स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २६३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
यदि चेत्तामसं कर्म त्यक्त्वा कर्मसु जायते ॥
तदा ज्ञानमयो योगी जीवतां मोक्षदायकः ॥ १ ॥
यदा निर्ममता देहे यदा चित्तं सुनिर्मलम् ॥
यदा हरौ भक्तियोगस्तदा बन्धो न कर्मणा ॥ २ ॥
कुर्वन्नेव हि कर्माणि मनः शांतं नृणां यदा ॥
तदा योगमयी सिद्धिर्जायते नात्र संशयः ॥ ३ ॥
गुरुत्वं स्थानमसकृदनुभूय महामतिः ॥
जीवन्विष्णुत्वमासाद्य कर्म संगात्प्रमुच्यते ॥ ४ ॥
कर्माणि नित्यजातानि नित्यनैमित्तिकानि च ॥
इच्छया नैव सेव्यानि दुःखतापविवृद्धये ॥ ५ ॥
कर्मणामीशितारं च विष्णुं विद्धि महेश्वरि ॥
तस्मिन्संत्यज्य सर्वाणि संसारान्मुच्यतेऽखिलात् ॥ ६ ॥
एतदेव परं ज्ञानमेतदेव परं तपः ॥
एतदेव परं श्रेयो यत्कृष्णे कर्मणोऽर्पणम् ॥ ७ ॥
अयं हि निर्मलो योगो निर्गुणः स उदाहृतः ॥
तद्विष्णोः कर्म जनितं शुभत्व प्रतिपादनम् ॥ ८ ॥
तावद्भ्रमंति संसारे पितरः पिंडतत्पराः ॥
यावत्कुले भक्तियुतः स्तो नैव प्रजायते ९ ॥
तावद्द्विजानि गर्जंति तावद्गर्जति पातकम् ॥
तावत्तीर्थान्यनेकानि यावद्भक्तिं न विंदति ॥ ६.२६३.१० ॥
स एव ज्ञानवाँल्लोके योगिनां प्रथमो हि सः ॥
महाक्रतूनामाहर्ता हरिभक्तियुतो हि सः ॥ ११ ॥
निमिषं निर्नयन्मेषं योगः समभिजायते ॥
वाणीजये योगिनस्तु गोमेधश्च प्रकीर्तितः ॥ ॥ १२ ॥
मनसो विजये नित्यमश्वमेधफलं लभेत् ॥
कल्पनाविजयान्नित्यं यज्ञं सौत्रामणिं लभेत् ॥ १३ ॥
देहस्योत्सर्जनान्नित्यं नरयज्ञः प्रकीर्तितः ॥
पंचेंद्रियपशून्हत्वाऽनग्नौ शीर्षे च कुण्डले ॥ १४ ॥
गुरूपदेशविधिना ब्रह्मभूतत्वमश्नुते ॥
स योगी नियताहारोदण्डत्रितयधारकः ॥ १५ ॥
त्रिदंडी स तु विज्ञेयो ज्ञाते देवे निरंजने ॥
मनोदण्डः कर्मदण्डो वाग्दंडो यस्य योगिनः ॥ १६ ॥
स योगी ब्रह्मरूपेण जीवन्नेव समाप्यते ॥
अज्ञानी बाध्यते नित्यं कर्मभिर्बंधनात्मकैः ॥१७ ॥
कुर्वन्नेव हि कर्माणि ज्ञानी मुक्तिं प्रयाति हि ॥
यदा हि गुरुभिः स्थानं ब्रह्मणः प्रतिपाद्यते ॥ १८ ॥
तदैष मुक्तिमाप्नोति देहस्तिष्ठति केवलम् ॥
यावद्ब्रह्मफलावाप्त्यै प्रयाति पुरुषोत्तमः ॥ १९ ॥
तावत्कर्ममयी वृत्तिर्ब्रह्म वृक्षांतराभवेत् ॥
अवांतराणि पर्वाणि ज्ञेयानि मुनिभिः सदा ॥ ६.२६३.२० ॥
मोक्षमार्गो द्विजैश्चैव श्रुतिस्मृतिसमुच्चयात् ॥
