सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २४२

विकिस्रोतः तः
← अध्यायः २४१ स्कन्दपुराणम् - नागरखण्डः
अध्यायः २४२
[[लेखकः :|]]
अध्यायः २४३ →

॥ ऋषय ऊचुः ॥ ॥
नारद उवाच ॥ ॥
अष्टादश प्रकृतयः का वदस्व पितामह ॥
वृत्तिस्तासां च को धर्मः सर्वं विस्तरतो मम ॥ १ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
मज्जन्माभूद्भगवतो नाभिपंकजकोशतः ॥
स्वकालपरिमाणेन प्रबुद्धस्य जगत्पतेः ॥ २ ॥
ततो बहुतिथे काले केशवेन पुरा स्मृतः ॥
स्रष्टुकामेन विविधाः प्रजा मनसि राजसीः ॥ ३ ॥
अहं कमलजस्तत्र जातः पुत्रश्चतुर्मुखः ॥
उदरं नाभिनालेन प्रविश्याथ व्यलोकयम् ॥ ४ ॥
तत्र ब्रह्मांडकोटीनां दर्शनं मेऽभवत्पुनः ॥
विस्मयाच्चिंतयानस्य सृष्ट्यर्थमभिधावता ॥ ५ ॥
निर्गम्य पुनरेवाहं पद्मनालेन यावता ॥
बहिरागां विस्मृतं तत्सर्वं सृष्ट्यर्थकारणम् ॥ ६ ॥
पुनरेव ततो गत्वा प्रजाः सृष्ट्वा चतुर्विधाः ॥
नाभिनालेन निर्गत्य विस्मृतेनांतरात्मना ॥ ७ ॥
तदाहं जडवज्जातो वागुवाचाशरीरिणी ॥
तपस्तप महाबुद्धे जडत्वं नोचितं तव ॥ ८ ॥
दशवर्षसहस्राणि ततोऽहं तप आस्थितः॥
पुनराकाशजा वाणी मामुवाचाविनश्वरा ॥ ९ ॥
वेदरूपाश्रिता पूर्वमाविर्भूता तपोबलात् ॥
ततो भगवताऽऽदिष्टः सृज त्वं बहुधा प्रजाः ॥ ६.२४२.१० ॥
राजसं गुणमाश्रित्य भूतसर्गमकल्मषम् ॥
मनसा मानसी सृष्टिः प्रथमं चिंतिता मया ॥ ११ ॥
ततो वै ब्राह्मणा जाता मरीच्यादिमुनीश्वराः ॥
तेषां कनीयांस्त्वं जातो ज्ञानवेदांतपारगः ॥ १२ ॥
कर्मनिष्ठाश्च ते नित्यं सृष्ट्यर्थं सततोद्यताः ॥
निर्व्यापारो विष्णुभक्त एकांतब्रह्मसेवकः ॥ १३ ॥
निर्ममो निरहंकारो मम त्वं मानसः सुतः ॥
क्रमान्मया तु तेषां वै वेदरक्षार्थमेव च ॥ १४ ॥
प्रथमा मानसी सृष्टिर्द्विजात्यादिर्विनिर्मिता ॥
ततोहमांगिकीं सृष्टिं सृष्टवांस्तत्र नारद ॥ १५ ॥
मुखाच्च ब्राह्मणा जाता बाहुभ्यः क्षत्रिया मम ॥
वैश्या ऊरुसमुद्भूताः पद्भ्यां शूद्रा बभूविरे ॥ १६ ॥
अनुलोमविलोमाभ्य ांक्रमाच्च क्रमयोगतः ॥
शूद्रादधोऽधो जाताश्च सर्वे पादतलोद्भवाः ॥ १७ ॥
ताः सर्वास्तु प्रकृतयो मम देहांशसंभवाः ॥
नारद त्वं विजानीहि तासां नामानि वच्मि ते ॥ १९ ॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रय एव द्विजातयः ॥
वेदास्तपोऽध्ययनं च यजनं दानमेव च ॥ १९ ॥
वृत्तिरध्यापनाच्चैव तथा स्वल्पप्रतिग्रहात् ॥
विप्रः समर्थस्तपसा यद्यपि स्यात्प्रतिग्रहे ॥ ६.२४२.२० ॥
तथापि नैव गृह्णीयात्तपोरक्षा यतः सदा ॥
वेदपाठो विष्णुपूजा ब्रह्मध्यानमलोभता ॥ २१ ॥
अक्रोधता निर्मलत्वं क्षमासारत्वमार्यता ॥
क्रियातत्परता दानक्रिया सत्यादिभिर्गुणैः ॥ २२ ॥
