स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २६२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ पार्वत्युवाच ॥ ॥
ध्यानयोगमहं प्राप्य ज्ञानयोगमवाप्नुयाम् ॥
तथा कुरुष्व देवेश यथाहममरी भव ।। १ ॥
॥ ईश्वर उवाच ॥ ।१
प्रत्युक्तोऽयं मंत्रराजो द्वादशाक्षरसंज्ञितः ॥
जप्तव्यः सुकुमारांगि वेदसारः सनातनः ॥ २ ॥
प्रणवः सर्ववेदाद्यः सर्वब्रह्मांडयाजकः ।।
प्रथमः सर्वकार्येषु सर्वसिद्धिप्रदायकः ॥ ३ ॥
सितवर्णो मधुच्छंदा ऋषिर्ब्रह्मा तु देवता ।।
परमात्मा तु गायत्री नियोगः सर्वकर्मसु ।। ४ ॥
एतद्ब्रह्ममयं बीजं विश्वमत्र समन्वितम् १।
वेदवेदांग तत्त्वाख्यं सदसदूपमव्ययम् ॥ ५ ॥
नकारः पीतवर्णस्तु जलबीजः सनातनः ॥
बीजं पृथ्वी मनश्छन्दो विषहा विनियोगतः ॥ ६ ॥
मोकारः पृथिवी बीजो विश्वामित्रसमन्वितः ॥
रक्तवर्णो महातेजा धनदो विनियोजितः । ७ ॥
भकारः पंचवर्णस्तु जलबीजः सनातनः ॥
मरीचिना समायुक्तः पूजितः सर्वभोगदः ॥ ८ ॥
गकारो हेमरक्ताभो भरद्वाजसमन्वितः ॥
वायुबीजो विनिर्योगं कुर्वतामादिभोगदः ॥। ९ ॥
वकारः कुन्दधवलो व्योमबीजो महाबलः ॥
ऋषिमंत्रिपुरस्कृत्य योजितो मोक्षदायकः ॥ ६.२६२.१० ।१
तकारो विद्युद्विकारः सोमबीजं महत्स्मृतम् ॥
अंगिरावर्द्धमूलं च वर्जितं कर्मका मिकम् १। ११ ॥
वाकारो धूम्रवर्णश्च सूर्यबीजं मनोजवम् ॥
पुलस्त्यर्षिसमायुक्तं नियुक्तं सर्वसौख्यदम् ।१ १२ ॥
सुकारश्चाक्षरो नित्यं जपाकुसुम भास्वरः ॥
मनो बीजं दुर्विषह्यं पुलहाश्रितमर्थिदम् ॥ १३ ॥
देकाराक्षरकं बीजं हंसरूपं च कर्बुरम् ।१ ।
सिद्धिबीजं महासत्त्वं क्रतौ क्रतुनियोजितम् ॥ १४ ॥
वाकारो निर्मलो नित्यं यजमानस्तु बीजभृत् ॥
प्रचेताश्रियमाश्रेयं मोक्षे मोक्षप्रदायकम् ॥ १५ ॥
यकारस्य महाबीजं पिंगवर्णश्च खेचरी ॥
भूचरी च महासिद्धिः सर्वदा भूविचिन्तनम् ॥ १६ ॥
भृगुयन्त्रे समाश्रांतिनियोगे सर्वकर्मकृत् ॥
गायत्रीछंद एतेषां देहन्यासक्रमो भवेत् ॥ १७ ॥
ओंकारं सर्वदा न्यस्यन्नकारं पादयोर्द्वयोः ॥
मोकारं गुह्यदेशे तु भकारं नाभिपंकजे ॥ १८ ॥
गकारं हृदये न्यस्य वकारः कण्ठ मध्यगः ॥
तेकारं दक्षिणे हस्ते वाकारो वामहस्तगः ॥ १९ ॥
सुकारं मुखजिह्वायां देकारः कर्णयोर्द्वयोः ॥
वाकारश्चक्षुषोर्द्वन्द्वे यकारं मस्तके न्यसेत् ॥ ६.२६२.२० ॥
