमाणेन न दृष्टो नैव च श्रुतः ।
निर्विण्णो गृध्रभावेन शापांतो न च मेऽभवत् ॥ २३७ ॥
गृध्र उवाच ॥ ॥
एतत्ते सर्वमाख्यातं गृधत्वस्य च कारणम् ॥
आयुष्यं च यथा जातं मम संख्याविवर्जितम् ॥ २३८ ॥
इन्द्रद्युम्न उवाच ॥ ॥
अनुज्ञां देहि मे शीघ्रं प्रविशामि हुताशनम् ॥
येन वैराग्यमापन्नो न हि जीवितुमुत्सहे ॥ ॥ २३९ ॥
एवमुक्तः स तेनाथ चिंतयामास चेतसि ॥
ममांतिकं समायात एवं मित्रसमन्वितः ॥
तत्करोमि यथाशक्त्या स्वोपकारं सुदुर्लभम् ॥ ॥६.२७१.२४॥।
ततः प्रोवाच तं प्रीत्या दाक्षिण्यं परमं गतः ॥
मा साधय चाग्निं भोः शृणु तावद्वचो मम ॥२४१॥
अहं ते कीर्तयिष्यामि मत्तो योऽपि चिरंतनः ॥२४२॥
यो ज्ञास्यति न संदेह इंद्रद्युम्नं महीपतिम् ॥२४२॥
तदागच्छ मया सार्धं तत्समीपं महात्मनः ॥
सहायैः सहितः सर्वैर्मया सार्धं तथैव च ॥२४३॥
॥ इंद्रद्युम्न उवाच ॥ ॥
कस्तवाप्यधिकोऽप्यस्ति जीवितव्येन सद्द्विज ॥
एतन्मे कौतुकं भूरि तस्माद्वद महामते ॥ २४४ ॥
गृध्र उवाच ॥
अस्ति मंथरकोनाम कमठश्चिरजीवितः ॥
मानसे सरसि ख्यात इन्द्रद्युम्नं स वेत्स्यति ॥ २४५ ॥
तस्य तद्वचनं श्रुत्वा मार्कंडाद्याश्च ते त्रयः ॥
तमूचुः पार्थिवश्रेष्ठं मरणे कृतनिश्चयम् ॥ २४६ ॥
युक्तमुक्तं महाभाग गृधराजेन धीमता ॥
तत्र यास्यामहे सर्वे यत्रासौ कमठः स्थितः ॥ २४७ ॥
अनिर्वेदः श्रियो मूलं यतः शंसंति पंडिताः॥
नीतिशास्त्रविदः सर्वे तस्मादागच्छ गम्यताम् ॥ २४८ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वाकृच्छ्रान्निर्वर्त्य पार्थिवः ॥
मरणाद्ब्राह्मणश्रेष्ठा वैराग्यं परमं गतः ॥ २४९ ॥
अथ ते प्रस्थिताः सर्वे गंधमादनपर्वतात् ॥
पंचापि च समादिश्य मानसं सर उत्तमम् ॥
अथ प्राप्ताः क्रमेणैव गच्छमाना विहायसा ॥ ६.२७१.२५० ॥
मानसं तत्सरो रम्यं कूर्मस्तोयाद्विनिर्गतः ॥
निदाघे सेवमानस्तु संतिष्ठति यदृच्छया ॥ २५१ ॥
स च तांश्चतुरो दृष्ट्वा सुचिरं च निरीक्ष्य तान् ॥
परिज्ञाय ततः सर्वान्प्रनष्टः सलिलं प्रति ॥ २५२ ॥
अथ तं कौशिकः प्राह गच्छमानं पराङ्मुखम् ॥
भोभो मित्राय मां दृष्ट्वा संजातोऽसि पराङ्मुखः ॥ २५३ ॥
सुनीचोऽपि गृहं प्राप्तो भवेत्पूज्य तमः सताम् ॥ २५४ ॥
अथासौ तोयमध्यस्थः शिरोमात्रं बहिर्गतः ॥
प्रत्युवाचाथ तं गृध्रं विनयाद्द्विजसत्तमाः ॥ २५५ ॥
नाहं पराङ्मुखो जात स्त्वां दृष्ट्वाऽनंतरावुभौ॥
पंचमोऽयं समभ्येति यो युष्माकं महापुमान् ॥ २५६ ॥
भयात्तस्य प्रणष्टोऽहमिंद्रद्युम्नस्य भूपतेः ॥
अनेन तु प्रदग्धा मे पुरा पृष्ठिर्मखाग्निना ॥
सततं यजमानेन रोचके सत्पुरोत्तमे ॥ २५७ ॥
एतदीयं पुनः स्मृत्वा भयं मे सुमहत्स्थितम् ॥
इंद्रद्युम्नस्य राजर्षेः कीर्ति संश्रयणं महत् ॥ २५८ ॥
इत्येवमुक्ते वचने कमठेन तदा दिवः ॥
देवदूतः समागच्छच्छासनात्परमेष्ठिनः ॥ २५९ ॥
॥ देवदूत उवाच ॥
आगच्छागच्छ राजर्षे सांप्रतं ब्रह्मणोंऽतिकम् ॥
उक्तोऽहं ब्रह्मणा राजन्कीर्तिश्चास्य पृथग्विधा ॥ ६.२७१.२६० ॥
यदा प्रकाशतां याति स्वल्पापि जगती तले ॥
तदाऽऽनेयो द्रुतं राजा मम लोके सुदुर्लभे [। २६१ ॥
तस्मादागच्छ गच्छामो विमानारोहणं कुरु ॥
नयामि येन तत्पार्श्वं ब्रह्मणोऽव्यक्तजन्मनः ॥ २६२ ॥
॥इंद्रद्युम्न उवाच ॥ ॥
यद्येते सुहृदो मह्यं बककौशिककच्छपाः ॥
मार्कंडेयेन सहिता आगच्छंति मया सह ॥ २६३ ॥
