स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २६५

विकिस्रोतः तः
Jump to navigation Jump to search

ऋषय ऊचुः॥
प्रभूतानि त्वयोक्तानि व्रतानि नियमास्तथा॥
प्रसुप्ते पुंडरीकाक्षे येषां संख्या न विद्यते॥१॥
अशक्त्या हि शरीरस्य नियमानां कथं चरेत्॥
व्रतं हि सुकुमारांगो दानैर्वापि वदस्व नः॥२॥
सूत उवाच॥
अशक्तो नियमं कर्तुं सुकुमारो भवेत्तु यः॥
तेन तत्र प्रकर्तव्यं विख्यातं भीष्मपंचकम्॥३॥
कार्त्तिकस्य सिते पक्ष एकादश्यां समाहितः॥
प्रातरुत्थाय विप्रेंद्र कर्तव्यं दंतधावनम्॥४॥
ततस्तु नियमं कुर्याद्वासुदेवपरायणः॥
पूर्वोक्तानां च सर्वेषां नियमानां द्विजोत्तमाः॥५॥
उपवासः प्रकर्तव्यस्तस्मिन्नहनि भक्तितः॥
अशक्त्या वा शरीरस्य हेमं दद्यात्स्वशक्तितः॥६॥
ब्राह्मणाय हविष्यान्नं दातव्यं वैष्णवैर्नरैः।
एवं पञ्चदिनं यावत्कर्तव्यं व्रतमुत्तमम्॥७॥
पूजनीयो हृषीकेशो जलशायिस्वरूपधृक्॥
गंधैर्धूपैश्च नैवेद्यै रात्रिजागरणैरपि॥८॥
षष्ठेऽहनि ततो जाते पूजयेद्ब्राह्मणोत्तमान्॥
तांश्च वस्त्रैर्हिरण्येन मिष्टान्नेन प्रभक्तितः॥९॥
ततः कृतांजलिर्भूत्वा याचयेद्ब्राह्मणोत्तमान्॥
सर्वे मे नियमाः प्राप्ता युष्माकं च प्रसादतः॥६.२६५.१०॥
ततस्तैरपि वक्तव्यं चतुर्मासीसमुद्भवम्॥
व्रतानां नियमानां च व्रतं भूयात्तवाखिलम्॥११॥
ततो विसर्ज्य तान्विप्रान्भोजनं स्वयमाचरेत्॥
सर्वाहारेण राजेंद्र पंचगव्यप्रपूर्वकम्॥१२॥
यः करोति व्रतं तस्य फलं स्याद्बहुपुण्यदम्॥
यः पुनर्व्रतमेतद्धि कुरुते दिनपंचकम्॥
उपवासपरस्तस्य फलं शतगुणं भवेत्॥१३॥
एकादश्यां हरेः पूजां जातिपुष्पैः समाचरेत्॥
द्वादश्यां बिल्वपत्रेण शतपत्र्या ततः परम्॥
त्रयोदश्यां चतुर्दश्यां सुरभ्या भक्तिपूर्वकम्॥१४॥
भृंगराजेन पुण्येन पौर्णमास्यां प्रपूजयेत्॥
प्रतिपद्दिवसे सर्वैः पूजनीयो जनार्दनः॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्॥१५॥
प्रतिपद्दिवसे सर्वान्प्राशयेत्कायशुद्धये॥
अगरं गुग्गुलं चैव कर्पूरं तगरं त्वचा॥१६॥
एकैकं निर्वपेद्धूपं प्रतिपद्दिवसेऽखिलम्॥
जलशायी जगद्योनिः शेषपर्यंकमाश्रितः॥१७॥
अर्घं गृह्णातु मे देवो भीष्मपंचकसिद्धये॥
मंत्रेणानेन दातव्यो ह्यर्घो देवस्य भक्तितः॥१८॥
शंखतोयं समादाय सपुष्पफलचंदनैः॥
नैवेद्यं परमान्नं च स्वशक्त्या निर्वपेद्द्विजाः॥१९॥
एतद्वः सर्वमाख्यातं व्रतं वै भीष्मपंचकम्॥
