स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २६०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ गालव उवाच ॥ ॥
इति ते कथितं सर्वं शालग्रामकथानकम् ॥
महेश्वरस्य चोत्पत्तिर्यथा लिंगत्वमाप सः ॥ १ ॥
तस्माद्वरं लिंगरूपं शालग्रामगतं हरिम् ॥
येऽर्चयंति नरा भक्त्या न तेषां दुःखयातनाः ॥ २ ॥
चातुर्मास्ये समायाते विशेषात्पूजयेच्च तौ ॥
अर्चितौ यावभेदेन स्वर्गमोक्षप्रदायकौ ॥ ३ ॥
देवौ हरिहरौ भक्त्या विप्रवह्निगवां गतौ ॥
येऽर्चयंति महाशूद्र तेषां मोक्षप्रदोहरिः ॥ ॥ ४ ॥
वेदोक्तं कारयेत्कर्म पूर्तेष्टं वेदतत्परः ॥
पंचायतनपूजा च सत्यवादो ह्यलोलता ॥ ५ ॥
विवेकादिगुणैर्युक्तः स शूद्रो याति सद्गतिम्॥
ब्रह्मचर्यं तपो नान्यद्द्वादशाक्षरचिंतनात् १। ६ ॥
मन्त्रैर्विना षोडश सोपचारैः कार्या सुपूजा नरकादिहंतुः ॥
यथा तथा वै गिरिजापतेश्च कार्या महा शूद्र महाघहंत्री ॥ ७ ॥
॥ ब्रह्मोवाच ।। ॥
एवं कथयतोरेषा रजनी क्षयमाययौ ॥
सच्छूद्रो गालवश्चैव शिष्यैश्च परिवारितः ॥ ८ ॥
स तेन पूजितो विप्रो ययौ शीघ्रं निजाश्रमम् ॥ ९ ॥
य इमं श्रुणुयान्मर्त्यो वाचयेत्पाठयेच्च वा ॥
श्लोकं वा सर्वमपि च तस्य पुण्यक्षयो न हि ॥ ६.२६०.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये पैजवनोपाख्याने षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६० ॥