आगच्छामि त्वया सार्धं तदहं ब्रह्मणोंऽतिकम् ॥
अन्यथा नागमिष्यामि सत्यमेतन्मयोदितम् ॥ २६४ ॥ ॥
॥ देवदूत उवाच ॥ ॥
एते हरगणाः सर्वे शापभ्रष्टा क्षितिं गताः ॥
शापांते हरपार्श्वे तु यो यास्यंत्यसंशयम् ॥२६५॥
तस्मादागच्छ गच्छामो मुक्त्वात्रैतान्द्रुतं नृप ॥
न चैषां रोचते स्वर्गो मुक्त्वा देवं महेश्वरम् ॥ २६६ ॥
॥ इंद्रद्युम्न उवाच ॥ ॥
यद्येवं गच्छ ते भद्रं नाहं गंता त्रिविष्टपम् ॥
तथातथा यतिष्यामि भविष्यामि यथा गणः ॥ २६७ ॥
तत्रस्थस्य ध्रुवं भावि नित्यं च पतनाद्भयम् ॥
एवमुक्तः स तेनाथ समादाय विमानकम् ॥ २६८ ॥
ब्रह्मलोकं गतो दूतो वैलक्ष्यं परमं गतः ॥
इंद्रद्युम्नोपि प्रपच्छ तं कूर्मं विनयान्वितः ॥ २६९ ॥
आख्याहि कूर्म स्वं कर्म यदीदृक्त्वं चिरंतनः ।
कर्मणा केन तत्प्राप्तं कूर्मत्वं शंस मे द्रुतम् ॥ ६.२७१.२७० ॥
॥ कूर्म उवाच ॥ ॥
अहमासं पुरा विप्रो बालभावे व्यवस्थितः॥
चमत्कारपुरे रम्ये शांडिल्यो नाम विश्रुतः ॥ २७१ ॥
बालक्रीडासु सर्वासु क्रीडमानो यदृच्छया ॥
पक्वेष्टिकमयं शंभोः क्रीडता निर्मितं गृहम् ॥
तत्र जागेश्वरं लिंगं हृत्वाऽथ विनिवेशितम् ॥ २७२ ॥
ततोऽहं भक्तिसंयुक्तः पूजयामि दिनेदिने ॥
क्रीडमानो विना मंत्रैः शिशुभिः परिवारितः ॥ २७३ ॥
कस्यचित्त्वथ कालस्य मरणे समुपस्थिते ।
जातिस्मरो ह्यहं विप्रो जातो वै वैदिशे पुरे ॥ २७४ ॥
ततो मेऽभ्यधिका जाता भक्तिर्देवं हरं प्रति ॥
कृत्त्वा भिक्षाटनं नित्यं याचयित्वा धनं बहु ॥ २७६ ॥
कृत्वा प्रासादमात्रं तु लिंगं संस्थापितं मया ॥
पूजयामि ततो भक्त्या देवं पशुपतिं हरम् ॥ २७६ ॥
ब्रह्मविद्यासमोपेतो भिक्षान्नकृतभोजनः ॥
ब्रह्मचर्यसमोपेतस्त्रिकालं च जपञ्छिवम् ॥ २७७॥
ततस्तेन प्रभावेन संजा तोऽहं भवांतरे ॥
सार्वभौमो महीपालो जातिस्मरणसंयुतः ॥ २७८ ॥
ततः संख्याविहीनाश्च प्रासादाः कारिता मया ॥
त्रिनेत्रस्य महाराज कैलास शिखरोपमाः ॥२७९॥
तथा निरूपिता पूजा बहुपुष्पसमुद्भवा ॥
नान्यत्किंचित्करोम्यत्र धर्म दानादिकं नृप ॥ ६.२७१.२८० ॥
ततः कालेन महता तुष्टो मे शशिशेखरः ॥
ततः प्रोवाच राजर्षे प्रहसञ्छ्लक्ष्णया गिरा ॥ २८१ ॥
जयदत्त प्रतुष्टोऽस्मि तव पार्थिवसत्तम ॥
भक्त्याऽनया द्रुतं ब्रूहि किं ते यच्छामि वांछितम्॥ २८२ ॥
प्रणिपत्य ततोऽष्टांगं स्तुत्वा चैव पृथिग्विधम् ॥
मया प्रोक्तो हरो राजन्कुरु मामजरामरम् ॥
स तथेति प्रतिज्ञाय गतोंऽतर्धानमेव हि ॥ २८३ ॥
अप्रमेयगतिर्देवश्चतुर्दशजगत्पतिः ॥
ततोऽहं तुष्टिसंयुक्तो जरामरणवर्जितः ॥
विचरामि महीपृष्ठे स्वेच्छया शत्रु वर्जितः ॥ २८४ ॥
ततः कालेन महता गतेन नृपसत्तम ॥
बहुकामाग्निसंतप्तः शिवभक्तिविवर्जितः ॥ २८५ ॥
यांयां पश्यामि रूपाढ्यां परनारीं मनोरमाम् ॥
तांतां निरीक्ष्य सुचिरं धर्षयामि ततः परम् ॥ २८६ ॥
धर्मराजभयत्यक्तः पार्थिवत्वं समाश्रितः ॥ २८७ ॥
एतस्मिन्नंतरे राजन्मम पापेन कर्मणा ॥
हाहाकारस्ततो जातः समग्रे धरणीतले ॥ २८८ ॥
एतस्मिन्नंतरे प्राप्तो धर्मराजः शिवांतिकम् ॥
अब्रवीत्प्रणिपत्योच्चैर्दुःखित स्तदनंतरम्॥२८९॥
त्वया देव महीपालो जयदत्तो महीतले ॥
यो निर्मितः प्रतुष्टेन जरामरणवर्जितः॥६.२७१.२९॥।
स सतीनां सतीत्वं च बलान्नाशयते कुधीः ॥
सर्वो भूपभयाल्लोकः सर्वधर्मबहिष्कृतः ॥ २९१ ॥
संजातो विबुधश्रेष्ठ न स्वभावात्कथंचन ॥
