स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २५४

विकिस्रोतः तः
Jump to navigation Jump to search

शूद्र उवाच ॥ ॥
इदमाश्चर्यरूपं मे प्रतिभाति वचस्तव ॥
यद्यपि स्यान्महाक्लेशो वदतस्तव सुव्रत ॥ १ ॥
तथापि मम भाग्येन मत्पुण्यैर्मद्गृहं गतः ॥
न तृप्ये त्वन्मुखांभोजाच्च्युतं वाक्यामृतं पुनः ॥ २ ॥
पिबन्गौरीकथाख्यानं विशेषगुणपूरितम् ॥
कथं महेश्वरो नृत्यं चकार सुरसंवृतः ॥ ३ ॥
चातुर्मास्ये कथं जातं कि ग्राह्यं व्रतमुच्यते ॥
अनुग्रहं कृतवती सा कथं को ह्यनुग्रहः ॥ ४ ॥
एतद्विस्तरतो ब्रूहि पृच्छतो मे द्विजोत्तम ॥
भगवान्पूज्यते लोके ममानुग्रहकारकः ॥ ५ ॥
प्रसन्नवदनो भूत्वा स्वस्थः कथय सुव्रत ॥
गालवश्चापि तच्छ्रुत्वा पुनराह प्रहृष्टवान् ॥ ६ ॥
॥ गालव उवाच ॥ ॥
इतिहासमिमं पुण्यं कथयामि तवानघ ॥
शृणुष्वावहितो भूत्वा यज्ञायुतफलप्रदम्॥ ७ ॥
चातुर्मास्येऽथ संप्राप्ते हरो भक्तिसमन्वितः ॥
ब्रह्मचर्यव्रतपरः प्रहृष्टवदनोऽभवत् ॥ ८ ॥
देवतानां च संकल्पं महर्षीणां चकार ह ॥
समागत्य ततो देवा मन्दराचलमास्थिताः ॥ ९ ॥
प्रणम्य ते महेशानं तस्थुः प्रांजलयोऽग्रतः ॥
तानुवाच सुरान्सर्वान्हरो दृष्ट्वा समागतान्॥६.२५४.१० ॥
पार्वत्याभिहितं प्राह कस्मिन्कार्यांतरे सति ॥
मया नियुक्तेऽभिनये यत्र साहाय्यकारिणः ॥ ११ ॥
भवंत्विंद्रपुरोगाश्च चातुर्मास्ये समागते ॥
ते तथोचुश्च संहृष्टा नमस्कृत्य च शूलिनम् ॥ १२ ॥
स्वंस्वं भवनमाजग्मुर्विमानैः सूर्यसन्निभैः ॥
तथाऽऽषाढे शुक्लपक्षे चतुर्दश्यां महेश्वरः ॥ १३ ॥
प्रनर्त्तयितुमारेभे भवानीतोषणाय च ॥
मंदरे पर्वतश्रेष्ठे तत्र जग्मुर्महर्षयः ॥ १४ ॥
नारदो देवलो व्यासः शुकद्वैपायनादयः ॥
अंगिराश्च मरीचिश्च कर्दमश्च प्रजापतिः ॥ १५ ॥
कश्यपो गौतमश्चात्रिर्वसिष्ठो भृगुरेव च ॥
जमदग्निस्तथोत्तंको रामो भार्गव एव च ॥ १६ ॥
अगस्त्यश्च पुलोमा च पुलस्त्यः पुलहस्तथा ॥
प्रचेताश्च क्रतुश्चैव तथैवान्ये महर्षयः ॥ १७ ॥
सिद्धा यक्षाः पिशाचाश्च चारणाश्चारणैः सह ॥
आदित्या गुह्यकाश्चैव सा ध्याश्च वसवोऽश्विनौ ॥ १८ ॥
एते सर्वे तथेन्द्राद्या ब्रह्मविष्णुपुरोगमाः ॥
समाजग्मुर्महेशस्य नृत्यदर्शनलालसाः ॥ १९ ॥
ततो गणा नंदिमुखा रत्नानि प्रददुस्तथा ॥
