सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २६४

विकिस्रोतः तः

ब्रह्मोवाच॥
कार्तिकेयश्च पार्वत्याः प्राणेभ्यश्चातिवल्लभः॥
संक्रीडति समीपस्थो नानाचेष्टाभिरुद्यतः॥१॥
रक्तकांतिर्महातेजाः षण्मुखोऽद्भुत विक्रमः॥
क्वचिद्गायति चात्यर्थं क्वचिन्नृत्यति स्वेच्छया॥२॥
मातरं पितरं दृष्ट्वा विनयावनतः क्वचित्॥
क्वचिच्च गंगापुलिने सिकतालेपनाकृतिः॥३॥
गणैः सह विचिन्वानो विविधान्वनभूरुहान्॥
एवं प्रक्रीडितस्तस्य दिवसाः पंच जज्ञिरे॥४॥
ततो देवा महेन्द्राद्यास्तारकत्रासविद्रुताः॥
स्तुवन्तः शंकरं सर्वे तारकस्य जिघृक्षया॥५॥
चक्रुः कुमारं सेनान्यं जाह्नव्यां स्वगणैः सुराः॥
सस्वनुर्देववाद्यानि पुष्पवर्षं पपात ह॥६॥
वह्निस्तु स्वां ददौ शक्तिं हिमवान्वाहनं ददौ॥
सर्वदेवसमुद्भूतगणकोटिसमावृतः॥७॥
प्रणम्य मुनिसंघेभ्यः प्रययौ रिपुविग्रहे॥
ताम्रवत्यां नगर्यां च शंखं दध्मौ प्रतापवान्॥८॥
ततस्तारकसैन्यस्य दैत्यदानवकोटयः॥
समाजग्मुस्तस्य पुराच्छंखनादभयातुराः॥९॥
स्ववाहनसमारूढाः संयता बलदर्पिताः॥
देवाः सर्वेऽपि युयुधुः स्कन्दतेजोपबृंहिताः॥६.२६४.१०॥
तदा दानवसैन्यानि निजघान च सर्वशः॥
विष्णुचक्रेण ते छिन्नाः पेतुरुर्व्यां सहस्रशः॥११॥
ततो भग्नाश्च शतशो दानवा निहतास्तदा॥
नद्यः शोणितसंभूता जाता बहुविधामुने॥१२॥
तद्भग्नं दानवबलं दृष्ट्वा स युयुधे रणे॥
बभंज सद्यो देवेशो बाणजालैरनेकधा॥१३॥
शक्तिनायुध्य गंगिन्याश्चिक्षेप कृष्णप्रेरिताः॥
सरथं च सयंतारं चक्रे तं भस्मसात्क्षणात्॥१४॥
शेषाः पातालमगमन्हतं दृष्ट्वाऽथ तारकम्॥
ततो देवगणाः सर्वे शसंसुस्तस्य विक्रमम्॥ १५॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिस्तथाऽभवत्॥
ते लब्धविजयाः सर्वे महेश्वरपुरोगमाः॥ १६॥
सिषिचुः सर्वदेवानां सेनापत्ये षडाननम्॥
ततः स्कंदं समालिंग्य पार्वती हर्षगद्गदा॥१७॥
मांगल्यानि तदा चक्रे स्वसखीभिः समावृता॥
एवं च तारकं हत्वा सप्तमेऽहनि बालकः॥१८॥
मंदराचलमासाद्य पितरौ संप्रहर्षयन्॥
उवाच सकलं स्कन्दः परमानंदनिर्भरः॥१९॥
काले दारक्रियां तस्य चिन्तयामास शंकरः॥
स उवाच प्रसन्नात्मा गांगेयममितद्युतिम्॥६.२६४.२०॥
प्राप्तः कालस्तव विभो पाणिग्रहणसंमतः॥
कुरु दारान्समासाद्य धर्मस्ते पुंससंमतः॥२१।
