स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २४५

विकिस्रोतः तः
Jump to navigation Jump to search

॥ पैजवन उवाच ॥ ॥
शालिग्रामशिलायां च जगदादिः सनातनः ॥
कथं पाषाणतां प्राप्तो गण्डक्यां तच्च मे वद ॥
त्वत्प्रसादेन विप्रर्षे हरौ भक्तिर्दृढा भवेत् ॥
भवंतस्तीर्थरूपा हि दर्शनात्पापहारिणः ॥ २ ॥
तीर्थामृतावगाहेन यथा पवित्रता नृणाम् ॥
भवद्वाक्यामृताज्जाता तथा मम न संशयः ॥ ३ ॥
॥ गालव उवाच ॥ ॥
इतिहासस्त्वयं पुण्यः पुराणेषु च पठ्यते ॥
यथा स एव भगवाञ्छालिग्रामत्वमागतः ॥ ४ ॥
महेश्वरश्च लिंगत्वं कथयेऽहं तवाऽनघ ॥
पूर्वं प्रजापतिर्दक्षो ब्रह्मणोंऽगुष्ठ संभवः ॥ ५ ॥'
 तस्यासीद्दुहिता साध्वी सतीनाम्नी सुलक्षणा ॥
हरेणोढा विधिज्ञेन वेदोक्तविधिना ततः ॥ ६ ॥
स चकार महायज्ञे हरद्वेषं विमूढधीः ॥
तेन द्वेषेण महता सती प्रकुपिता भृशम् ॥ ७ ॥
यज्ञवेद्यां समागम्य वह्निधारणया तदा ॥
प्राणायामपरा भूत्वा देहोत्सर्गं चकार सा ॥ ८ ॥
पितृभागं परित्यज्य स्वभागेन युता सती ॥
मनसा ध्यानमगमच्छीतलं च हिमालयम् ॥ ९ ॥
यत्रयत्र मनो याति स्वकर्मवशगं मृतौ ॥
अवतारस्तत्रतत्र जायते नात्र संशयः ॥ ६.२४५.१० ॥
दह्यमाना हि सा देवी हिमालयसुताऽभवत् ॥
तत्र सा पार्वती भूत्वा तप उग्रं समाश्रिता ॥ ११ ॥
शिवभक्तिरता नित्यं हरव्रतपरायणा ॥
शृंगे हिमवतः पुत्री मनो न्यस्य महेश्वरे ॥ ॥ १२ ॥
ततो वर्षसहस्रांते भगवान्भूतभावनः ॥
अथाजगाम तं देशं विप्ररूपो महेश्वरः ॥ १३ ॥
तां ज्ञात्वा तपसा शुद्धां कर्मभावैः परीक्षितैः ॥
ततो दिव्यवपुर्भूत्वा करे जग्राह पार्वतीम् ॥ १४ ॥
तपसा निर्जितश्चास्मि करवाणि च किं प्रियम् ॥
ततः प्राह महेशानं प्रमाणं मे पिता गुरुः । ॥ १५ ॥
सप्तर्षीन्स तथोक्तस्तु प्रेषयामास शंकरः ॥
ते तत्र गत्वा समयं वक्तुं हिमवता सह ॥ १६ ॥
निवेद्य च महेशानं प्रेषिता मुनयो ययुः ।
ततो लग्नदिने देवा महेन्द्रादय ईश्वरम् ॥ १७ ॥
ब्रह्मविष्णुपुरोगाश्च पुरोधायाग्निमाययुः ॥
योगसिद्धा समायांतं वरवेषं वृषध्वजम् । १८ ।
हिमवान्पूजयामास मधुपर्कादिकैः शुभैः ॥
उपचारैर्मुदा युक्तो मानयन्कृतकृत्यताम् ॥ १९ ॥
वेदोक्तेन विधानेन तां कन्यां समयोजयत् ॥
पाणिग्रहेण विधिना द्विजातिगणसंवृतः ॥ ६.२४५.२० ॥
वह्निं प्रदक्षिणीकृत्य गिरीशस्तदनन्तरम् ॥
दानकाले च गोत्रादि पृष्टो लज्जापरो हर ॥२१॥
ब्रह्मणो वचनात्तेन विधिशेषोऽवशेषितः॥
चरुप्राशनकाले तु पंचवक्त्रप्रकाशकृत्॥२२॥
सहितः सकलैर्देवैः कुतूहलपरायणः॥
गिरिजार्थं समायुक्तो वरः सोऽपि महेश्वरः॥२३॥
नवकोटिमुखां दृष्ट्वा साट्टहासो जनोऽभवत्॥
वैदिकी श्रुतिरित्युक्ता शिव त्वं स्थिरतां व्रज॥२४॥
लज्जिता सा परित्यागं नाकरोत्पंचजन्मसु ॥
भर्त्तारमसितापांगी हरमेवाभ्यगच्छत ॥ २५ ॥
देवानां पर्वतानां च प्रहृष्टं सकलं कुलम् ॥
ततो विवाहे संपूर्णे हरोऽगात्कौतुकौकसि ॥ २६ ॥
गणानां चापि सान्निध्ये सा नामर्षयदंबिका ॥