तस्यैकमपि मे नास्ति भयं सत्यं ब्रवीमि ते ॥ २९२ ॥
तस्माद्वारय तं शीघ्रं यावद्धर्मो न नश्यति ॥
मर्त्यलोकादशेषेण सतीनां धर्षणेन च ॥ २९३ ॥
एवमुक्तस्ततो देवः कोपेन महतान्वितः ॥
शशाप मां समानीय वेपमानं कृताञ्जलिम् ॥ २९४ ॥
यस्माद्दुष्टसमाचार कृतं कर्म विगर्हितम् ॥
तस्मान्मच्छाप निर्दग्धः कमठो वै भविष्यसि ॥ २९५ ॥
ततो मया सुदीनेन प्रार्थितः परमेश्वरः ॥
शापांतं मे कुरुष्वेश कुरुष्व च दयां मम ॥ २९६ ॥
ततस्तेन पुनः प्रोक्तं कल्पांते षष्टिसंज्ञिते ॥
स्वशरीरं पुनः प्राप्य मद्गणस्त्वं भविष्यसि ॥ २९७ ॥
एतस्मिन्नंतरे कूर्मः संजातोऽहं महीपते ॥
समुद्रसलिलं प्राप्य संस्थितो दुःखितोऽनिशम् ॥ २९८ ॥
कस्यचित्त्वथकालस्य राजंस्त्वं भूतले स्थितः ॥
यजनार्थं समानीतः समुद्रसलिलस्त्वया ॥२९९॥।
स्थापितो भूमिपृष्ठे तु मंत्रै संस्तंभितस्तथा ॥
ममोपरि ततो यज्ञाः कृताः शतसहस्रशः ॥ ६.२७१.३०० ॥
क्रियमाणैश्च यैर्दग्धा मम पृष्ठिः समंततः ॥।
दह्यतोऽपि महाराज तेन यज्ञाग्निना तदा ॥
प्रसादनान्महेशस्य न मे प्राणात्ययो ऽभवत्॥ ३०१ ॥
केवलं जायते दाहो यथा पापं पुरा कृतम्॥
अनुभूतं च तत्सर्वं हरकोपादसंशयम् ॥ ३०२ ॥
अथ प्राप्ते दिवं चैव त्वयि पार्थिवसत्तम ॥
एकार्णवे तु संजाते जलपूर्णे धरातले ॥
संप्राप्तः प्लवमानस्तु ततोऽहं मानसं सरः ॥ ३०३ ॥
षड्पंचाशत्प्रमाणेन कल्पा मम च संस्थिताः ॥
चतुर्भिरपरैर्मोक्षः कूर्मत्वात्संभविष्यति ॥ ३०४ ॥।
एतत्ते सर्वमाख्यातं दीर्घायुष्ट्वस्य कारणम् ॥
हरप्रसादकरणाद्बहुपुष्पार्चनाद्विभोः ॥ ३०५ ॥
कूर्मत्वं च यथा जातं कामदेवस्य कोपतः ॥
स त्वं वद महाभाग गृहायातस्य किं तव ॥
करोमि सांप्रतं कृत्यं शत्रोरपि हृदि स्थितम् ॥ ३०६ ॥
 त्वया मे सुचिरं कालं दग्धा पृष्ठिर्मखाग्निना ॥
अद्यापि च प्रपश्यामि तां ज्वलंतीमिव स्थिताम् ॥ ३०७ ॥
एतस्मात्कारणान्नष्टस्त्वां दृष्ट्वाहं महीपते ॥
कस्मात्त्वं न गतः स्वर्गं विमानेऽपि समागते ॥
एतस्मात्कारणाद्धर्मं प्रकुर्वंति नराधिपाः ॥ ३०८ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
स्वर्गस्थाने च लोकानां नित्यं च पतना द्भयम् ॥
तन्न यास्याम्यहं तत्र यतिष्यामि विमुक्तये ॥ ३०९ ॥
स त्वं करोषि चेत्कृत्यं गृहायातस्य मे मखे ॥
चिरंतनं कथय मे यद्यस्ति तव सौहृदम् ॥ ६.२७१.३१० ॥
॥ कूर्म उवाच ॥ ॥
लोमशो नाम विप्रर्षिः स मत्तोऽस्ति चिरंतनः ॥
श्रूयते स मया दृष्टो नदीतीरं समाश्रितः ॥३११॥ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
तदागच्छत गच्छामो यतः सर्वे द्रुतं स्वयम्॥
पृच्छामो बहुकालस्य जीवितस्य च कारणम्॥३१२॥
अथ ते सहिताः पञ्च व्योममार्गेण संस्थिताः ॥
अथ ते ददृशुस्तत्र लोमशं च निराश्रयम् ॥ ३१३ ॥
स्वाध्यायनिरतं दांतं जपहोमपरायणम् ॥
सव्य हस्ते तृणौघेन छायार्थं विधृतेन च ॥ ३१४ ॥
दधतं चाक्षमालां च दक्षिणेन करेण हि ॥
ते तं दृष्ट्वा महात्मानं कृत्वा तस्य प्रदक्षिणाम् ॥
उपविष्टास्ततः सर्वे स्वागतेनाभिनन्दिताः ॥ ३१५ ॥
पृष्टास्तेन ततश्चैव के यूयं किमिहागताः ॥
विश्रब्धं कथ्यतां मह्यं येन सर्वं करोम्यहम् ॥ ॥ ३१६ ॥
॥ कूर्म उवाच ॥ ॥
मार्कंडो नाम विप्रर्षिः सप्तकल्पस्मरो ह्ययम् ॥
इन्द्रद्युम्नेन चानीतो भूभुजानेन सन्मुने ॥ ३१७ ॥
बकस्यास्य समीपे तु नाडीजंघस्य धीमतः ॥