भूषणानि च वासांसि मुन्यादिभ्यो यथाक्रमम् ॥ ६.२५४.२० ॥
ततो वाद्यसहस्रेषु वादित्रेषु समंततः ॥
सर्वैर्जयेति चैवोक्ता भगवा न्व्रतमादिशत्॥ २१ ॥
भवानी हृष्टहृदया महादेवं व्यलोकयत् ॥
जया च विजया चैव जयन्ती मंगलारुणा ॥ २२ ॥
चतुष्टयसखीमध्ये विर राज शुभानना ॥
तस्याः सान्निध्ययोगेन जगद्भाति गुणोत्तरम् ॥ २३ ॥
यस्याः शरीरजा शोभा वर्णितुं नैव शक्यते ॥
ईशोऽपि गणकोटीभिर्ना नावक्त्त्राभिरीक्षितः ॥ २४ ॥
पिशाचभूतसंघैश्च वृतः परमशोभनः ॥
स्वर्णवेत्रधरो नन्दी बभौ कपिमुखोऽग्रतः ॥ २५ ॥
विद्याधराश्च गंधर्वाश्चि त्रसेनादयस्तथा ॥
चित्रन्यस्ता इव बभुस्तत्र नागा मुनीश्वराः ॥ २६ ॥
श्रीरागप्रमुखा रागास्तस्य पुत्रा महौजसः ॥
अमूर्त्ताश्चैव ते पुत्रा हरदेव समुद्भवाः ॥ २७ ॥
एकैकस्य च षड्भार्याः सर्वासां च पितामहः ॥
ताभिः सहैव ते रागा लीलावपुर्धरास्तथा ॥ २८ ॥
प्रादुर्बभूवुः सहसा चिंतितास्तेन शंभुना ॥
तेषां नामानि ते वच्मि शृणुष्व त्वं महाधन ॥ २९ ॥
श्रीरागः प्रथमः पुत्र ईश्वरस्य विमोहनः ॥
आसां चक्रे भ्रुवोर्मध्ये परब्रह्म प्रदायकः ॥ ६.२५४.३० ॥
तन्मध्यश्चैव माहेशात्समुद्भूतो गणोत्तमः ॥
द्वितीयोऽथ वसन्तोऽभूत्कटिदेशान्महायशाः ॥ ३१ ॥
महदंकश्च भूतानां चक्राच्चैव विशुद्धितः ॥
पंचमस्तु तृतीयोऽभूत्सुतो विश्वविभूषणः ॥ ३२ ॥
महेश्वरहृदो जातं चक्रं चैवमनाहतम् ॥
नासादेशात्समुद्भूतो भैरवो भैरवः स्वयम्॥ ॥ ३३ ॥
मणिपूरकनामेदं चक्रं तद्धि विमुक्तिदम् ॥
पंचाशच्च तथा वर्णा अंका नाम महेश्वरात् ॥ ३४ ॥
राशयो द्वादश तथा नक्षत्राणि तथैव च ॥
स्वाधिष्ठानसमुद्भूता जगद्बीजसमन्विताः ॥ ३५ ॥
क्षणेन वृद्धिमायांति ततो रेतः प्रवर्तते ॥
रेतसस्तु जगत्सृष्टं तदीशजननेंद्रियम् ॥ ३६ ॥
आधाराच्च महान्षष्ठो नटो नारायणोऽभवत् ॥
महेशवल्लभः पुत्रो नीलो विष्णुपराक्रमः ॥ ३७ ॥
एते मूर्तिधरा रागा जाता भार्यासहायिनः ॥
भार्यास्तेषां समुद्भूताः शिरोभागात्पिनाकिनः ॥ ३८ ॥
षट्त्रिंशत्परिमाणेन ततस्तास्त्वं निशामय ॥
गौरी कोलाहली धीरा द्राविडी माल कौशिकी ॥ ३९ ॥
षष्ठी स्याद्देवगांधारी श्रीरागत्य प्रिया इमाः ॥
आन्दोला कौशिकी चैव तथा चरममंजरी ॥ ६.२५४.४० ॥
गंडगिरी देवशाखा राम गिरी वसन्तगा ॥
त्रिगुणा स्तम्भतीर्था च अहिरी कुंकुमा तथा ॥ ४१ ॥