मोक्षोऽयं नगराकारश्चतुर्द्वार समाकुलः ॥ २१ ॥
द्वारपालास्तत्र नित्यं चत्वारस्तु शमादयः ॥
त एव प्रथमं सेव्या मनुजैर्माक्षदायकाः ॥ २२ ॥
शमश्च सद्विचारश्च संतोषः साधुसंगमः ॥
एते वै हस्तगा यस्य तस्य सिद्धिर्न दूरतः ॥ २३ ॥
योगसिद्धिर्विष्णुभक्त्या सद्धर्माचरणेन च ॥
प्राप्यते मनुजैर्देवि ह्येतज्ज्ञानमलं विदुः ॥ २४ ॥
ज्ञानार्थं च भ्रमन्मर्त्यो विद्यास्थानेषु सर्वशः ॥
सद्यो ज्ञानं सद्गुरुतो दीपार्चिरिव निर्मला ॥ २५ ॥
मुहूर्तमात्रमपि यो लयं चिंत यति ध्रुवम् ॥
तस्य पापसहस्राणि विलयं यांति तत्क्षणात् ॥ २६ ॥
रागद्वेषौ परित्यज्य क्रोधलोभविवर्जितः ॥
सर्वत्र समदर्शी च विष्णुभक्तस्य दर्शनम् ॥ २७ ॥
सर्वेषामपि जीवानां दया यस्य हृदि स्थिरा ॥
शौचाचारसमायुक्तो योगी दुःखं न विंदति ॥ २८ १।
मायाधिपटलैर्हीनो मिथ्या वस्तुविरागवान् ॥
कुसंसर्गविहीनश्च योगसिद्धेश्च लक्षणम् ॥ २९ ॥
ममतावह्निसंयोगो नराणां तापदायकः ॥
उत्पन्नः शमनं तस्य योगिनां शांतिचारणम् ॥ ६.२६३.३० ॥
इन्द्रियाणामथोद्धृत्य मनसैव निषेधयेत् ॥
यथा लोहेन लोहं च घर्षितं तीक्ष्णतां व्रजेत् ॥ ३१ ॥
बुद्धिर्हि द्विविधा देहे देया ग्राह्या विशुद्धिदा ॥
संसारविषया त्याज्या परब्रह्मणि सा शुभा ॥ ३२ ॥
अहंकारो यथा देवि पापपुण्यप्रदायकः ॥
ज्ञाते तत्त्वे शुभफले कृतः संधाय नान्यथा ॥ ३३ ॥
श्यामलं च उपस्थं च रूपातीतान्नराः शिवम् ॥
हृदिस्थं सिरशिस्थं च द्वयं बद्धविमुक्तये ॥ ॥ ३४ ॥
एतदक्षरमव्यकममृतं सकलं तव ॥
रूपरूपविष्णुरूपरूपमूर्तिनिवेदितम् ॥ ३६ ॥
एवं ज्ञात्वा विमुच्येत योगी संसारबन्धनात् ॥
गुरूपदेशाद्गृहस्थो लभते नान्यथा क्वचित् ॥३६॥
यदा गुरुः प्रसन्नात्मा तस्य विश्वं प्रसीदति ॥
गुरुश्च तोषितो येन संतुष्टाः पितृदेवताः ॥ ३७ ॥
गुरूपदेशः प्रतिमा सद्विचारः समे मनः ॥
क्रिया च ज्ञानसहिता मोक्षसिद्धेर्हि लक्षणम् [। ३८ ॥
क्रियापतिर्विष्णुरेव स्वयमेव हि निष्क्रि यः ॥
स च प्राणविरूपाय द्वादशाक्षरवीजकः ॥३९॥
द्वादशाक्षरकं चक्रं सर्वपापनिबर्हणम् ॥
दुष्टानां दमनं चैव परब्रह्मप्रदायकम् ॥ ६.२६३.४० ॥
एतदेव परं ब्रह्म द्वादशाक्षररूपधृक् ॥
मया प्रकाशितं देवि स्कन्दे हि विमलं तव ॥४१॥
एतत्सारं योगिनां ध्यानरूपं भक्तिग्राह्यं श्रद्धया चिन्तयेच्च ॥
चातुर्मास्ये जन्मकोट्यां च जातं पापं दग्ध्वा मुक्तिदः कैटभारिः ॥ ४२ ॥
॥ब्रह्मोवाच ॥ ॥
एतस्मिन्नगरे तत्र क्षीरसागरमध्यतः ॥