चिरायुरिति विज्ञाय आत्मनश्चायुरुत्तमम् ॥
इन्द्रद्युम्नस्य वार्तार्थं द्विगुणायुषमात्मनः ॥ ३१८ ॥
अथ तेन न विज्ञातो यदा स पृथिवीपतिः ॥
तदा द्वावपि चायातावुलूकस्यास्य संनिधौ ॥ ३१९ ॥
द्विगुणास्तत्प्रमाणेन कल्पाश्चास्य महात्मनः ॥
वर्तंते नैव विज्ञातो नृपो ह्येतेन सद्द्विज ॥ ६.२७१.३२० ॥
ततस्त्रयोऽपि चानीता गृध्रराजस्य चान्तिकम् ॥ ३२१ ॥
षट्पञ्चाशत्प्रमाणेन कल्पाश्चास्य महात्मनः ॥
वर्तन्ते नैव विज्ञातो नृपो ह्येतेन सद्द्विज ॥ ३२२ ॥
चत्वारोऽपि समानीता एतेनैव ममान्तिकम् ॥
चिरायुषं च मां ज्ञात्वा मित्रभावेन ते द्विज ॥ ३२३ ॥
मयाप्यसौ परिज्ञातो दूरादेव समागतः ॥
इन्द्रद्युम्नो ध्रुवं ह्येष दग्धा पृष्ठिः पुरा मम ॥ ३२४ ॥
येन यज्ञाग्निना मंत्रै स्तंभयित्वा क्षितेरधः ॥
ततोऽहं तद्भयान्नष्टो गृध्राद्यैश्च निवारितः ॥ ३२५ ॥
उपालंभैस्तु बहुभिः प्रणया ज्जलमाविशत् ॥
मयोक्तोऽथ स भूयोऽपि नाहं तव पराङ्मुखः ॥ ३२६ ॥
इन्द्रद्युम्नेन मे पृष्ठिर्येन दग्धा मखाग्निना ॥
एतस्मिन्नन्तरे स्वर्गाद्देवदूतो महामनाः ॥
विमानवरमारूढः प्राप्तश्चास्य महात्मनः ॥ ३२७ ॥
कीर्तिलोपाच्युतः स्वर्गादयमासीन्महीपतिः ॥
ततो विमानमायातमुक्तमात्रे मया दिवः ॥ ३२८ ॥
अथासौ न गतः स्वर्गं विनाऽस्माभिर्द्विजोत्तम ॥
मार्कंडेयं परित्यज्य तिर्यग्योनिगतैस्त्रिभिः ॥ ३२९ ॥
पृच्छतोऽस्य मया प्रोक्तमायुष्यं चात्मनः पुनः ॥
षण्णवतिप्रमाणेन कल्पा मे जीवतो गताः । ६.२७१.३३० ॥
पृष्टोऽहं पूर्वमेवात्र संस्थितस्तव पार्श्वतः ॥
चिरंतनतमो ब्रूहि मया त्वं तु निवेदितः ॥ ३३१ ॥
एतस्मात्कारणात्प्राप्ता वयं सर्वे तवांतिकम् ॥
तस्माद्यत्पृच्छते भूप एष त्वां तत्प्रकीर्तय ॥ ३३२ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
लोमशोऽप्यथ तं प्राह विश्रब्धं पृच्छ पार्थिव ॥
अवश्यं कथयिष्यामि यन्मां त्वं परिपृच्छसि ॥ ३३३ ॥
॥ इंद्रद्युम्न उवाच ॥ ॥
कस्मात्त्वं ग्रीष्मकालेऽपि मध्यं प्राप्ते दिवाकरे ॥
निवासार्थं गृहं रम्यं किमर्थं न करिष्यसि ॥ ३३४ ॥
॥ ॥ लोमश उवाच ॥ ॥
कस्यार्थे क्रियते गेहमनित्यं जीवितं यतः ॥
यदि स्याच्छाश्वतो देहस्तदर्थं क्रियते च तत् ॥ ३३५ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
सर्वेषामेव लोकानां चिरायुः श्रूयते भवान् ॥
तेनाहमपि संप्राप्तो भवद्दर्शनकाम्यया ॥ ३३६ ॥
॥ लोमश उवाच ॥ ॥
कल्पे कल्पे तु संप्राप्ते रोमकं मम नश्यति ॥
अभावे सर्वरोम्णां च ततो नाशो भविष्यति ॥ ३३७ ॥
पश्य त्वं मच्छरीरेऽस्मिन्प्रकाशं रोमवर्जितम् ॥
न करोमि गृहं तेन कारणेन महामते ॥३३८॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
किं त्वया विहितं कर्म येनेदृग्जीवितं स्थितम् ॥
किं दानस्यप्रभावोऽयं तपसो नियमस्य वा ॥ ३३९ ॥
॥ लोमश उवाच ॥ ॥
अहमासं पुरा शूद्रो दरिद्रेण परिप्लुतः ॥
भ्रमामि मेदिनीपृष्ठ उदरस्य कृते सदा ॥६.२७१.३४॥।
कर्मयोगेन महता संप्राप्तो हाटकेश्वरम्॥
क्षुत्क्षामस्तु पिपासार्तो यत्रैतल्लिंगमुत्तमम् ॥
अवधूतं ततो लिंगं मया दृष्ट्वा स्वयंभु तत्॥ ३४१ ॥
स्नापितं तोयमादाय शीतमेतत्सुनिर्मलम्॥
ततस्तु कमलैरेतैर्मया पूजा विनिर्मिता ॥३४२॥
अथ पूजां विनिर्वर्त्य यावन्मार्गसमाश्रितः ॥ क्षु
त्क्षामकण्ठस्य ततः प्राणा नष्टास्तदा मम ॥३४३॥
