सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २५७

विकिस्रोतः तः

॥ पार्वत्युवाच ॥ ॥
द्वादशाक्षरमाहात्म्यं मम विस्तरतो वद ॥
यथावर्णं यत्फलं च यथा च क्रियते मया ॥ १ ॥
॥ श्रीमहादेव उवाच ॥ ॥
द्विजातीनां सहोंकारसहितो द्वादशाक्षरः ॥
स्त्रीशूद्राणां नमस्कारपूर्वकः समुदाहृतः ॥ २ ॥
प्रकृतीनां रामनाम संमतो वा षडक्षरः ॥
सोऽपि प्रणवहीनः स्यात्पुराणस्मृतिनिर्णयः ॥ ३ ॥
क्रमोऽयं सर्ववर्णानां प्रकृतीनां सदैव हि ॥
क्रमेण रहितो यस्तु करोति मनुजो जपम् ॥
तस्य प्रकुप्यति विभुर्नरकादिप्रदायकः ॥ ४ ॥
॥ पार्वत्युवाच ॥ ॥
मया त्रिमात्रया स्वामिन्सेव्यते जगदीश्वरः ॥
रूपमस्य कथं जाने वचसामप्यगोचरम् ॥ ५ ॥
॥ ईश्वर उवाच । ॥
प्रणवस्याधिकारो न तवास्ति वरवर्णिनि ॥
नमो भगवते वासुदेवायेति जपः सदा ॥ ६ ॥
॥ पार्वत्युवाच ॥ ॥
यदि सप्रणवं दद्याद्द्वादशाक्षरचिंतनम ॥
प्रणवे नाधिकारो मे कथं भवति धूर्जटे । ७ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
प्रणवः सर्वदेवानामादिरेष प्रकीर्तितः ॥
ब्रह्मा विष्णुः शिवश्चैव वसंति दयितायुताः ॥ ८ ॥
तत्र सर्वाणि भूतानि सर्व तीर्थानि भागशः ॥
तिष्ठंति सर्वतीर्थानि कैवल्यं ब्रह्म एव यः ॥९॥
तस्य योग्या तदा देवि भविष्यसि यदा तपः ॥
चातुर्मास्ये हरिप्रीत्यै करिष्यसि शुभानने ॥ ६.२५७.१० ॥
तपसा प्राप्यते कामस्तपसा च महत्फलम् ॥
तपसा जायते सर्वं तत्तपः सुलभं नरैः ॥ ११ ॥
यशः सौभाग्यमतुलं क्षमासत्यादयो गुणाः ॥
सुलभं तपसा नित्यं तपश्चर्त्तुं न शक्यते ॥ १२ ॥
यदा हि तपसो वृद्धिस्तदा भक्तिर्हरौ भवेत् ॥
तदा हि तपसो हानिर्यदा भक्तिं विना कृतम् ॥ १३ ॥
तावत्तपांसि गर्जंति देहेऽस्मिन्सततं नृणाम् ॥
यदा विष्णुं स्मरेन्नित्यं जिह्वाग्रं पावनं भवेत् ॥ १४ ॥
यथा प्रदीपे ज्वलिते प्रणश्यति महत्तमः ॥
तथा हरेः कथायां च याति पापमनेकधा ॥ १५।।
तस्मात्पार्वति यत्नेन हरौ सुप्ते तपः कुरु ॥
चातुर्मास्येऽथ संप्राप्ते प्रणवेन समन्वितम् ॥ १६ ॥
विशुद्धहृदया भूत्वा मन्त्रराजमिमं जप। ॥
स एव भगवांस्तुष्टो द्वादशाक्षरसंयुतम् ॥ १७ ॥
प्रदास्यति परं ज्ञानं ब्रह्मरूपमखण्डितम् ।
ब्रह्मकल्पांतकोटीषु जप त्वं द्वादशाक्षरम् ॥ १८ ॥
मन्त्रराजं सप्रणवं ध्यायेत्सोऽपि न पश्यति ॥
इत्युक्ता सा तपोनिष्ठा तपश्चरितुमागता ॥ १९ ॥
हिमाचलस्य शिखरे चातुर्मास्ये समागते ॥
ब्रह्मचर्यव्रतपरा वसनत्रयसंयुता ॥ ६.२५७.२० ॥
प्रातर्मध्येऽपराह्ने च ध्यायन्ती हरिशंकरम् ॥
वपुर्यथा पुरा कृष्टं पूजने शंकरस्य च ॥ २१ ॥
सखीजन समायुक्ता पितुः शृंगे मनोहरे ॥
अतपत्सा विशालाक्षी क्षमादिगुणसंयुता ॥ २२ ॥
॥ गालव उवाच ॥ ॥
या हि योगीश्वरध्येया या वन्द्या विश्ववन्दिता ॥
जननी या च विश्वस्य साऽपि कामात्तपोगता ॥ २३ ॥
या हि प्रकृतिसद्रूपा तडित्कोटिसमप्रभा ॥
विरजा या स्वयं वन्द्या गुणातीताचरत्तपः ॥ २४ ॥
पृथ्व्यंबु तेजो वायुश्च गगनं यन्मयं विदुः ॥
मूलप्रकृतिरूपा या सा चकारोत्तम तपः ॥ २५ ॥
या स्थावरं जंगममाशु विश्वं व्याप्य स्थिता या प्रकृतेः पुरापि ॥
स्पृहादिरूपेण च तृप्तिदात्री देवे प्रसुप्ते तपसाऽऽप शुद्धिम् ॥ २६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये द्वादशाक्षरनाममहिमपूर्वकपार्वतीतपोवर्णनं नाम सप्तपंचाशदुत्तरशततमोऽध्यायः ।। २५७ ॥