स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २६१

विकिस्रोतः तः
Jump to navigation Jump to search

॥ नारद उवाच ॥ ॥
कथं नित्या भगवती हरपत्नी यशस्विनी ॥
योगसिद्धिं सुमहतीं प्राप मासचतुष्टये ॥ १ ॥
मन्त्रराजमिमं जप्त्वा द्वादशाक्षरसंभवम् ॥
एतन्मे विस्तरेण त्वं कथयस्व यथातथम्॥२॥ ॥
।। ब्रह्मोवाच ॥ ॥
चातुर्मास्ये हरौ सुप्ते पार्वती नियतव्रता ॥
मनसा कर्मणा वाचा हरिभक्तिपरायणा ॥ ३ ॥
चारुशृंगे पितुर्नित्यं तिष्ठंती तपसि स्थिता ॥
देवद्विजाग्निगोऽश्वत्थातिथिपूजापरायणा ॥ ४ ॥
चातुर्मास्येऽथ संप्राप्ते विमले हरिवासरे ॥
जजाप परमं मंत्रं यथादिष्टं पिनाकिना ॥ ५ ॥
शंखचक्रधरो विष्णुश्चतुर्हस्तः किरीटधृक् ॥
मेघश्यामोंऽबुजाक्षश्च सूर्यकोटिसमप्रभः ॥ ६ ।।
गरुडाधिष्ठितो हृष्टो वसन्व्याप्य जगत्त्रयम् ॥
श्रीवत्सकौस्तुभयुतः पीतकौशेयवस्त्रकः ॥७॥
सर्वाभरणशोभाभिरभिदीप्तमहावपुः ॥
बभाषे पार्वतीं विष्णुः प्रसन्नवदनः शुभाम्॥
देवि तुष्टो ऽस्मि भद्रं ते कथयस्व तवेप्सितम् ॥ ८ ॥
॥ पार्वत्युवाच ॥ ॥
तज्ज्ञानममलं देहि येन नावर्त्तनं भवेत् ॥
इत्युक्तः स महाविष्णुः प्रत्युवाच हरप्रियाम् ॥९॥
स एव देवदेवेशस्तव वक्ष्यत्यसंशयम् ॥
स एव भगवान्साक्षी देहांतरबहिःस्थितः ॥६.२६१.१०॥।
विश्वस्रष्टा च गोप्ता च पवित्राणां च पावनः ॥
अनादिनिधनो धर्मो धर्मादीनां प्रभुर्हि सः ॥ ११ ॥
अक्षरत्रयसेव्यं यत्सकलं ब्रह्म एव सः ॥
मूर्त्तामूर्त्तस्वरूपेण योऽजो जन्मधरो हि सः ॥ १२ ॥
ममाधिकारो नैवास्ति वक्तुं तव न संशयः ॥
इत्युक्त्वा भगवानीशो विरराम प्रहृष्टवान् ॥१३॥
एतस्मिन्नंतरे शंभुर्गिरिजाश्रममभ्यगात् ॥
सर्वभूत गणैर्युक्तो विमाने सार्वकामिके ॥ १४ ॥
तया वै भगवान्देवः पूजितः परमेश्वरः ॥
सखीनामपि प्रत्यक्षमाश्चर्यं समजायत ॥ १५ ॥
स्तुत्वाऽथ तं महादेवं विष्णुर्देहे लयं ययौ ॥
अथोवाच महेशानः पार्वतीं परमेश्वरः ॥ १६ ॥
विमानवरमारुह्य तुष्टोऽहं तव सुव्रते ॥
गत्वैकांतप्रदेशं ते कथये परमं महः ॥ १७ ॥
एवमुक्त्वा भगवतीं करे गृह्य मुदान्वितः ॥
विमानवरमारोप्य लीलया प्रययौ तदा ॥ १९ ॥
नानाधातुमयानद्रीन्नानारत्नविचित्रितान् ॥
नदीनिर्झरकुंजांश्च नदान्कोकिलकूजितान् ॥१९॥
अखातान्देवखातांश्च गंगाद्याः सरितस्तथा ॥
सौगंधिकांश्च कल्हारान्सहस्रदलपिंजरान् ॥६.२६१.२॥।
दर्शन्यकर्णिकारांश्च कोविदारान्महाद्रुमान् ॥
तालांस्तमालान्हिंतालान्प्रियंगून्पनसानपि ॥ २१ ॥
