स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २५०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ वाण्युवाच ॥ ॥
बिल्वपत्रस्य माहात्म्यं कथितुं नैव शक्यते॥
तवोद्देशेन वक्ष्यामि महेन्द्र शृणु तत्त्वतः ॥१॥
विहारश्रममापन्ना देवी गिरिसुता शुभा ॥
ललाटफलके तस्याः स्वेदबिन्दुरजायत ॥२॥
स भवान्या विनिक्षिप्तो भूतले निपपात च ॥
महातरुरयं जातो मन्दरे पर्वतोत्तमे ॥ ३ ॥
ततः शैलसुता तत्र रममाणा ययौ पुनः ॥
दृष्ट्वा वनगतं वृक्षं विस्मयोत्फुल्ललोचना ॥ ४ ॥
जयां च विजयां चैव पप्रच्छ च सखीद्वयम् ॥
कोऽयं महातरुर्दिव्यो विभाति वनमध्यगः ॥
दृश्यते रुचिराकारो महाहर्षकरो ह्ययम् ॥ ५ ॥
॥ जयोवाच ॥ ॥
देवि त्वद्देहसंभूतो वृक्षोऽयं स्वेदबिन्दुजः ॥
नामाऽस्य कुरु वै क्षिप्रं पूजितः पापनाशनः ॥ ६ ॥
॥ पार्वत्युवाच ॥ ॥
यस्मात्क्षोणीतलं भित्त्वा विशिष्टोऽयं महातरुः ॥ ७ ॥
उदतिष्ठत्समीपे मे तस्माद्बिल्वो भवत्वयम् ॥
इमं वृक्षं समासाद्य भक्तितः पत्रसंचयम् ॥ ८ ॥
आहरिष्यत्यसौ राजा भविष्यत्येव भूतले ॥
यः करिष्यति मे पूजां पत्रैः श्रद्धासमन्वितः ॥ ९ ॥
यंयं काममभिध्यायेत्तस्य सिद्धिः प्रजायते ॥
यो दृष्ट्वा बिल्वपत्राणि श्रद्धामपि करिष्यति ॥ ६.२५०.१० ॥
पूजनार्थाय विधये धनदाऽहं न संशयः ॥
पत्राग्रप्राशने यस्तु करिष्यति मनो यदि ॥
तस्य पापसहस्राणि यास्यंति विलयं स्वयम ॥ ११ ॥
शिरः पत्राग्रसंयुक्तं करोति यदि मानवः ॥
न याम्या यातना ह्यस्य दुःखदात्री भविष्यति ॥ १२ ॥
इत्युक्त्वा पार्वती हृष्टा जगाम भवनं स्वकम् ॥
सखीभिः सहिता देवी गणैरपि समन्विता ॥ १३ ॥
॥ वाण्युवाच ॥ ॥
अयं बिल्वतरुः श्रेष्ठः पवित्रः पापनाशनः ॥
तस्य मूले स्थिता देवी गिरिजा नात्र संशयः ॥ १४ ॥
स्कन्धे दाक्षायणी देवी शाखासु च महेश्वरी ॥
पत्रेषु पार्वती देवी फले कात्या यनी स्मृता ॥ १५ ॥
त्वचि गौरी समाख्याता अपर्णा मध्यवल्कले ॥
पुष्पे दुर्गा समाख्याता उमा शाखांगकेषु च ॥ १६ ॥
कण्टकेषु च सर्वेषु कोटयो नवसंख्यया ।
शक्तयः प्राणिरक्षार्थं संस्थिता गिरिजाऽऽज्ञया ॥१७ ॥
तां भजंति सुपत्रैश्च पूजयंति सनातनीम् ॥
यंयं कामयते कामं तस्य सिद्धिर्भवेद्ध्रुवम्॥ १८ ॥
महेश्वरी सा गिरिजा महेश्वरी विशुद्धरूपा जनमोक्षदात्री॥
हरं च दृष्ट्वाथ पलाशमाश्रितं स्वलीलया बिल्ववपुश्चकार सा ॥ १९ ॥
इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातु र्मास्यमाहात्म्ये पैजवनोपाख्याने बिल्वोत्पत्तिवर्णनंनाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५०॥।