अथाहं ब्राह्मणगृहे जातो जातिस्मरस्ततः ॥
सर्वं स्मरामि भूपाल देवदेवस्यपूजनात् ॥ ३४४ ॥
ततो मूकत्वमापन्नो नैव जल्पामि किंचन ॥
ईशान इति मे नाम पिता चक्रे प्रहर्षितः ॥३४५॥
ईशानेन यतो दत्तः पूर्वमाराधितेन च ॥
वैराग्यं परमं प्राप्तो इष्ट्वा संसारसंस्थितिम् ॥३४६॥
पिता मे बहुवात्सल्याद्भेषजानि प्रयोजयेत्॥
वाचार्थं मंत्रवादांश्च तथा चैवोपयाचितम् ॥
ब्राह्मणान्पृच्छते नित्यं दिवारात्रिमतंद्रितः ॥ ३४७ ॥
ततो मे जायते हास्यं निजचित्ते नराधिप ॥
दृष्ट्वा संसारसंसक्तिं पितुर्मातुश्च भूरिशः ॥३४८॥
ततश्च यौवनं प्राप्तः क्रमेण नृपसत्तम ॥
यदा तदा निशि त्यक्त्वा तावुभौ चात्र संगतः ॥ ३४९ ॥
ततो हृष्टमना नित्यं पूजयामि समाहितः ॥
ईशानं परया भक्त्या संस्नाप्य सलिलेन च ॥६.२७१.३५॥।
ब्राह्मणीतीर्थजातेन त्रिकालं नृपसत्तम ॥
शिलोंछवृत्तिमासाद्य प्राणयात्रां समाचरन् ॥
नीवारैर्बदरैः शाकैश्चिर्भटैः फलपत्रकैः ॥ ३५१ ॥
ततो मे भगवान्रुद्रः सर्वदेवेश्वरो हरः ॥
अब्रवीद्दर्शनं गत्वा मेघगम्भीरया गिरा ॥ ३५२ ॥
परितुष्टोऽस्मि ते वत्स वरं वरय सुवते ॥
अदेयमपि दास्यामि यद्यपि स्यात्सुदुर्लभम्॥ ३५३ ॥
ततस्तं प्रणिपत्योच्चैः स्तुत्वा वाक्यैः पृथग्विधैः ॥
मया प्रोक्तं कुरु विभो जरामरण वर्जितम्॥३५४॥
श्रीभगवानुवाच॥ अमरत्वं यतो नास्ति मर्त्यलोकेऽत्र कर्हिचित्॥
मर्यादां कुरु तस्मात्त्वं जीवितस्य स्वकस्य वै॥३५५॥
ततो मे भगवानुक्तः कल्पांते समुपस्थिते ॥
रोम्ण एकस्य मे नाशो जायतां त्रिदशेश्वर॥३५६॥
यदा च सर्वरोम्णां मे विनाशः संप्रजायते ॥
तदा मम गणत्वं च जायतां तावकं विभो ॥ ३५७ ॥
एवं भविष्यतीत्युक्तं परं लिंग सदा मम ॥
स्नाप्यं जलेन चैतेन ब्राह्मणीसंभवेन च ॥ ३९८ ॥
ब्रह्माद्यैः पूजनीय च त्रिकालं द्विजसत्तम ॥
ममकैवासरं यावत्तव चायुर्भविष्यति ॥ ३५९ ॥
अन्योऽपि यो नरो भक्त्या पूजयिष्यति मामिह ॥
स्नापयिष्यति सद्भक्त्या विपाप्मा स भविष्यति ॥ ६.२७१.३६० ॥
नापमृत्युर्भवेत्तस्य कदाचिद्द्विजसत्तम ॥
सकृत्संपूजिते ऽप्येवं ब्रह्माद्यैर्मत्कलेवरे ।। ३६१ ॥
सकृत्पिबति यस्तोयं ब्रह्मतीर्थसमुद्भवम् ॥
सर्वपापविशुद्धात्मा तत्क्षणाज्जायते हि सः ॥ ३६२ ॥
एवमुक्त्वाथ देवेशस्ततश्चादर्शनं गतः ॥ ३६३ ॥
अहं तु संस्थितश्चात्र ततः प्रभृति पार्थिव ॥
पूजयानश्च सद्भक्त्या लिंगमेतत्सदैव हि ॥ ३६४ ॥
एतस्मात्कारणाज्जातं ममायुरतिविस्तृतम् ॥
शंकरस्य प्रसादेन नान्यदस्तीह कारणम् ॥ ३६५ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
अहमप्यर्चयिष्यामि लिंगमेत त्त्वया सह ॥
नान्यत्र वा गमिष्यामि ममैवं हृदि निश्चयः ॥ ३६६ ॥
॥ लोमश उवाच ॥ ॥
एवं कुरु महाभाग त्वमवाप्स्यसि वांछितम् ॥
हरभक्तस्य लोकस्य वांछितं नास्ति दुलर्भम् ॥ ३६७ ॥
नाडीजंघो गृहं यातु मार्कंडगृधकौशिकाः ॥
कच्छपेन समायुक्तस्त्वं हि तिष्ठ ममा श्रमे ॥ ३६८ ॥
ततः प्रोचुश्च ते सर्वे न वयं तु नरेश्वर ॥
त्वां विना संप्रयास्यामो भूय एव निजालयम् ।
लिंगमाराधयिष्यामो यदेतद्भवता र्चितम् ॥ ३६९ ॥
एवमुक्त्वा तु ते सर्वे लोमशस्य वराश्रमे ॥
तस्थुः संपूजयामासुस्त्रिकालं लिंगमेव तत् ॥ ६.२७१.३७० ॥
संस्नाप्य ब्राह्मणीतोयैः पद्मा द्यैः पूजयंति च ॥ ३७१ ॥
कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥
