स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २५२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ शूद्र उवाच ॥ ॥
महदाश्चर्यमेतद्धि यत्सुरा वृक्षरूपिणः ॥
चातुर्मास्ये समायाते सर्ववृक्षनिवासिनः ॥ १ ॥
भगवन्के सुरास्ते तु केषुकेषु निवासिनः ॥
एतद्विस्तरतो ब्रूहि ममानुग्रहकाम्यया ॥ २ ॥
॥ गालव उवाच ॥ ॥
अमृतं जलमित्याहुश्चातुर्मास्ये तदिच्छया ॥
लीलया विधृतं देवैः पिबंति द्रुमदेवताः ॥ ३ ॥
तस्य पानान्महातृप्तिर्जायते नाऽत्र संशयः ॥
बलं तेजश्च कांतिश्च सौष्ठवं लघुविक्रमः ॥ ४ ॥
गुणा एते प्रजायन्ते पानात्कृष्णांशसंभवात् ॥
नित्यामृतस्यपानेन बलं स्वल्पं प्रजायते ॥ ५ ॥
भोजनं तत्प्रशंसंति नित्यमेतन्न संशयः ॥
तस्माच्चतुर्षु मासेषु पिबन्ति जलमेव हि ॥ ६॥
वृक्षस्थाः पितरो देवाः प्राणिनां हित काम्यया ॥
वृक्षाणां सेवनं श्रेष्ठं सर्वमासेषु सर्वदा ॥ ७ ॥
चातुर्मास्ये विशेषेण सेविताः सौख्यकारकाः ॥
तिलोदकेन वृक्षाणां सेचनं सर्वकाम दम् ॥ ८ ॥
क्षीरवृक्षाः क्षीरयुक्तैस्तोयैः सिक्ताः शुभप्रदाः ॥
चतुष्टयं च वृक्षाणां यच्चोक्तं पूर्वतो मया ॥ ९ ॥
चातुर्मास्ये विशेषेण सर्वकाम फलप्रदम् ॥
ब्रह्मा तु वटमाश्रित्य प्राणिनां स वरप्रदः ॥ 6.252.१० ॥
सावित्रीं तिलमास्थाय पवित्रं श्वेतभूषणम् ॥
सुप्ते देवे विशेषेण तिलसेवा महाफला ॥ ११ ॥
तिलाः पवित्रमतुलं तिला धर्मार्थसाधकाः ॥
तिला मोक्षप्रदाश्चैव तिलाः पापापहारिणः ॥ १२ ॥
तिला विशेषफलदास्तिलाः शत्रुविनाशनाः ।
तिलाः सर्वेषु पुण्येषु प्रथमं समुदाहृताः ॥ १३ ॥
न तिला धान्यमित्याहुर्देवधान्यमिति स्मृतम् ॥
तस्मात्सर्वेषु दानेषु तिल दानं महोत्तमम् ॥ १४ ॥
कनकेन युता येन तिलादत्तास्तु शूद्रज ॥
ब्रह्महत्यादिपापानां विनाशस्तेन वै कृतः ॥ १५ ॥
सावित्री च तिलाः प्रोक्ता सर्वकार्यार्थसाधकाः ॥
तिलैस्तु तर्पणं कुर्याच्चातुर्मास्ये विशेषतः ॥ १६ ॥
तिलानां दर्शनं पुण्यं स्पर्शनं सेवनं तथा ॥
हवनं भक्षणं चैव शरीरोद्वर्त्तनं तथा ॥ १७ ॥
सर्वथा तिलवृक्षोऽयं दर्शनादेव पापहा ॥
चातुर्मास्ये विशेषेण सेवितः सर्वसौख्यदः ॥ १८ ॥
महेन्द्रो यवमा स्थाय स्थितो भूतहिते रतः ॥
यवस्य सेवनं पुण्यं दर्शनं स्पर्शनं तथा ॥ १९ ॥
यवैस्तु तर्पणं कुर्याद्देवानां दत्तमक्षयम् ॥
प्रजानां पतयः सर्वे चूतवृक्षमुपाश्रिताः ॥ 6.252.२० ॥
गन्धर्वा मलयं वृक्षमगुरुं गणनायकः ॥
समुद्रा वेतसं वृक्षं यक्षा पुन्नागमेव च ॥ २१ ॥
नागवृक्षं तथा नागाः सिद्धाः कंकोलकं द्रुमम् ॥
गुह्यकाः पनसं चैव किन्नरा मरिचं श्रिताः ॥ २२ ॥
यष्टीमधु समाश्रित्य कन्दर्पोऽभूद्व्यवस्थितः ॥
रक्तांजनं महावृक्षं वह्निराश्रित्य तिष्ठति ॥ २३ ॥
यमो विभीतकं चैव बकुलं नैर्ऋताधिपः ॥
वरुणः खर्जुरीवृक्षं पूगवृक्षं च मारुतः ॥ २४ ॥
धनदोऽक्षोटकं वृक्षं रुद्राश्च बदरीद्रुमम्॥
सप्तर्षीणां महाताला बहुलश्चामरैर्वृतः ॥ २५ ॥
जंबूर्मेघैः परिवृतः कृष्णवर्णोऽघनाशनः ॥