वैराटी सामवेरी च षड्भार्याः पंचमे मताः॥
भैरवी गुर्जरी चैव भाषा वेलागुली तथा ॥ ४२ ॥
कर्णाटकी रक्तहंसा षड्भार्या भैरवानुगाः ॥
बंगाली मधुरा चैव कामोदा चाक्षिनारिका ॥ ४३ ॥
 देवगिरी च देवाली मेघ रागानुगा इमा ॥
त्रोटकी मीडकी चैव नरादुम्बी तथैव च ॥ ४४ ॥
मल्हारी सिन्धुमल्हारी नटनारायणानुगाः ॥
एता हि गिरिशं नत्वा महेशं च महेश्वरीम् ॥ ४५ ॥
स्वमूर्त्तिवाहनोपेताः स्वभर्तृसहिताः स्थिताः ॥
ब्रह्मा मृदंगवाद्येन तोषयामास शंकरम् ॥ ४६ ॥
चतुरक्षरवाद्येन सुवाद्यं चाकरोत्पुनः ॥
तालक्रियां महेशाय दर्शयामास केशवः ॥ ४७ ॥
वायवस्तत्र वाद्यं च चक्रुः सुस्वरमोजसा ॥
महेन्द्रो वंशवाद्यं च सुगिरं सुस्वरं बहुः ॥ ४८ ॥
वह्निः शूर्परवं चक्रे पणवं च तथाश्विनौ ॥
उपांगवादनं चक्रे सोमः सूर्यः समंततः ॥ ४९ ॥
घंटानां वादनं चक्रुर्गणाः शतसहस्रशः ॥
मुनीश्वरास्तथा देव्यः पार्वतीसहितास्तथा ॥ ६.२५४.५० ॥
स्वर्णभद्रासनेष्वेते ह्युपविष्टा व्यलोकयन् ॥
शृंगाणां वादनं चक्रुर्वसवः समहोरगाः ॥ ॥ ५१ ॥
भेरीध्वनिं तथा साध्या वाद्यान्यन्ये सुरोत्तमाः ॥
झर्झरीगोमुखादीनि साध्याश्चक्रुर्महोत्सवे ॥ ५२ ॥
तन्त्रीलयसमायुक्ता गंधर्वा मधुर स्वराः ॥
सुवर्णशृंगनादं च चक्रुः सिद्धाः समंततः ॥ ५३ ॥
ततस्तु भगवानासीन्महानटवपुर्धरः ॥
मुकुटाः पंचशीर्षे तु पन्नगैरुपशोभिताः ॥ ॥ ५४ ॥
जटा विमुच्य सकला भस्मोद्धूलितविग्रहः ॥
बाहुभिर्दशभिर्युक्तो हारकेयूरसंयुतः ॥ ५५ ॥
त्रैलोक्यव्यापकं रूपं सूर्यकोटिसमप्रभम् ॥
कृत्वा ननर्त्त भगवान्भासुरं स महानगे ॥ ५६ ॥
ततं वीणादिकं वाद्यं कांस्यतालादिकं घनम् ॥
वंशादिकं तु वादित्रं तोमरादिकनामकम् ॥ ५७॥
चतुर्विधं ततो वाद्यं तुमुलं समजायत ॥
तालानां पटहादीनां हस्तकानां तथैव च ॥ ५८ ॥
मानानां चैव तानानां प्रत्यक्षं रूपमाबभौ ॥
सुकंठं सुस्वरं मुक्तं सुगम्भीरं महास्वनम्॥ ५९ ॥
विश्वावसुर्नारदश्च तुंबुरुश्चैव गायकाः ॥
जगुर्गंधर्वपतयोऽप्सरसो मधुरस्वराः ॥ ६.२५४.६० ॥
ग्रामत्रयसमोपेतं स्वरसप्तकसंयुतम् ॥
दिव्यं शुद्धं च सांकल्पं तत्र गेयमवर्त्तत ॥ ६१ ॥
पर्वतोऽपि महानादं हरपादतलाहतः ॥
भ्रमिभिर्भ्रमयंस्तत्र महीं सपुरकाननाम्॥ ६२ ॥
हस्तकांश्चतुराशीतिं स ससर्ज सदाशिवः ॥
ललाटफलकस्वेदात्सूतमागधबंदिनः ॥६३॥