तीर्थयात्राप्रसंगेन संप्राप्तस्तत्र यत्र ते ॥ ३७२ ॥
अथ ? नारदं दृष्ट्वा कृत्वा चैवार्हणक्रियाम् ॥
विश्रांतं च ततो ज्ञात्वा पप्रच्छुर्विनयान्विताः ॥ ३७३ ॥
शापभ्रष्टा वयं सर्वे यतः संवर्तदर्शनात् ॥
बकाद्याश्चैव चत्वारः कूर्मांताश्च महामुने ॥ ३७४ ॥
न स विज्ञायते क्वापि कस्मिन्स्थाने व्यवस्थितः ॥
किंरूपः किंप्रमाणश्च किमाचारः क्व संस्थितः ॥ ३७५ ॥
स त्वं यदि विजानासि यत्र तं संस्थितं मुनिम् ॥
तद्वदस्व महाभाग न किंचित्तेऽस्त्यगोचरम् ॥ ३७६ ॥
॥ श्रीनारद उवाच ॥ ॥
अहं जानामि तं सम्यक्संवर्तं मुनिसत्तमम् ॥
गुप्ताचारेण तिष्ठंतं नान्यो वेत्ति कथंचनम् ॥ ३७७ ॥
वाराणास्यां स्थितो नित्यं सोऽवधूतो महामुनिः ॥
विवस्त्रो मलदिग्धांगः सदारण्यं समाश्रितः ॥ ३७८ ॥
भिक्षार्थं कुतपे काले समागच्छति तां पुरीम् ॥
पाणिपात्रकृताहारो गृहैः कैश्चित्सदैव हि॥ ३७९ ॥
भूयोपि याति सायाह्ने किंचिदेव वनांतरम् ॥
तस्यां पुर्यां तथारूपाः शतशोऽथ सहस्रशः ॥ ६.२७१.३८० ॥
तिष्ठंति तापसश्रेष्ठास्तस्य वक्ष्यामि लक्षणम् ॥
भवद्भिः स यथा ज्ञेयो मम वाक्यादसंशयम् ॥ ३८१ ॥
वाराणस्याः प्रतोल्यां च स्थापनीयं सुयत्नतः ः।
कुणपं चैव गुप्तं च यथा नो वेत्ति कश्चन ॥ ३८२ ॥
यास्यंति तापसाः सर्वे तमतिक्रम्य भूरिशः ॥
संवर्तो दिव्यदृष्टिस्तु शल्यं नातिक्रमिष्यति ॥ ३८३ ॥
निवर्तनं तु यश्चक्रे भूभागात्कुणपाश्रयात् ॥
स संवर्तः परिज्ञेयः प्रष्टव्यश्च ततः परम् ॥ ३८४ ॥
यदि पृच्छति केनाहं भवतां संनिवेदितः ॥
नारदेन ततो वाच्यं स त्वां जानाति वै सदा ॥ ३८५ ॥
यदि पृच्छति भूयः स नारदः क्व स तिष्ठति ॥ ३८६ ॥
ततो वाच्यो निवेद्य त्वां प्रतिष्टो हव्यवाहनम् ॥ ॥ ३८७ ॥
तच्छ्रुत्वा नारदवचः सर्वे वै लोमशादयः ॥
वाराणसीं पुरीं प्राप्तास्तस्य दर्शनलालसाः ॥ ३८८ ॥
प्रतोल्यां कुणपं स्थाप्य गुप्तं लोकैरलक्षितम् ॥
स्वयं चैव स्थिता दूरं प्रेक्षमाणाः प्रयत्नतः ॥ ३८९ ॥
ततस्तु कुतपे काले संवर्तस्तु समागतः ॥
यादृग्रूपः पुरा प्रोक्तो नारदेन महात्मना ॥ ६.२७१.३९० ॥
स दृष्ट्वा कुणपं तत्र दिव्यदृष्ट्या महामुनिः ।।
निवृत्तः क्षुत्पिपासार्तो नैव शल्यमलंघयत् ॥ ३९१ ॥
अथ ते तं समुद्दिश्य पृष्ठतोऽनुययुस्तदा ॥
तिष्ठतिष्ठेति जल्पंतः प्रसादः क्रियतामिति । ३९२ ०॥
सोऽपि निर्भर्त्सयन्नेतान्निवर्तध्वमिति ब्रुवन् ॥
मा गच्छत मत्समीपमिति प्रोच्य पलायितम् ॥ ३९३ ॥
अथ दूरतरं गत्वा स प्रोवाच क्षुधान्वितः ॥ ३९४ ॥
केनादिष्टोऽस्मि युष्माकं स शीघ्रं मे निवेद्यताम्॥
शापाग्नौ येन तं पापं भस्मसात्प्रकरोम्यहम् ॥ ३९५ ॥
॥ त ऊचुः ॥ ॥
नारदेन समाख्यातो भवानत्र स्थितो हि नः ॥
कथयित्वा ततो वह्नौ संप्रविष्टः स तत्क्षणात् ॥ ३९६ ॥
॥ संवर्त उवाच ॥ ॥
अहं तदेव कर्ता च तस्य दुष्टस्य सांप्रतम् ॥
निर्दिष्टो येन युष्माकं गुप्ताचारं समाश्रितः ॥ ३९७ ॥
त ऊचुः. ॥ ॥
भगवन्नारदेनोक्तस्त्वमस्माकं महामुने ॥
चिरादन्वेष्यमाणानां नान्यस्त्वां वेत्ति कश्चन ॥ ३९८ ॥
 तावन्निवेद्य चास्माकं प्रविष्टो हव्यवाहनम् ॥
तत्क्षणादेव विप्रेंद्र न विद्मस्तत्र कारणम् ॥ ३९९ ॥
॥ संवर्त उवाच ॥ ॥
अहमप्यतिसंक्रुद्धः शापात्कर्तुं समुद्यतः ॥६.२७१.४०॥।
एतदेवहि तस्माच्च स्वयमेव कृतं च यत् ॥०
तस्माद्वदथ मे शीघ्रं कस्माद्यूयं समागताः ॥ ४०१ ॥