लिंगमुद्रा योनिमुद्रा धेनुमुद्रा तथा त्रयम् ॥
सकलं कृतमेतद्धि मंत्ररूपे बिजाक्षरम् ॥ २१ ॥
योजयेत्प्रत्यहं देवि न स पापैः प्रलिप्यते ॥
एतद्द्वादशलिंगारं कूर्मस्थं द्वादशाक्षरम् ॥ २२ ॥
शालग्रामशिलाश्चैव द्वादशैव हि पूजिताः ॥
ताभिः सहाकरैरेभिः प्रत्यक्षैः सह संसदि ॥ २३ ॥
यथावर्णमनुध्यानैर्मुनिबीजसमन्वितैः ॥
विनियोगेन सहितैश्छन्दोभिः समलंकृतैः ॥ २४ ॥
ध्यानैजपैः पूजितैश्च भक्तानां मुनिसत्तम ॥
मोक्षो भवति बन्धेभ्यः कर्मजेभ्यो न संशयः ॥ २५८ ॥
अयं हि ध्यानकर्माख्यो योगो दुष्प्राप्य एव हि ॥
ध्यानयोगं पुनर्वच्मि शृणुष्वैकाग्रमानसा ॥ २६ ॥
ध्यानयोगेन पापानां क्षयो भवति नान्यथा ॥
जपध्यानमयो योगः कर्मयोगो न संशयः ॥ २७ ॥
शब्दब्रह्मसमुद्भूतो वेदेन द्वादशाक्षरः ॥
ध्यानेन सर्वमाप्नोति ध्यानेनाप्नोति शुद्धताम् ॥ २८ ॥
ध्यानेन परमं ब्रह्म मूर्त्तौ योगस्तु ध्यानजः ॥
सावलम्बो ध्यानयोगो यन्नारायणदर्शनम् ॥ २९॥
द्वितीयो निखिलालम्बो ज्ञानयोगेन कीर्तितः ॥
अरूपमप्रमेयं यत्सर्वकायं महः सदा ॥ ६.२६२.३० ॥
तडित्कोटिसमप्रख्यं सदोदितमखंडितम् ॥
निष्कलं सकलं वापि निरंजनमयं वियत् ॥ ३१ ॥
तत्स्वरूपं भोगरूपं तुर्यातीतमनोपमम् ॥
विभ्रांतकरणं मूर्तं प्रकृतिस्थं च शाश्वतम्॥ ३२ ॥
दृश्यादृश्यमजं चैव वैराजं सततोज्ज्वलम् ॥
बहुलं सर्वजं धर्म्यं निर्विकल्पमनीश्वरम् ॥ ३३ ॥
अगोत्रं वरणं वापि ब्रह्मांडशतकारणम् ॥
निरीहं निर्ममं बुद्धिशून्यरूपं च निर्मलम् ॥ ३४ ॥
तदीशरूपं निर्देहं निर्द्वंद्वं साक्षिमात्रकम् ॥
शुद्धस्फटिकसंकाशं ध्यातृध्येयविवर्जितम् ॥
नोपमेयमगाधं त्वं स्वीकुरुष्व स्वतेजसा ॥ ३५ ॥
॥ पार्वत्युवाच ॥ ॥
तत्कथं प्राप्यते सम्यग्ज्ञानं योगिस्वरूपिणम्॥
नारायणममूर्तं च स्थानं तस्य वद प्रभो ॥ ३६ ॥
॥ ईश्वर उवाच ॥ ॥
शिरः प्रधानं गात्रेषु शिरसा धार्यते महान्॥ ॥ ३७।।
शिरसा पूजितो देवः पूजितं सकलं जगत् ॥
शिरसा धार्यते योगः शिरसा ध्रियते बलम् ॥ ३८ ॥
शिरसा ध्रियते तेजो जीवितं शिरसि स्थितम् ॥
सूर्यः शिरो ह्यमूर्त्तस्य मूर्तस्यापि तथैव च ॥ ३९ ॥
उरस्तु पृथिवीलोकः पादश्चैव रसातलम् ॥
अयं ब्रह्मांडरूपे च मूर्त्तामूर्त्तस्वरूपतः ॥ ६.२६२.४० ॥
विष्णुरेव ब्रह्मरूपो ज्ञानयोगाश्रयः स्वयम् ॥
सृजते सर्वभूतानि पालयत्यपि सर्वशः ॥ ४१ ॥