क्रीडस्व विविधैर्भोगैर्विमानैः सह कामिकैः॥
तच्छ्रुत्वा भगवान्स्कन्दः पितरं वाक्यमब्रवीत्॥
अहमेव हि सर्वत्र दृश्यः सर्वगणेषु च॥
दृश्यादृश्यपदार्थेषु किं गृह्णामि त्यजामि किम्॥२३॥
याः स्त्रियः सकला विश्वे पार्वत्या ताः समा हि मे॥
नराः सर्वेऽपि देवेश भवद्वत्तान्विलोकये॥२४॥
त्वं गुरुर्मां च रक्षस्व पुनर्नरकमज्जनात्॥
येन ज्ञातमिदं ज्ञानं त्वत्प्रसादादखंडितम्॥२५॥
पुनरेव महाघोरसंसाराब्धौ निमज्जये॥
दीपहस्तो यथा वस्तु दृष्ट्वा तत्करणं त्यजेत्॥२६॥
तथा ज्ञानमधिप्राप्य योगी त्यजति संसृतिम्॥
ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञ परमेश्वर॥२७॥
निवर्त्तंते क्रियाः सर्वा यस्य तं योगिनं विदुः॥
विषये लुब्धचित्तानां वनेऽपि जायते रतिः॥२८॥
सर्वत्र समदृष्टीनां गेहे मुक्तिर्हि शाश्वती॥
ज्ञानमेव महेशान मनुष्याणां सुदुर्लभम्॥२९॥
लब्धं ज्ञानं कथमपि पंडितो नैव पातयेत्॥
नाहमस्मि न माता मे न पिता न च बांधवः॥६.२६४.३०॥
ज्ञानं प्राप्य पृथक्भावमापन्नो भुवनेष्वहम्॥
प्राप्यं भागमिदं दैवात्प्रभावात्तव नार्हसि॥३१॥
वक्तुमेवंविधं वाक्यं मुमुक्षोर्मे न संशयः॥
यदाग्रहपरा देवी पुनःपुनरभाषत॥३२॥
तदा तौ पितरौ नत्वा गतोऽसौ क्रौञ्चपर्वतम्॥
तत्राश्रमे महापुण्ये चचार परमं तपः॥३३॥
जजाप परमं ब्रह्म द्वादशाक्षरबीजकम्॥
पूर्वं ध्यानेन सर्वाणि वशीकृत्येन्द्रियाणि च॥३४॥
ममतां संवियुज्याथ ज्ञानयोगमवाप्तवान्॥
सिद्धयस्तस्य निर्विघ्ना अणिमाद्या यदाऽऽगताः॥३५॥
तदा तासां गणा क्रुद्धो वाक्यमेतदुवाच ह॥
ममापि दु्ष्टभावेन यदि यूयमुपागताः॥३६॥
तदास्मत्समशांतानां नाभिभूतिं करिष्यथ॥
एवं ज्ञात्वा महेशोऽपि यतो ज्ञानमहोदयम्॥३७॥
मत्तोऽपि ज्ञानयोगेनस्कन्दोऽप्यधिकभावभृत्॥
विस्मयाविष्टहृदयः पार्वतीमनुशिष्टवान्॥३८॥
पुत्रशोकपरां चोमां शुभैर्वाक्यामृतैर्हरः॥
चातुर्मासस्य माहात्म्यं सर्वपापप्रणाशनम्॥३९॥
महेश्वरो वा मधुकैटभारिर्हृद्याश्रितो ध्यानमयोऽद्वितीयः॥
अभेदबुद्ध्या परमार्तिहंता रिपुः स एवातिप्रियो भवेत्ततः॥६.२६४.४०॥
सूत उवाच॥
एतद्वः कथितं विप्राश्चातुर्मास्यसमुद्भवम्॥
माहात्म्यं विस्तरेणैव किमन्यच्छ्रोतुमिच्छथ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तारकासुरवधो नाम चतुःषष्ट्युत्तरद्विशततमोऽध्यायः॥२६४॥