चिरं स्थास्यामि नात्राहं भ्रमिष्यामि पुरीं प्रति ॥
प्राणयात्राकृते भिक्षां करिष्यामि स्वयं यतः ॥ ४०२ ॥
विशल्यः क्रियतां मार्गः कुणपं ह्रियतां च यत् ॥
नोचेच्छापं प्रदास्यामि यद्येवं न करिष्यथ ॥ ४०३ ॥
तथाहं नैव वक्तव्यः कस्यचिच्चात्र संस्थितः ।
अन्वेषयति मां नित्यं मरुत्तः पृथिवीपतिः ॥ ४०४ ॥
यज्ञार्थं नैव तं भूपं याजयिष्ये कथंचन ॥
धिषणेन परित्यक्तो गुरुणा स महीपतिः ॥ ४०५ ॥
गुरुपुत्रं च मां ज्ञात्वा ततोऽन्वेषयते हि माम् ॥ ४०६ ॥
॥ त ऊचुः ॥ ॥
शापभ्रष्टा वयं सर्वे चत्वारोऽपि बकादयः ॥
पक्षित्वं चैव संप्राप्ता ब्रह्मशापेन सन्मुने ॥ ॥ ४०७ ॥
महेश्वरगणाश्चैव वयं त्रैलोक्यवंदिताः ॥
तिर्यग्योनिं समानीता वैराग्यं परमं गताः ॥ ४०८ ॥
शापांतस्तु समादिष्टस्तैर्विप्रैः स्त्रीसमु द्भवः ।
तवोपदेशतस्तेन बकाद्याः शरणं गताः ॥ ४०९ ॥
तस्मात्त्राहि महाभाग पक्षित्वात्सांप्रतं विभो ॥ ६.२७१.४१० ॥
निर्विण्णाश्चिरकालं च पक्षित्वस्य निषेवणात् ॥
एतच्च कारणं नान्यत्तव संगसमुद्भवम् ॥ ४१३ ॥
॥ संवर्त उवाच ॥ ॥
यद्येवं गम्यतां शीघ्रं चमत्कारपुरं प्रति ॥
भर्तृ यज्ञः स्थितोऽप्यत्र सर्वसंदेहहारकः ॥ ४१२ ॥
स वै दास्यति सर्वेषामुपदेशं सुशोभनम् ॥
तेन प्राप्स्यथ संदेहं पूर्वीयं च यथास्थितम् ॥ ॥ ४१३ ॥
स पूर्वं याज्ञवल्क्योऽभूत्सर्वशास्त्रार्थपारगः ॥
ततो भवांतरेऽन्यस्मिन्कात्यायन इति स्मृतः ॥ ४१४ ॥
ततो देहांतरं प्राप्य ख्यातो वररुचिर्द्विजः ॥
ततो देहांतरेऽन्यस्मिन्वेश्यापुत्रो बभूव ह ॥ ४१५ ॥
आराधिता ब्रह्मसुता देवी वाग्रूपिणी सदा ॥
न च तुष्टा स्वयं देवी कारणं वीक्ष्य किंचन ॥ ४१६ ॥
ब्राह्मणेन प्रजातस्तु देहांतं प्राप्य किंचन ॥
तस्य वक्त्रं समापन्ना स्वयमेव सरस्वती ॥ ४१७ ॥
पूर्वमाराधिता नित्यं न सा त्यजति कर्हिचित् ॥
तस्याश्चर्यमभूच्चान्यद्यज्ञे वेश्यासुतस्य हि ॥ ४१९ ॥
ब्रह्मसूत्रं समभ्येति स्कंधे निर्याति गच्छति ॥ ४१९ ॥
पूर्वेषामेव लोकानां यज्ञकर्मसु संस्थितान् ॥
स संदेहान्हरत्येव यथा नान्योऽत्र कश्चन ॥ ६.२७१.४२० ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा प्रणिपत्य मुहुर्मुहुः ॥
गतास्ते कुणपं यत्र संवर्तेन प्रणोदिताः ॥ ४२१ ॥
तच्चाकृष्य ततः सर्वे चमत्कारपुरं गताः ॥
वास्तुस्थानपदे तीर्थे तं दृष्ट्वा तत्र संस्थितम् ॥ ४२२ ॥
प्रणिपत्य ततः प्रोचुः सर्वे विनयसंस्थिताः ॥
ब्रह्मशापेन निर्दग्धा वयं चत्वार एव हि ॥ ४२३ ॥
पक्षित्वं समनुप्राप्तास्त्रयः कूर्मत्वमन्यकः ॥
य एते च त्रयोऽस्माकं स्थिताः पार्श्वे महत्तराः ॥४२४॥
मार्कंडः कथितो ह्येष इंद्रद्युम्नस्तथा परः ॥
तृतीयो लोमशो नाम विख्यातः सुमहातपाः ॥ ४२५ ॥
जीवितव्यस्य निर्विण्णास्त्रय एव च सांप्रतम् ॥
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥ ४२६ ॥ ॥
सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा भर्तृयज्ञो महामुनिः ॥
अब्रवीत्सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा ॥ ४२७ ॥
यूयं सप्तैव लिंगानि स्थापयध्वं समागताः ॥
हाटकेश्वरजे क्षेत्रे. नाम्ना चैवांतिके निभोः ॥ ४२८ ॥
ततो दानानि सप्तैव तेषामग्रे प्रयच्छत ॥
कुलपर्वतसंज्ञानि सर्वपापहराणि च ॥ ४२९ ॥
ततः प्राप्स्यथ चाभीष्टं वपुर्दिव्यं मनोरमम् ॥