 तिलकान्बकुलांश्चैव बहूनपि च पुष्पितान् ॥
क्षेत्राणि कलनाभानि पिञ्जराणि विदर्शयन् ॥ २२ ॥
ययौ देवनदीतीरे गतं शरवणं महत् ॥
फुल्लकाशं स्वर्णमयं शरस्तंबगणान्वितम् ॥ २३ ॥
हेम भूमिविभागस्थं वह्निकांतिमृगद्विजम् ॥
तत्र तीरगतानां च मुनीनामूर्ध्वरेतसाम् ॥ २४ ॥
आश्रमान्स विमानाग्रे तिष्ठन्पत्न्यै प्रदर्शयत् ॥
षट्कृत्तिकाश्च ददृशे पार्वती वनसन्निधौ ॥ २५ ॥
स्नाताः स्वलंकृताश्चन्द्रपत्न्यस्ता विरजांबराः ॥
ऊचुस्ता योजितकरा केऽयं पुत्राय गम्यते ॥ २६ ॥
तत्कथ्यतां महाभागे स च ते दर्शनं गतः ॥ २७ ॥
॥ पार्वत्युवाच ॥ ॥
मम भाग्यवशात्पुत्रः कथमुत्संगमाहरेत् ॥
न ह्यभाग्यवशात्पुंसां क्वापि सौख्यं निरन्तरम्॥२८॥
सुतनाम्नाप्यहं दृष्ट्वा भवतीनां च दर्शनात्॥
किमर्थमिह संप्राप्ताः कथ्यतामविलंबितम्॥२९॥
कृत्तिका ऊचुः॥
वयं तव सुतं न्यस्तं प्रदातुमिह सुन्दरि॥
चातुर्मास्ये रवौ स्नातुमागता देवनिम्नगाम्॥६.२६१.३०॥।
पार्वत्युवाच॥
न हास्यावसरः सख्यः सत्यमेव हि कथ्यताम्॥
एकांतावसरे हास्यं जायते चेतरेतरम्॥३१॥
कृत्तिका ऊचुः॥
 सत्यं वदामहे देवि तव त्रैलोक्यशोभिते॥
अस्य स्तंबसमूहस्य मध्यस्थं बालकं वृणु॥३२॥
 कृत्तिकानां वचः श्रुत्वा शंकिता पार्वती तदा॥
ददर्श बालं दीप्ताभं षण्मुखं दीप्तवर्चसम्॥३३॥
तडित्कोटिप्रतीकाशं रूपदिव्यश्रिया युतम्॥
वह्निपुत्रं च गांगेयं कार्तिकेयं महाबलम्॥ ३४॥
सा वत्सेति गृहीत्वा तं कुमारं पाणिना मुदा॥
विमानमध्यमादाय कृत्वोत्संगे ह्युवाच ह॥ ३५॥
चिरंजीव चिरं नन्द चिरं नंदय बाधवान्॥
इत्युक्त्वा गाढमालिंग्य मूर्ध्नि चाघ्राय तं सुतम्॥३६॥
संहृष्टा परमोदारं भास्वरं हृष्टमानसम्॥
कार्तिकेयो महाप्रेम्णा प्रणिपत्य महेश्वरम्॥३७॥
ततः प्रांजलिरव्यग्रः प्रहृष्टेनांतरात्मना॥
तद्विमानं ययौ शीघ्रं तीर्त्वा नदनदीपतीन्॥३८॥
जंबुद्वीपमतिक्रम्य लक्षयोजनमायतम्॥
ततः समुद्रं द्विगुणं लवणोदं तथैव च॥३९॥
उत्तरांश्च कुरून्नीत्वा विमानेनार्कतेजसा॥
समुद्रद्विगुणं द्वीपं कुशनाभेति कीर्तितम्॥६.२६१.४॥।
दिव्यलोकसमाक्रांतं दिव्यपर्वतसंकुलम्॥
इक्षूदाद्विगुणं द्वीपं तद्द्वीपाद्द्विगुणः पुनः॥४१॥
तमतिक्रम्य तत्सिन्धोर्दविगुणं क्रौंचसंज्ञितम्॥
ततोऽपि द्विगुणः सिन्धुः सुरोदो यक्षसेवितः॥४२॥
ततोऽपि द्विगुणं द्वीपं शाकद्वीपेतिसंज्ञितम्॥
अर्णवद्विगुणं तस्मादाज्यरूपं सुनिर्मितं॥४३॥
परमस्वादसंपूर्णं यत्र सिद्धाः समंततः॥