विनाशयति सर्वं हि सर्वदेवमयो ह्ययम् ॥
सर्वमासेष्वाधिपत्यं यस्य विष्णोः सनातनम् ॥ ४२ ॥
तस्मात्सर्वेषु मासेषु सर्वेषु दिवसेष्वपि ॥
सर्वेषु यामकालेषु संस्मरन्मुच्यते हरिम् ॥ ४३ ॥
चातुर्मास्ये विशेषेण ध्यानमात्रात्प्रमुच्यते ॥
अमूर्त्तसेवनं गंगातीर्थध्यानाद्वरं परम् ॥ ४४ ॥
सर्वदानोत्तरं चैव चातुर्मास्ये न संशयः ॥
सर्वमासकृतं पापं चातुर्मास्ये शुभाशुभम् ॥ ४५ ॥
अक्षय्यं तद्भवेद्देवि नात्र कार्या विचारणा ॥
तस्मात्सर्वप्रयत्नेन ज्ञानयोगो बहूत्तमः ॥ ॥ ४६ ॥
सेवितो विष्णुरूपेण ब्रह्ममोक्षप्रदायकः ॥
शृणुष्वावहिता भूत्वा मूर्त्तामूर्ते स्थितिं शुभे ॥ ४०७ ॥
न कथ्येयं यस्य कस्य सुतस्याप्य परस्य च ॥
अदांतायाथ दुष्टाय चलचित्ताय दांभिके ॥ ४८ ॥
स्ववाक्च्युताय निंद्याय न वाच्या योगजा कथा ॥
नित्यभक्ताय दांताय शमादि गुणिने तथा ॥ ४९ ॥ ।
विष्णुभक्ताय दातव्या शूद्रायापि द्विजन्मने ॥
अभक्तायाप्यशुचये ब्रह्मस्थानं न कथ्यते ॥ ६.२६२.५० ॥
मद्भक्त्या योगसिद्धिं त्वं गृहाणाशु तपोधने ॥
अभूतं ज्ञानगम्यं तं विद्धि नारायणं परम् ॥ ५१ ॥
नादरूपेण शिरसि तिष्ठंतं सर्वदेहिनाम् ॥
स एव जीवशिरसि वर्त्तते सूर्यबिंबवत् ॥ ५२ ॥
सदोदितः सूक्ष्मरूपो मूर्त्तो मूर्त्या प्रणीयते ॥
अभ्यासेन सदा देवि प्राप्यते परमात्मकः ॥ ५३ ॥
शरीरे सकला देवा योगिनो निवसंति हि ॥
कर्णे तु दक्षिणे नद्यो निवसंति तथाऽपराः ॥ ५४ ॥
हृदये चेश्वरः शंभुर्नाभौ ब्रह्मा सनातनः ॥
पृथ्वी पादतलाग्रे जलं सर्वगतं तथा ॥ ५५ ॥
तेजो वायुस्तथाऽऽकाशं विद्यते भालमध्यतः॥
हस्ते च पंच तीर्थानि दक्षिणे नात्र संशयः ॥ ५६ ॥
सूर्यो यद्दक्षिणं नेत्रं चन्द्रो वाममुदाहृतम् ॥
भौमश्चैव बुधश्चैव नासिके द्वे उदाहृते ॥ ५७ ॥
गुरुश्च दक्षिणे कर्णे वामकर्णे तथा भृगुः ॥
मुखे शनैश्चरः प्रोक्तो गुदे राहुः प्रकीर्तितः ॥ ५८ ॥
केतुरिंद्रियगः प्रोक्तो ग्रहाः सर्वे शरीरगाः ॥
योगिनो देहमासाद्य भुवनानि चतुर्दश ॥ ५९ ॥
प्रवर्त्तंते सदा देवि तस्माद्योगं सदाभ्यसेत् ॥
चातुर्मास्ये विशेषेण योगी पापं निकृन्तति ॥ ६.२६२.६० ॥
मुहूर्त्तमपि यो योगी मस्तके धारयेन्मनः ॥
कर्णै पिधाय पापेभ्यो मुच्यतेऽसौ न संशयः ॥ ६१ ॥
अंतरं नैव पश्यामि विष्णोर्योगपरस्य वा ॥
