सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २२६

विकिस्रोतः तः

॥ भर्तृयज्ञ उवाच ॥ ॥
यतः सपिंडता प्रोक्ता पितृपिण्डैः समंततः ॥
यावत्सपिण्डता नैव तावत्प्रेतः स तिष्ठति ॥ १ ॥
अपि धर्मसमोपेतस्तपसाऽपि समन्वितः ॥
एतस्मात्कारणात्प्रोक्ता मुनिभिस्तु सपिंडता ॥ २ ॥
यस्ययस्य च योऽन्यत्र योनिं प्राप्नोति मानवः ॥
तत्रस्थस्तृप्तिमाप्नोति यद्दत्तं तस्य वंशजैः ॥ ३ ॥
॥ आनर्त उवाच ॥ ॥
ये दृश्यंते निजाः स्वप्ने चिरात्पितृपितामहाः ॥
प्रार्थयंति निजान्कामांस्ततः किं स्यान्महामुने ॥ ४ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
येषां गतिर्न संजाता प्रेतत्वे च व्यवस्थिताः ॥
दर्शयंति च ते सर्वे स्वयमात्मानमेव हि ॥ ५ ॥
स्ववंश्यानां न चान्ये तु सत्यमेतन्मयोदितम् ॥
यथा लोकेऽत्र संजाता ये च कृत्यैः शुभाशुभैः ॥ ६ ॥
॥ आनर्त उवाच ॥ ॥
यस्य नो विद्यते पुत्रः सपिण्डीकरणं कथम् ॥
तस्य कार्यं भवेदत्र तन्मे त्वं वक्तुमर्हसि ॥ ॥ ७ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
यस्य नो विद्यते पुत्र औरसश्च महीपते ॥
चतुर्णां स्वपितॄणां तु कथं स स्याच्चतुर्थकः ॥ ८ ॥
प्रकर्षेण व्रजेद्यस्मात्तस्मात्प्रेतः प्रकीर्तितः ॥
पुत्रेण भ्रात्रा पत्न्या वा तस्य कार्या सपिंडता ॥ ९ ॥
चतुर्थो यदि राजेंद्र जायते न कथंचन ॥
क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् ॥ ६.२२६.१० ॥
पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥
काले यदि न राजेंद्र जायतेऽस्योत्तरक्रिया ॥ ११ ॥
नारायणबलिः कार्यः प्रेतत्वस्य विनाशकः ॥
यथान्येषां मनुष्याणामपमृत्युमुपेयुषाम् ॥
कार्यश्चैवात्महंतॄणां ब्राह्मणान्मृत्युमीयुषाम् ॥ १२ ॥
॥ आनर्त उवाच ॥ ॥
 कथं मृत्युमवाप्नोति पुरुषोऽत्र महामते ॥ १३ ॥
स्वर्गं वा नरकं वापि कर्मणा केन गच्छति ॥
मोक्षं वाऽथ महाभाग सर्वं मे विस्त राद्वद ॥ १४ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
धर्मी पापी तथा ज्ञानी तिस्रोऽत्र गतयः स्मृताः ॥
धर्मात्संप्राप्यते स्वर्गः पापान्नरक एव च ॥ १५ ॥
ज्ञानात्संप्राप्यते मोक्षः सत्यमेतन्मयोदितम् ॥
एनमर्थं भविष्यं तु भीष्मं शांतनवं नृप ॥ १६ ॥
युधिष्ठिरो महाराज धर्मपुत्रो नृपोत्तमः ॥
कृष्णेन सह राजेंद्र पितामहमपृच्छत ॥ १७ ॥
॥ युधिष्ठिर उवाच ॥ ॥
कियंतो नरकाः ख्याता यमलोके पितामह ॥
केन पापेन गच्छंति तेषु सर्वेषु जंतवः ॥ १८ ॥
॥ श्रीभीष्म उवाच ॥ ॥
एकविंशत्प्रमाणाः स्युर्नरका यममंदिरे ॥