महेशहृदयाज्जाता गंधर्वा विश्वगायकाः ॥
ते मूर्त्ता देवदेवस्य सुरंगालयसंयुताः ॥ ६४ ॥
प्रेक्षकाणामृषीणां च चक्रुराश्चर्यमोजसा ॥
किन्नराः पुष्पवर्षाणि ससृजुः स्वैर्गुणैरिह ॥ ६५ ॥
एवं चतुर्षुमासेषु यदा नृत्यमजायत ॥
अतिक्रांता शरज्जाता निर्मलाकाशशोभिता ॥ ६६ ॥ पद्मखंडसमाच्छन्नसरोवरमुखांबुजा ॥
फलवृक्षौषधीभिश्च किंचित्पांडुमुखच्छविः ॥ ६७ ॥
ऊर्जशुक्लचतुर्दश्यां प्रसन्ना गिरिजा तदा ॥
समाप्तव्रतचर्यः स ईश्वरोऽपि तदा बभौ ॥ ६८ ॥
सा चोवाच तदा शंभुं विकचस्वरलोचना ॥
विप्रशापपातितं च यदा लिंगं भविष्यति ॥ ६९ ॥
नर्मदाजलसंभूतं विश्वपूज्यं भविष्यति ॥
एवमुक्त्वा ततस्तुष्टा हरस्तोत्रं चकार ह ॥ ६.२५४.७० ॥
नमस्ते देवदेवाय महादेवाय मौलिने ॥
जगद्धात्रे सवित्रे च शंकराय शिवाय च ॥ ॥ ७१ ॥
कपर्दिनेऽजयादाय ब्रह्मगर्भाय ते नमः ॥
हिरण्यरेतसे तुभ्यं नीलग्रीवाय ते नमः ॥ ७१ ॥
नमो ब्रह्मण्य देवाय सितभूतिधराय च ॥
पंचवक्त्राय रूपाय नीरूपाय नमोनमः ॥ ७३ ॥
सहस्राक्षाय शुभ्राय नमस्ते कृत्तिवाससे ॥
अन्धकासुरमोक्षाय पशूनां पतये नमः ॥ ७४ ॥
विप्रवह्निमुखाग्राय हराय च भवाय च ॥
शंकराय महेशाय ईश्वराय नमो नमः ॥ ७६ ॥
अमूर्तब्रह्मरूपाय मूर्त्तानां भावनाय च ॥
नमः शिवाय चोग्राय हराय च भवाय च ॥ ७६ ॥
नमः कृष्णाय शर्वाय त्रिपुरांतक हारिणे ॥
अघोराय नमस्तेऽस्तु नमस्ते पुरुषाय ते ॥ ७७ ॥
सद्योजाताय तुभ्यं भो वामदेवाय ते नमः ॥
ईशानाय नमस्तुभ्यं पंचास्याय कपालिने ॥ ७८ ॥
विरूपाक्षाय भावाय भगनेत्रनिपातिने ॥
पूषदंतनिपाताय महायज्ञनिपातिने ॥ ७९ ॥
मृगव्याधाय धर्माय कालचक्राय चक्रिणे ॥
महापुरुषपूज्याय गणानां पतये नमः ॥ ६.२५४.८० ॥
गंगाधराय मृडिने भवानीप्रियकारिणे ॥
जगदानंददात्रे च ब्रह्मरूपाय ते नमः ॥९१॥
गुणातीताय गुणिने सूक्ष्माय गुरवेऽपि च ॥
नमो महास्वरूपाय भस्मनो जन्मकारिणे ॥ ८२ ॥
वैराग्यरूपिणे नित्यं योगाचार्याय वै नमः ॥
मयोक्तमप्रियं देव स्मरसंहारकारक ॥ ८३ ॥
क्षंतुमर्हसि विश्वेश शिरसा त्वां प्रसादये ॥
शापानुग्रह एवैष कृतस्ते वै न संशयः ॥ ८४ ॥
ममापराधजो मन्युर्न कार्यो भवताऽनघ ॥
एवं प्रसादितः शंभुर्हृष्टात्मा त्रिदशैः सह ॥ ८५ ॥
तीर्णव्रतपरानंदनिर्भरः प्राह तामुमाम् ॥
य इमां मत्स्तुतिं भक्त्या पठिष्यति तवोद्गताम् ॥