पारिबर्हं ततो दत्त्वा शैलेन स विसर्जितः ॥ २७ ॥
मानितः सत्कृतश्चापि मन्दराचलमभ्यगात्॥
विश्वकर्मा ततस्तस्य क्षणेन मणिमद्गृहम् ॥ २८ ॥
निर्ममे देवदेवस्य स्वेच्छावर्द्धिष्णुमंदिरम् ॥
सर्वर्द्धिमत्प्रशस्ताभं मणिविद्रुमभूषितम् ॥ २९ ॥
स्थूणासहस्रसंयुक्तं मणिवेदिमनोहरम् ॥
गणा नंदिप्रभृतयो यस्य द्वारि समाश्रिताः ॥ ६.२४५.३० ॥
त्रिनेत्राः शूलहस्ताश्च बभुः शंकररूपिणः ॥
वाटिका अस्य परितः पारिजाताः सहस्रशः ॥ ३१ ॥
कामधेनुर्मणिर्दिव्यो यस्य द्वारि समाश्रितौ ॥
तस्मिन्मनोहरतरे कामवृद्धिकरे गृहे ॥ ३२ ॥
पार्वत्या वसतः सार्द्धं कामो दृष्टिपथं ययौ ॥
वायुरूपः शिवं दृष्ट्वा कामः प्रोवाच शंकरम् ॥ ३३ ॥
नमस्ते सर्वरूपाय नमस्ते वृषभध्वज ॥
नमस्ते गणनाथाय पाहि नाथ नमोऽस्तु ते ॥३४॥
त्वया विरहितं लोकं शववत्स्पृशते मही ॥
न त्वया रहितं किञ्चि द्दृश्यते सचराचरे ॥ ३५ ॥
त्वं गोप्ता त्वं विधाता च लोकसंहारकारकः ॥
कृपां कुरु महादेव देहदानं प्रयच्छ मे ॥ ३६ ॥
॥ ईश्वर उवाच ॥ ॥ ॥
यन्मया त्वं पुरा दग्धः पर्वते पुरतोऽनघ ॥
तस्या एव समीपे त्वं पुनर्भव स्वदेहवान् ॥ ३७ ॥
एवमुक्तस्ततः कामः स्वशरीरमुपागतः ॥
ववंदे चरणौ शूद्र विनयावनतोऽभवत् ॥ ३८ ॥
ततो ननाम चरणौ पार्वत्याः संप्रहृष्टवान् ॥
लब्धप्रसादस्तु तयोः समीपाद्भुवनत्रये ॥ ३९ ॥
चचार सुमहातेजा महामोहबलान्वितः ॥
पुष्पधन्वा पुष्पबाणस्त्वाकुञ्चितशिरोरुहः ॥ ६.२४५.४० ॥
सदा घूर्णितनेत्रश्च तयोर्देहमुपाविशत् ॥
दिव्यासवैर्दिव्यगंधैर्वस्त्रमाल्यादिभिस्तथा ॥ ४१ ॥
सख्यः संभोगसमये परिचक्रुः समंततः ॥
एवं प्रक्रीडतस्तस्य वत्सराणां शतं ययौ ॥ ४२ ॥
साग्रमेका निशा यद्वन्मैथुने सक्तचेतसः ॥
एतस्मिन्नंतरे देवास्तारकप्रद्रुता भयात् ॥
ब्रह्माणं शरणं जग्मुः स्तुत्वा तं शरणं गताः ॥ ४३ ॥
॥ देवा उचुः ॥ ॥
तारकोऽसौ महारौद्रस्त्वया दत्तवरः पुरा ॥ ४४ ॥
विजित्य तरसा शक्रं भुंक्ते त्रैलोक्यपूजितः ॥
वधोपायो यथा तस्य जायते त्वं कुरु स्वयम् ॥ ॥ ४५ ॥
॥ ब्रह्मोवाच ॥ ॥
मया दत्तवरश्चासौ मयैवोच्छिद्यते नहि ॥
स्वयं संवर्ध्य कटुकं छेत्तुं कोऽपि न चार्हति ॥ ४६ ॥
तस्मात्तस्य वधोपायं कथयामि महात्मनः ॥
पार्वत्यां यो महेशानात्सूनुरुत्पत्स्यते हि सः ॥ ४७ ॥
दिनसप्तकवान्भूत्वा तारकं स हनिष्यति ॥
इति वाक्यं तु ते श्रुत्वा मंदरं लोकसुंदरम्॥ ४८ ॥
ब्रह्मलोकात्समाजग्मुः पीडिता दैत्यदानवैः ॥ ४९ ॥
 तत्र नंदिप्रभृतयो गणाः शूलभृतः पुरः ॥
गृहद्वारे ह्युपा वृत्य तस्थुः संयतचेतसः ॥ ६.२४५.५० ॥
॥ देवा ऊचुः ॥ ॥
देवाश्च दुःखातुरचेतसो भृशं हतप्रभास्त्यक्तगृहाश्रयाखिलाः ॥
संप्राप्य मासांश्चतुरः स्तपः स्थिता देवे प्रसुप्ते हरतोषणं परम् ॥ ५१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने तारकोपद्रुतानां देवानां शिवदर्शनार्थं मंदराचलंप्रतिगमनवर्णनंनाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४५ ॥