उज्जहार विमानाग्रे तेजोभाराभिपीडितः ॥ ४३ ॥
उरो बाहुकृतिं कुर्वन्सान्निध्यं समुपागतः ॥
महामत्स्योऽज्ञातपूर्वः सन्निधानेऽनहंकृतिः ॥ ४४ ॥
हुंकारगर्भे मत्स्यं च दृष्ट्वा तं स महेश्वरः ॥
तेजसा स्तंभयामास वाक्यमेतदुवाच ह ॥ ४५ ॥
कस्त्वं मत्स्योदरस्थश्च देवो यक्षोऽथ मानुषः ॥
कथं जीवसि देहांतर्गतो मम वद प्रभो ॥ ४६ ॥
॥ मत्स्य उवाच ॥ ॥
अहं मत्स्योदरे क्षिप्तः समुद्रे क्षीरसंभवे ॥
मात्रा तु पितृवाक्येन नायं मम कुलान्वितः ॥४७॥
कुलक्षयभयात्तेन जातं स्वकुलनाशनम् ॥
गंडांतयोगजनितो बालो न गृहकर्मकृत् ॥ ४८ ॥
इति मात्रा दुःखितया निरस्तः शृणु वंशजः ॥
झषेणापि गृहीतोऽस्मि कालो मेऽत्र महानभूत् ॥ ४९ ॥
तव वाक्यामृतैरेभिर्ज्ञानयोगो महानभूत् ॥
तेन त्वं सकलो ज्ञातो मया मूर्तोऽथ मूर्त्तगः। ॥६.२६३.५०॥।
अनुज्ञां मम देवेश देहि निष्क्रमणाय च ॥
यथाऽहं पितृपो ब्रह्मन्भवान्याश्चापि लक्ष्यते ॥ ५१ ॥
॥ हर उवाच ॥ ॥ विप्रोऽसि सुतरूपोऽसि पूज्योस्यासि बभाषतः ॥
बहिर्निष्क्रम वेगेन स्तंभितोऽसि महाझषः ॥ ५२ ॥
ततोऽसौ शिरसा जात उत्क्लेशान्मत्स्ययोजितः ॥
ततो हि विकृतं वक्त्रं क्षणाद्बहिरुपागतः ॥ ५३ ॥
रूपवान्प्रतिमायुक्तो मत्स्यगंधेन संयुतः ॥
सोमकांतिसमस्तत्र ह्यभवद्दिव्यगंधभाक् ॥ ८५४ ॥
उमापि प्रणतं चामुं सुतं स्वोत्संगभाजनम् ॥
चकार तस्य नामापि हरः परमहर्षितः ॥ ८९५ ॥
यस्मान्मत्स्योदराज्जातो योगिनां प्रवरो ह्ययम् ॥
तस्मात्तु मत्स्य नाथेति लोके ख्यातो भविष्यति ॥ ५६ ॥
अच्छेद्यः स्यान्नरतनुर्ज्ञानयोगस्य पारगः ॥
निर्मत्सरोऽपि निर्द्वंद्वो निराशो ब्रह्मसेवकः ॥ ५७ ॥
जीवन्मुक्तश्च भविता भुवनानि चतुर्दश ॥
इत्युक्तश्च महेशानं प्रणमंश्च पुनःपुनः ॥
महेश्वरेण सहितो मंदराचलमाययौ ॥ ५८ ॥
॥ ब्रह्मोवाच ॥ ॥
कृत्वा प्रदक्षिणं देवीं स्कन्दमालिंग्य सोऽगमत् ॥ ५९ ॥
ततः सा पार्वती हृष्टा प्राप्य ज्ञानमनुत्तमम् ॥
एवं सा परमां सिद्धिं प्रणवस्यप्रभा जनम् ॥ ६.२६३.६० ॥
सा प्राप्य जगतां माता द्वादशाक्षरजांबुना ॥
इमां मत्स्येन्द्रनाथस्य चोत्पत्तिं यः शृणोति च ॥ ६१ ॥
चातुर्मास्ये विशेषेण सोऽश्वमेधफलं लभेत्॥६२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाह्स्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये मत्स्येन्द्रनाथोत्पत्तिकथनं नाम त्रिषष्ट्युत्तरद्विशततमोऽध्यायः॥२६३॥