तस्माच्च द्विगुणं द्वीपं शाल्मलीवृक्षसंज्ञितम्॥४४॥
समुद्रो द्विगुणस्तत्र दधिमंडोदसंभवः॥
साध्या वसंति नियतं महत्तपसि संस्थिताः॥ ४५॥
ततोऽपि द्विगुणं द्वीपं प्लक्षनामेति विश्रुतम्॥
क्षीरोदो द्विगुणस्तत्र यत्रयत्रमहर्षयः॥
षडिमानि सुदिव्यानि भौमः स्वर्ग उदाहृतः॥
तत्र स्वर्णमयी भूमिस्तथा रजतसंयुता॥४७॥
दृष्टवा मधूपलस्वादैः सर्वकामप्रदायका॥
यत्र स्त्रीपुरुषाणां च कल्पवृक्षा गृहे स्थिताः॥४८॥
वासांसि भूषणानां च समूहान्हर्षयंति च॥
एतानि दक्षचिह्नानि द्वीपानि मुनिसत्तम॥४९॥
महेश्वरो विमानेन व्यतिक्रामद्विहायसा॥
प्लक्षद्वीपस्य च प्रांते द्विगुणः क्षीरसागरः॥६.२६१.५॥।
तन्मध्ये सुमह्द्वीपं श्वेतं नाम सुनिश्चितम्॥
रम्यकः पर्वतस्तत्र शतशृंगोमितद्रुमः॥५१॥
तस्य शृंगे महद्दिव्ये विमानं स्थापितं तदा॥
तदाऽमृतफलैर्वृक्षैः सेविते हेमवालुके॥५२॥
क्षीरच्छेदेन विहृते शिलातलसुसंवृते॥
विविक्ते सर्वसुभगे मणिरत्नसमन्विते॥५३॥
उमायै कथयामास देवदेवः पिनाकधृक् ॥
कार्तिकेयोऽपि शुश्राव गुह्याद्गुह्यतरं महत् ॥५४ ।
ध्यानयोगं मंत्ररूपं द्वादशाक्षरसंज्ञितम् ।१
प्रणवेन युतं साग्रं सरहस्यं श्रुतेः परम् ॥ ॥ ५५ ॥
॥ ईश्वर उवाच ॥ ॥
अक्षरत्रयसंयुक्तो मन्त्रोऽयं सकृदक्षरः ॥
माघमासहितश्चायममाक्षोहेनश्चायममायो विश्वपावनः ॥
विष्णुगम्यो विष्णु मध्यो मन्त्रत्रयसमन्वितः ॥
तुरीयकलयाऽशेषब्रह्मांडगणसेवितः ५७ ॥
निष्कामैर्मुनिभिः सेव्यो महाविद्यादिसेवितः ॥
नाभितः शिरसि व्याप्त अखण्डसुखदायकः। ९८८ ॥
ओंकारेति प्रियोक्तिस्ते महादुःखविनाशनः ॥
तं पूर्वं प्रणवं ध्यात्वा ज्ञानरूपं सुखाश्रयम् ॥ ५९ ॥
ज्ञात्वा सर्वगतं ब्रह्म देहशोधनतत्परः १।
पद्मासनपरो भूत्वा संपूज्य ज्ञानलोचनः ॥ ६.२६१.६० ॥
नेत्रे मुकुलिते कृत्वा शुरो करौ कृत्वा तु संहतौ ॥
चेतसि ध्यानरूपेण चिंतयेच्छिवमंगलम् ॥ ६१ ॥
तडित्कोटिप्रतीकाशं सूर्यकोटिसमच्छविम् ॥
चन्द्रलक्षसमच्छन्नं पुरुषं द्योतिताखिलम् १। ६२॥
मूर्त्तामूर्त्तवैराजं तं सदसद्रूप मव्यम् ॥
चिंतयित्वा विराड्रूपं न भूयःस्तनपो भवेत् ॥
चातुर्मास्ये सकृदपि ध्यानात्कल्मषसंक्षयः॥ ६३ ।१
एवं च मद्रूपमिदं मुरारेरमोघवीर्यं गुण तोप्यपारम् १।
विलोकयेद्योऽघविनाशनाय क्षणं प्रभुर्जन्मशतोद्भवाय ।। ६४ ।।
इति श्रीस्कांदे महापुराण एकाशीसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये ध्यानयोगोनामैकषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६१ ॥