संप्राप्यते फलं चैव व्रतानां नियमैः सह॥६.२६५.२०॥
ऋषय ऊचुः॥ यदेतद्भवता प्रोक्तमशून्यशायिनीव्रतम्॥
इन्द्रेण यत्कृतं पूर्वं तुष्ट्यर्थं चक्रपाणिनः॥
प्रसुप्तस्य महाभाग फलं चैव प्रकीर्तितम्॥२१॥
कस्मिन्काले प्रकर्तव्यं केनैव विधिना तथा॥
तस्मात्सूत महाभाग विधानं विस्तराद्वद॥२२॥
सूत उवाच॥
श्रावण्यां समतीतायां द्वितीयादिवसे स्थिते॥
प्रातरुत्थाय विप्रेन्द्रा नक्षत्रे विष्णुदैवते॥
पापिष्ठैः पतितैर्म्लेच्छैः संभाषं नैव कारयेत्॥२३॥
ततो मध्याह्नसमये स्नात्वा धौतांबरः शुचिः॥
जलशायिनमासाद्य मंत्रेणानेन पूजयेत्॥२४॥
श्रीवत्सधारिञ्छ्रीकांत श्रीधामञ्छ्रीपतेऽव्यय॥
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम्॥२५॥
पितरो मा प्रणश्यंतु मा प्रणश्यंतु चाग्नयः॥
देवता मा प्रणश्यंतु मत्तो दांपत्यभेदतः॥२६॥
लक्ष्म्या वियुज्यसे कृष्ण न कदाचिद्यथा भवान्॥
तथा कलत्रसम्बन्धो देव मा मे प्रणश्यतु॥२७॥
लक्ष्म्या ह्यशून्यं शयनं यथा ते देव सर्वदा॥
शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि॥ २८॥
एवमर्थं निवेद्याथ ततो विप्रं प्रपूजयेत्॥
यथाशक्त्या द्विजश्रेष्ठा वित्तशाठ्यं विवर्जयेत्॥२९॥
एवं भाद्रपदे मासि आश्विने कार्तिके तथा॥
पूजयेच्च जगन्नाथं जलशायिनमच्युतम्॥६.२६५.३०॥
अक्षारभोजनं कार्यं विशेषात्तैलवर्जितम्॥
समाप्तौ च ततो दद्याद्ब्राह्मणेंद्राय भक्तितः॥३१॥
फलव्रीहिसमोपेतां शय्यां वस्त्रसमन्विताम्॥
सुवर्णं दक्षिणायां च तथैव च फलं लभेत्॥३२॥
एवं यः कुरुते सम्यग्व्रतमेतत्समाहितः॥
तस्य तुष्टिपथं याति जलशायी जगद्गुरुः॥३३॥
यथा शक्रस्य संतुष्टः पूर्वमेव द्विजोत्तमाः॥
अशून्यं शयनं तस्य भवेज्जन्मनि जन्मनि॥३४॥
अष्टमासकृतं पापमज्ञानाज्ज्ञानतोऽपि वा॥
अशून्यशयनात्सर्वं व्रतान्नाशं नयेत्पुमान्॥३५॥
पुत्रहीना च या नारी काकवन्ध्या च या भवेत्॥
विधवा या करोत्येतद्व्रतमेवं समाहिता॥
तस्यास्तुष्टो जगन्नाथः कायशुद्धिं प्रयच्छति॥३६॥
न तस्या जायते बुद्धिः कदाचित्पापसंभवा॥
न कामोपहता बुद्धिः कथंचिदपि जायते॥३७॥
कुमारिकापि या सम्यग्व्रतमेतत्समाचरेत्॥
सा पतिं लभते विप्राः कुलीनं रूपसंयुतम्॥३८॥
निष्कामः कुरुते यस्तु व्रतमेतत्समाहितः॥
चातुर्मास्युद्भवानां च नियमानां फलं लभेत्॥३९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने अशून्यशयनव्रतमाहात्म्यवर्णनं नाम पञ्चषष्ट्युत्तरद्विशततमोऽध्यायः॥२६५॥