भूषितो यो भवेन्नित्यं स विप्र इति कथ्यते ॥
क्षत्रियेण तपः कार्यं यजनं दानमेव च ॥ २३ ॥
वेदपाठो विप्रभक्तिरेषां शस्त्रेण जीवनम्॥
स्त्रीबालगोब्राह्मणार्थे भूम्यर्थे स्वामिसंकटे ॥ २४ ॥
संप्रतिशरणं चैव पीडितानां च शब्दिते ॥
आर्तत्राणपरा ये च क्षत्रिया ब्रह्मणा कृताः ॥ २५ ॥
धनवृद्धिकरो वैश्यः पशुपालः कृषीवलः ॥
रसादीनां च विक्रेता देवब्राह्मणपूजकः ॥ २६ ॥
अर्थवृद्धिकरो व्याजा यज्ञकर्मादिकारकः ॥
दानमध्ययनं चेति वैश्यवृत्तिरुदाहृता ॥ २७ ॥
एतान्येव ह्यमंत्राणि शूद्रः कारयते सदा ॥
नित्यं षड्दैवतं श्राद्धं हन्तकारोऽग्नि तर्पणम्॥ २८ ॥
देवद्विजातिभक्तिश्च नमस्कारेण सिद्ध्यति ॥
शूद्रोऽपि प्रातरुत्थाय कृत्वा पादाभिवंदनम् ॥ २९ ॥
विष्णुभक्तिमयाञ्श्लोकान्पठन्विष्णुत्वमाप्नुयात्॥
वार्षिकव्रतकृन्नित्यं तिथिवाराधिदैवतः ॥ ६.२४२.३० ॥
अन्नदः सर्वजीवानां गृहस्थः शूद्र ईरितः ॥
अमंत्राण्यपि कर्माणि कुर्वन्नेव हि मुच्यते ॥ ३१ ॥
चातुर्मास्यव्रतकरः शूद्रोऽपि हरितां व्रजेत् ॥
शिल्पी च नर्तकश्चैव काष्ठकारः प्रजापतिः ॥ ३२ ॥
वर्धकिश्चित्रकश्चैव सूत्रको रजकस्तथा ॥
गच्छकस्तन्तुकारश्च चक्रिकश्चर्मकारकः ॥ ३३ ॥
सूनिको ध्वनिकश्चैव कौल्हिको मत्स्यघातकः ॥
औनामिकस्तु चंडालः प्रकृत्याष्टादशैव ते ॥ ३४ ॥
शिल्पिकः स्वर्णकारकश्च दारुकः कांस्यकारकः ॥
काडुकः कुम्भकारश्च प्रकृत्या उत्तमाश्च षट् ॥ ३५ ॥
खरवाह्युष्ट्रवाही हयवाही तथैव च ॥
गोपाल इष्टिकाकारो अधमाधमपञ्चकम् ॥ ३६ ॥
रजकश्चर्मकारश्च नटो बुरुड एव च ॥
कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥३७॥
यो यस्य हीनो वर्णेन स चाष्टादशमो नरः ॥
सर्वासां प्रकृतीनां च उत्तमा मध्यमाः समाः ॥३८॥
भेदास्त्रयः समाख्याता विज्ञेयाः स्मृतिनिर्णयात् ॥
शिल्पिनः सप्त विज्ञेया उत्तमाः समुदाहृताः ॥ ३९ ॥
स्वर्णकृत्कंबुकश्चैव तन्दुलीपुष्पलावकः ॥
तांबूली नापितश्चैव मणिकारश्च सप्तधा ॥ ६.२४२.४० ॥
न स्नानं देवताहोमस्तपोनियम एव च ॥
न स्वाध्यायवषट्कारौ न च शुद्धिर्विवाहिता ॥ ४१ ॥
एतासां प्रकृतीनां च गुरुपूजा सदोदिता ॥
विप्राणां प्राकृतो नित्यं दानमेव परो विधिः ॥ ४२ ॥
सर्वेषामेव वर्णानामाश्रमाणां महामुने ॥
सर्वासां प्रकृतीनां च विष्णुभक्तिः सदा शुभा ॥ ४३ ॥
इति ते कथितं सर्वं यथाप्रकृतिसंभवम् ॥
कथां शृणु महापुण्यां शूद्रः शुद्धिमगाद्यथा ॥ ४४ ॥
इदं पुराणं परमं पवित्रं विशुद्धधीर्यस्तु शृणोति वा पठेत् ॥
विधूय पापानि पुरार्जितानि स याति विष्णोर्भवनं क्रियापरः ॥ ४५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्येऽष्टादशप्रकृतिकथनंनाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४२ ॥