स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २४६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ गालव उवाच ॥ ॥
शक्रादयस्तु देवेशा दुःखसंतप्तमानसाः ॥ ॥
ईश्वरादर्शनभ्रांतमनः कर्मेंद्रिया रतिम् ॥ १ ॥
न प्रापुर्लोकनाथं ते कृत्वा यः प्रतिमाकृतिम् ॥
तपसाराधयामासुः सर्वभूतहृदिस्थितम् ॥ २ ॥
कपर्दशिरसं देवं शूलहस्तं पिनाकिनम् ॥
कपालखट्वांगधरं दशहस्तं किरीटिनम्॥ ३ ॥
उमासहितमीशानं पंचवक्त्रं महाभुजम्॥
कर्पूरगौरदेहाभं सितभूतिविभूषितम्॥ ॥ ४ ॥
नागयज्ञोपवीतेन गजचर्मसमन्वितम् ॥
कृष्णसारत्वचा चापि कृतप्रावरणं विभुम् ॥ ५ ॥
कृतध्यानाः सुरास्तत्र वृक्षाधारे समाश्रिताः ॥
व्रतचर्यां समाश्रित्य प्रचक्रुस्तप उत्तमम् ॥ ६ ॥
षडक्षरेण मंत्रेण शैवेन विहिताः सुराः ॥
॥ शूद्र उवाच ॥ ॥
व्रतचर्या त्वया या सा प्रोक्ता संजा यते कथम् ॥ ७ ॥
ब्रह्मन्विस्तरतो ब्रूहि न तृप्येते वचोऽमृतैः ॥ ८ ॥
॥ गालव उवाच ॥ ॥
जपन्भस्म च खट्वांगं कपालं स्फाटिकं तथा ॥
रुंडमालां पंचवक्त्रमर्द्धचंद्रं च मूर्द्धनि ॥ ९ ॥
चित्रकृत्तिपरीधानं कौपीनकुण्डलद्वयम् ॥
घंटायुग्मं त्रिशूलं च सूत्रं चर्यास्वरूपकम् ॥ ६.२४६.१० ॥
अमीभिर्लक्षणैर्लक्ष्यं मयोक्तं तव शूद्रज ॥
अनेन विधिना सर्वे देवा वह्निपुरोगमाः ॥ ११ ॥
सर्व आराधयामासुः सर्वोपायैर्वरप्रदम् ॥
चातुर्मास्ये च संपूर्णे सपूर्णे कार्तिकेऽमले ॥ १२ ॥
चीर्णव्रतान्सुरान्दृष्ट्वा विशुद्धांश्च महेश्वरः ॥
मतिं तेषां ददौ तुष्टो जीवात्मा सर्वभूतदृक् ॥ १३ ॥
शतरुद्रीयजाप्येन विधानसहितेन च ॥
ध्यानेन दीपदानेन चातुर्मास्ये तुतोष सः ॥ १४ ॥
पूजनैः षोडशविधैर्यथा विष्णोस्तथा हरे ॥
कुर्वाणान्भक्तिभावेन ज्ञात्वा देवान्समागतान् ॥ १५ ॥
प्रहृष्टो भगवान्रुद्रो ददौ तेषां शुभा मतिम् ॥
ततः संमंत्र्य ते देवा वह्निं स्तुत्वा यथार्थतः ॥ १६ ॥
प्रसन्नवदनं चक्रुः कार्यसाधनतत्परम् ॥
कर्मसाक्षी महातेजाः कृत्वा पारावतं वपु ॥ १७ ॥
प्रविवेश ततो मध्ये द्रष्टुं देवं महेश्वरम् ॥
चकार गतिविक्षेपं गुंठनैरवगुंठनैः ॥१८॥
लुंठनैः सर्पणैश्चैव चारुरूपोऽद्भुतां गतिम् ॥
तं दृष्ट्वा भगवांस्तत्र कारणं समबुद्ध्यत ॥१९॥
ऊर्ध्वरेतास्ततस्तस्मिन्ससर्जादौ दधार तत् ॥
वीर्यं वह्निमुखे चैव सोत्पपात गृहाद्बहिः ॥ ६.२४६.२० ॥
गते तस्मिन्पतंगेऽथ पार्वती विफलश्रमा ॥
संक्रुद्धा सर्वदेवानां सा शशाप महेश्वरी ॥ २१ ॥
यस्मान्ममेच्छा विहता भवद्भिर्दुष्टबुद्धिभिः ॥
तस्मात्पाषाणतामाशु व्रजंतु त्रिदिवौकसः ॥ २२ ॥
निरपत्या निर्दयाश्च सर्वे देवा भविष्यथ ॥
ततः प्रसादयामासुः प्रणताः शापयंत्रिताः ॥ २३ ॥
महद्दुःखं संप्रविष्टाः पुनः पुनरथाब्रुवन् ॥ २४ ॥
 ॥ देवा ऊचुः ॥ ॥
त्वं माता सर्वदेवानां सर्वसाक्षी सनातनी ॥
उत्पत्तिस्थितिसंहारकारणं जगतां सदा ॥ २५ ॥
भूतप्रकृतिरूपा त्वं महाभूतसमाश्रिता ॥
अपर्णा तपसां धात्री भूतधात्री वसुन्धरा ॥ २६ ॥
मंत्राराध्या मन्त्रबीजं विश्वबीजलयस्थितिः ॥
यज्ञादिफलदात्री च स्वाहारूपेण सर्वदा ॥ २७ ॥
मन्त्रयन्त्रसमोपेता ब्रह्मविष्णुशिवादिषु ॥
नित्यरूपा महारूपा सर्वरूपा निरञ्जना ॥ २९८ ॥
दोषत्रयसमाक्रान्त जननैः श्रेयसप्रदा ॥
महालक्ष्मीर्महाकालीमहादेवी महेश्वरी ॥ २९ ॥
विश्वेश्वरी महामाया मायाबीजवरप्रदा ॥
वररूपा वरेण्या त्वं वरदात्री वरासुता ॥ ६.२४६.३० ॥
बिल्वपत्रैः शुभैर्ये त्वां पूजयन्ति नराः सदा ॥
तेषां राज्यप्रदात्री च कामदा सिद्धिदा सदा ॥ ३१ ॥
चातुर्मास्येऽर्चिता यैस्त्वं बिल्वपत्रैर्विशेषतः ॥
तेषां वांछितसिद्ध्यर्थं जाता कामदुघा स्वयम् ॥ ३२ ॥
येऽर्चयंति सदा लोके महेश्वरसमन्विताम् ॥
बिल्वपत्रैर्महाभक्त्या न तेषां दुःखदुष्कृती ॥ ३३ ॥
चातुर्मास्ये विशेषेण तव पूजा महाफला ॥
अद्यप्रभृति यैर्लोकैर्बिल्वपत्रैस्तु पूजिता ॥ ३४ ॥
विधास्यसि महेशानि तेषां ज्ञानमनुत्तमम्॥
चातुर्मास्येऽधिकफलं बिल्वपत्रं वरानने ॥ ३५ ॥
उमामहेश्वरप्रीत्यै दत्तं विधिवदक्षयम् ॥
यथा श्रीस्तुलसीवृक्षे तथा बिल्वे च पार्वती ॥ ३६ ॥
त्वं मूर्त्या दृश्यसे विश्वं सकलाभीष्टदायिनी ॥
चातुर्मास्ये विशेषेण सेवितौ द्वौ महाफलौ ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये पैजवनोपाख्याने पार्वत्येन्द्रादीनां शापप्रदानवृत्तान्तवर्णनंनाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ २४६ ॥