एकोऽपि योगी यद्गेहे ग्रासमात्रं भुनक्ति च ॥ ६२ ॥
कुलानि त्रीणि सोऽवश्यं तारयेदात्मना सह ॥
यदि विप्रो भवेद्योगी सोऽवश्यं दर्शनादपि ॥ ६३ ॥
सर्वेषां प्राणिनां देवि पापराशि निषूदकः ॥
सक्रियो ब्रह्मनिरतः सच्छूद्रो योगभाग्यदि ॥ ६४ ॥
भवेत्सद्गुरुभक्तो वा सोऽप्यमूर्त्तफलं लभेत् ॥
यो योगी नियताहारः परब्रह्म समाधिमान् ॥ ६५ ॥
चातुर्मास्ये विशेषेण हरौ स लयभाग्भवेत् ॥
यथा सिद्धकरस्पर्शाल्लोहं भवति कांचनम् ॥ ६६ ॥
तथा मूर्त्तं हरिप्रीत्या मनुष्यो लयमाव्रजेत् ॥
यथा मार्गजलं गंगापतितं त्रिदशैरपि ॥ ६७ ॥
सेवितं सर्वफलदं तथा योगी विमुक्तिदः ॥
यथा गोमयमात्रेण वह्निर्दीप्यति सर्वदा ॥ ६८ ॥
देवतानां मुखं तद्धि कीर्त्यते याज्ञिकैः सदा ॥
एवं योगी सदाऽभ्यासाज्जायते मोक्षभाजनम् ॥ ६९ ॥
योगोऽयं सेव्यते देवि ज्ञानासिद्धिप्रदः सदा ॥
सनकादिभिराचार्यैर्मुमुक्षुभिरधीश्वरैः ॥ ६.२६२.७० ॥
प्रथमं ज्ञानसंपत्तिर्जायते योगिनां सदा ॥
तेषां गृहीतमात्रस्तु योगी भवति पार्वति ॥ ७१ ॥
ततस्तु सिद्धयस्तस्य त्वणिमाद्याः पुरोगताः ॥
भवन्ति तत्रापि मनो न दद्याद्योगिनां वरः ॥ ७२ ॥
सर्वदानक्रतुभवं पुण्यं भवति योगतः ॥
योगात्सकलकामाप्तिर्न योगाद्भुवि प्राप्यते ॥ ७३ ॥
योगान्न हृदयग्रंथिर्न योगान्ममता रिपुः ॥
न योगसिद्धस्य मनो हर्त्तुं केनापि शक्यते ॥ ७४ ॥
स एव विमलो योगी यच्चित्तं शिरसि स्थितम् ॥
स्थिरीभूतव्यथं नित्यं दशमद्वारसंपुटे ॥ ७५ ॥
कणौं पिधाय मर्त्यस्य नादरूपं विचिन्वतः ॥
तदेव प्रणवस्याग्रं तदेव ब्रह्म शाश्वतम् ॥ ७६ ॥
तदेवानंतरूपाख्यं तदेवामृतमुत्तमम् ॥
घ्राणवायौ प्रघोषोऽयं जठराग्नेर्महत्पदम् ॥ ७७ ॥
पंचभूतं निवासं यज्ज्ञानरूपमिदं पदम् ॥
पदं प्राप्य विमुक्तिः स्याज्जन्मसंसारबंधनात् ॥ ७८ ॥
यदाप्तिर्दुलभा लोके योगसिद्धिप्रदायिका ॥ ७९ ॥
एवं ब्रह्ममयं विभाति सकलं विश्वं चरं स्थावरं विज्ञानाख्यमिदं पदं स भगवान्विष्णुः स्वयं व्यापकः ॥
ज्ञात्वा तं शिरसि स्थितं बहुवरं योगेश्वराणां परं प्राणी मुंचति सर्पवज्जगतिजां निर्मोकमायाकृतिम् ॥ ६.२६२.८० ॥
इति श्रीस्कांदे महापुराण एकाशीति साहरस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये ज्ञानयोगकथनं नाम द्विषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६२ ॥