गणत्वं देवदेवस्य त्रिने त्रस्य महात्मनः ॥ ६.२७१.४३० ॥
॥ त ऊचुः ॥ ॥
प्रकीर्तय विभो दानं तेषां यच्छामहे यथा ॥
प्रमाणं च विधानं च विस्तरेण महामुने ॥४३१॥
॥ भर्तृयज्ञ उवाच ॥ ॥
देयो हेममयो मेरुः कैलासो रजतोद्भवः ॥
कार्प्पासेन हिमाद्रिस्तु गुडजो गंधमादनः ॥४३२॥
सुवेलस्तु तिलैर्देयो विंध्यः शर्करया तथा ॥
लवणेन तथा शृंगी यथोक्तविधिना ततः ॥ ४३३ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा संस्थाप्य विधिपूर्वकम् ॥१००
सप्तलिंगानि तैः पश्चात्प्रदत्ताः कुलपर्वताः ॥ ४३४ ॥
इंद्रद्युम्नेश्वरस्याग्रे इंद्रद्युम्नः प्रतापवान् ॥
मेरुं हेममयं कृत्वा भर्तृयज्ञमते स्थितः ॥ ४३५ ॥।
मार्कंडेश्वरदेवस्य मार्कंडेन च धीमता ॥
कैलासो राजतो दत्तो भक्तिपूर्वं द्विजोत्तमाः ॥ ४३६ ॥
कार्पासो हिमवान्दत्तः पालकेन द्विजातये ॥
गंधमादनसंज्ञस्तु प्रदत्तो गुडजः पुरः ॥ ४३७ ॥
घंटकेश्वरदेवस्य घंटकेन द्विजोत्तमाः ॥
कच्छपेन तु संदत्तः सुवेलः पर्वतोत्तमः ॥ ४३८ ॥
कच्छपेश्वरदेवस्य पुरस्तिलमयस्तथा ॥
शार्करस्तु तदा शैलः प्रदत्तो भक्तिपूर्वकम्॥ ४३९ ॥
शैल ईशानसंज्ञेन निजदेवस्य चाऽग्रतः ॥
वानरेश्वर देवस्य पुरतो द्विजसत्तमाः ॥ ६.२७१.४४० ॥
गृध्रेणाथ प्रदत्तस्तु लवणाख्यो महागिरिः॥
शृंगी नाम महाभागः श्रद्धापूतेन चेतसा ॥ ४४१ ॥
तत्राश्चर्यमभूद्विप्रा दत्तमात्रैर्नगोत्तमैः ॥
पक्षित्वं निर्गतं तेषां कूर्मत्वमितरस्य च ॥ ४४२ ॥
एतस्मिन्नेव काले तु सर्वे ते तत्प्रभावतः ॥
दिव्यमाल्यांबरधरा दिव्यगंधानुलेपनाः ॥
संजाता ब्राह्मणश्रेष्ठा ये च तत्संमुखे स्थिताः ॥ ४४३ ॥
विमानानि च सर्वेषां समायातानि तत्क्षणात् ।१
भर्तृयज्ञमनुप्राप्य प्रणिपत्य च तान्द्विजान् ॥
कैलासं पर्वतं प्राप्ता विमानवरमाश्रिताः ॥ ४४४ ॥
एतद्वः सर्वमाख्यातं यथा तल्लिंगसप्तकम् ॥
हाटकेश्वरजे क्षेत्रे संजातं पापनाशनम् ॥४४५॥
अन्योऽपि यः पुनस्तेषां लिंगानां भक्तिसंयुतः॥
कुलपर्वतदानं च कुर्यात्सोऽपि शिवं व्रजेत्॥४४८॥
तानि लिंगानि यो मर्त्यः प्रातरुत्थाय वीक्षते ॥
अज्ञानविहितात्पापात्सोऽपि मुक्तिमवाप्नुयात्॥४४७॥
यश्चैतान्पर्वतान्सप्त क्रमेणात्र प्रयच्छति॥
द्विजातिभ्यः स्वलिंगानां पुरतस्त्रिदिवं व्रजेत् ॥४४८॥
स्थित्वा कल्पांतरं तत्र संसेव्य च वराप्सराः ॥
दिव्यान्भोगांश्च संसेव्य यदा भूमौ प्रजायते॥
चक्रवर्तित्वमासाद्य सार्वभौमः प्रजायते ॥ ४४९ ॥
एकेन तु प्रदत्तेन जायते पापसंक्षयः ॥
द्वाभ्यां पुत्राश्च पौत्राश्च वांछितानि फलानि च ॥ ६.२७१.४५० ।
त्रिभिः संजायते राजा चतुर्भिर्मंडलेश्वरः ॥
भारतस्य च खण्डस्य स्वामी भवति पंचभिः ॥ ४५१ ॥
जंबुद्वीपाधिपः षङ्भिश्चक्रवर्ती च सप्तभिः ॥
विधिवत्पर्वतैर्दत्तैरेत दाह पितामहः ॥४५२॥
नरः स्याद्ब्राह्मणश्रेष्ठाः सदाजन्मनिजन्मनि ॥
न दुःखितो दरिद्रो वा व्याधितो वा प्रजायते ॥ ४५३ ॥
सौभाग्यसुखसंयुक्तः सुदेहो रत्नवान्भवेत् ॥
सर्वराज्यविनिर्मुक्तः प्रतापी विजितेन्द्रियः ॥ ४५४ ॥
तस्मात्सर्वप्रयत्नेन भूमिपालैर्विशेषतः ॥
एतं च पर्वता देया उद्दिश्य निजदेवताः ॥ ४५५ ॥

इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तलिंगोत्पत्ति माहात्म्यवृत्तान्तवर्णनंनामैकसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७१ ॥