तस्य चेष्टवियोगश्च न भविष्यति पार्वति ॥ ८६ ॥
जन्मत्रयधनैर्युक्तः सर्वव्याधिविवर्जितः ॥
भुक्त्वेह विविधान्भोगानंते यास्यति मत्पुरम् ॥ ८७ ॥
इत्युक्त्वा तां महेशोऽपि स्वमंगं प्रददौ ततः ॥
वैष्णवं वामभागं सा प्रतिजग्राह पार्वती ॥ ८८ ॥
शर्वं कपालहस्तं च ग्रीवार्द्धे गरलान्वितम् ॥
रुण्डमालार्द्धहारं च सितगौरं समंततः ॥ ८९ ॥
ब्रह्मांडकोटिजनकं जटाभिर्भूषितं शिरः ॥
सित द्युतिकलाखंडरत्नभासावभासितम् ॥ ६.२५४.९० ॥
स्वर्णाभरणसंयुक्तमेकतो भुजगांगदम् ॥
एकतः कृत्तिवसनमन्यतः पट्टकूलवत् ९१ ॥
मत्स्य वाहनसंयुक्तमन्यतो वृषभांकितम् ॥
एकतः पार्षदैः सेव्यमन्यतः सखिसेवितम् ॥ ९२ ॥
रूपमेवंविधं दृष्ट्वा ब्रह्माद्या देवतागणाः ॥
तुष्टुवुः परया भक्त्या तेजोभूषितलोचनम् ॥ ९३ ॥
त्वमेको भगवान्सर्वव्यापकः सर्वदेहिनाम् ॥
पितृवद्रक्षकोऽसि त्वं माता त्वं जीवसंज्ञकः ॥ ९४ ॥
साक्षी विश्वस्य बीजं त्वं ब्रह्मांडवशकारकः ॥
उत्पद्यंते विलीयंते त्वयि ब्रह्मांडकोटयः ॥ ९५ ॥
ऊर्मयः सागरे नित्यं सलिले बुद्बुदा यथा ॥
अहं कदा चित्ते नेत्रात्कदाचित्तव भालतः ॥ ९६ ॥
क्वचित्संगे शिवादेव्या प्राहुर्भूत्वा सृजे जगत् ॥
तवाज्ञाकरिणः सर्वे वयं ब्रह्मादयः सुराः ॥ ९७ ॥
अनंतवैभवोऽनंतोऽनंतधामाऽस्यनंतकः ॥
अनंतः सर्वभंगाय कुरुषे रूपमद्भुतम् ॥ ९८ ॥
भवानि त्वं भयं नित्यमशिवानां पवित्रकृत् ॥
शिवा नामपि दात्री त्वं तपसामपि त्वं फलम् ९९ ॥
यः शिवः स स्वयं विष्णुर्यो विष्णुः स सदाशिवः ॥
इत्यभेदमतिर्जाता स्वल्पा नस्त्वत्प्रसादतः॥ ॥ ६.२५४.१०० ॥
यत्किंचिच्च जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा ॥
मध्ये बहिश्च तत्सर्वं त्रयं व्याप्य स्थिता यदा ॥ १ ॥
जगत्पूज्ये सुरेशानि जगद्वंद्ये तथांबिके ॥
प्रसादं कुरु देवेशि देवेश प्रणता वयम् ॥ २ ॥
इत्युक्त्वा त्रिदशाः सर्वे हृष्टा जग्मुर्यथागतम् ॥ ३ ॥
॥ गालव उवाच ॥ ॥
तद्दिव्यरूपमतुलं भुवि ये मनुष्याः संसारसागरसमुत्तरणैकपोतम् ॥
संचिन्तयंति मनसा हृतकिल्बिषास्ते ब्रह्मस्वरूपमनुयांति विमुक्तसंगाः ॥ ॥१०४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये हरतांडवनर्त्तनवर्णनंनाम चतुःपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५४ ॥