कृष्णस्य सदृशो वर्णस्तेन जंबू नगोत्तमः ॥ २६ ॥
तत्फलैर्वासुदेवस्तु प्रीतो भवति दानतः ॥
जंबूवृक्षं समाश्रित्य कुर्वंति द्विजभोजनम् ॥ २७ ॥
तेषां प्रीतो हरिर्दद्यात्पु रुषार्थचतुष्टयम्॥
चातुर्मास्ये समायाते सुप्ते देवे जनार्दने ॥ २८ ॥
ब्राह्मणान्भोजयेद्यस्तु सपत्नीकाञ्छुचिः स्थितः ॥
तेन नारायणस्तुष्टो भवे ल्लक्ष्मीसहायवान् ॥ २९ ॥
लक्ष्मीनारायणप्रीत्यै वस्त्रालंकरणैः शुभैः॥
परिधाय सपत्नीकः कृतकृत्यो भवेन्नरः ॥ 6.252.३० ॥
यद्रात्रित्रितयेनैव वटा शोकभवेन च ॥
फलं संजायते तच्च जंबुना द्विजभोजनात् ॥ ३१ ॥
तस्मिन्दिने एकभुक्तं कारयेत्कृत्यकृत्तदा ॥
बहुना च किमुक्तेन जंबूवृक्ष प्रपूजनात् ॥ ३२ ॥
पुत्रपौत्रधनैर्युक्तो जायते नात्र संशयः ॥
जंबूर्मेघैः परिवृता विद्युताऽशोक एव च ॥ ३३ ॥
वसुभिः स्वीकृतो नित्यं प्रिया लश्च महानगः ॥
आदित्यैस्तु जपावृक्षो ह्यश्विभ्यां मदनस्तथा ॥ ३४ ॥
विश्वेभिश्च मधूकश्च गुग्गुलः पिशिताशनैः ॥
सूर्येणार्कः पवित्रेण सोमे नाथ त्रिपत्रकः ॥ ३५ ॥
खदिरो भूमिपुत्रेण अपामार्गो बुधेन च ॥
अश्वत्थो गुरुणा चैव शुक्रेणोदुम्बरस्तथा ॥ ३६ ॥
शमी शनैश्चरेणाथ स्वीकृता शूद्रजातिभिः॥
राहुणा स्वीकृता दूर्वा पितॄणां तर्पणोचिता॥३७॥
विष्णोश्च दयिता नित्यं चातुर्मास्ये विशेषतः॥
केतुना स्वीकृतो दर्भो याज्ञिकेयो महाफलः॥३८॥
विना येन शुभं कर्म संपूर्णं नैव जायते॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्॥३९॥
मुमूर्षूणां मोक्षरूपो धरासंस्थो महाद्रुमः ॥
अस्मिन्वसंति सततं ब्रह्मविष्णुशिवाः सदा ॥ 6.252.४० ॥
मूले मध्ये तथाऽग्रे च यस्य नामापि तृप्ति दम् ॥
अन्येऽपि देवा वृक्षांस्तानधिश्रित्य महाद्रुमाः ॥ ४१ ॥
प्रवर्त्तंते हि मासेषु चतुर्षु च न संशयः ॥
चातुर्मास्ये देवपत्न्यः सर्वा वल्लीसमाश्रि ताः ॥ ४२ ॥
प्रयच्छंति नृणां कामान्वांछितान्सेविता अपि ॥
तस्मात्सर्वात्मभावेन पिप्पलो येन सेवितः ॥ ४३ ॥
सेविताः सकला वृक्षा श्चातुर्मास्ये विशेषतः ॥
तुलसी सेविता येन सर्ववल्यश्च सेविताः ॥ ४४ ॥
आप्यायितं जगत्सर्वमाब्रह्मस्तंबसेवितम् ॥
चातुर्मास्ये गृह स्थेन वानप्रस्थेन वा पुनः ॥ ४५॥
ब्रह्मचारियतिभ्यां च सेविता मोक्षदायिनी ॥
एतेषां सर्ववृक्षाणां छेदनं नैव कारयेत् ॥ ४६ ॥
चातुर्मास्ये विशेषेण विना यज्ञादिकारणम्॥
एतदुक्तमशेषेण यत्पृष्टोऽहमिह त्वया ॥ ४७ ॥
यथा वृक्षत्वमापन्ना देवाः सर्वेऽपि शूद्रज ॥ ४८ ॥
अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश तित्तिडीश्च ॥
कपित्थबिल्वामलकीत्रयं च एतांश्च दृष्ट्वा नरकं न पश्येत् ॥ ४९ ॥
सर्वे देवा विश्ववृक्षेशयाश्च कृष्णा धारा कृष्णमध्याग्रकाश्च ॥
यस्मिन्देवे सेविते विश्वपूज्ये सर्वं तृप्तं जायते विश्वमेतत् ॥6.252.५० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये वृक्षमाहात्म्यकथनं नाम द्विपञ्चाशदुत्तरद्विशततमो ऽध्यायः ॥ २५२ ॥ छ ॥ ॥