प्राणिनस्तेषु गच्छंति निजकर्मानुसारतः ॥ १९ ॥
ख्यातौ चित्रविचित्रौ च कायस्थौ यममंदिरे ॥ ६.२२६.२० ॥
चित्रोऽथ लिखते धर्मं सर्वं प्राणिसमुद्भवम् ॥
विचित्रः पातकं सर्वं परमं यत्नमास्थितः ॥ २१ ॥
यमदूताः सदैवाष्टौ धर्मराजसमुद्भवाः ॥
ये नयंति नरान्मृत्युलोकात्स्ववशगान्सदा॥ २२ ॥
करालो विकरालश्च वक्रनासो महोदरः ॥
सौम्यः शांतस्तथा नंदः सुवाक्यश्चाष्टमः स्मृतः ॥ २३ ॥
एतेषां ये पुरा प्रोक्ताश्चत्वारो रौद्ररूपिणः ॥
पापं जनं च ते सर्वे नयन्ति यमसादनम् ॥ २४ ॥
चत्वारो ये परे प्रोक्ताः सौम्यरूपवपुर्द्धराः ॥
धर्मिणं ते जनं सर्वं नयंति यमसादनम् ॥ २५ ॥
विमानेन समारूढमप्सरोगणसेवितम् ॥ २६ ॥
लिखितस्यानुरूपेण पापधर्मोद्भवस्य च ॥
एतेषां किंकरा ये च तेषां संख्या न जायते ॥ २७ ॥
अष्टोत्तरशतं तेषां व्याधीनां परिकल्पितम् ॥
सहायार्थं यमेनात्र ज्वरयक्ष्मांतरस्थितम् ॥ २८ ॥
ते गत्वा व्याधयः पूर्वं वशे कुर्वंति मानवम् ॥ २९ ॥
यमदूतास्ततो गत्वा नाभिमूलव्यवस्थितम्॥
वायुरूपं समादाय जनैः सर्वैरलक्षिताः ॥ ६.२२६.३० ॥
गच्छंति यममार्गेण देहं संस्थाप्य भूतले ॥
षडशीतिसहस्राणि यममार्गः प्रकीर्तितः ॥ ॥ ३१ ॥
तत्र वैतरणीनाम नदी पूर्वं परिश्रुता ॥
स्रोतोभ्यां सा महाभाग तत्र संस्था सदैव हि ॥ ३२ ॥
तत्र शोणितमेकस्मिन्स्रोतस्यस्या वह त्यलम्॥
शस्त्राणि च सुतीक्ष्णानि तन्मध्ये भरतर्षभ ॥ ३३ ॥
मृत्युकाले प्रयच्छंति ये धेनुं ब्राह्मणाय वै ॥
तस्याः पुच्छं समाश्रित्य ते तरंति च तां नृप॥३४॥
स्वबाहुभिस्तथैवान्ये शतयोजनविस्तृतम्॥
द्वितीयं चैव तत्स्रोतो वैतरण्या व्यवस्थितम्॥
तस्यास्तत्सलिलस्रावि गम्यं धर्मवतां सदा॥३५॥
ये नरा गोप्रदातारो मृत्युकाले व्यवस्थिते॥
ते गोपुच्छं समाश्रित्य तां तरंति पृथूदकाम्॥
अन्ये स्वबाहुभिः कृत्वा गोप्रदानविवर्जिताः॥३६॥
गोप्रदानं प्रकर्तव्यं तस्माच्चैव विशेषतः।.
मृत्युकालेऽत्र संप्राप्ते य इच्छेद्गतिमात्मनः॥३७॥
तस्या अनन्तरं यांति पापमार्गेण पापिनः॥
धर्मिष्ठा धर्ममार्गेण विमानवरमाश्रिताः॥३८॥
वैतरण्याः परं पारे पंचयोजनमायतम्॥
असिपत्रवनंनाम पापलोकस्य दुःखदम्॥३९॥
तत्र लोहमयान्येवासिपत्राणां शतानि च॥
यानि कृन्तंति मर्त्यानां शरीराणि समंततः॥६.२२६.४०॥
यैर्हृतं परवित्तं च कलत्रं च दुरात्मभिः॥
नव श्राद्धानि तेषां चेत्तस्मान्मुक्तिः प्रजायते॥४१॥
तस्मात्परतरो ज्ञेयो विख्यातः कूटशाल्मलिः॥
अधोमुखाः प्रलंबंते तस्मिन्कंटकसंकुले॥४२॥
अधस्ताद्वह्निना चैव दह्यमाना दिवानिशम्॥
विश्वासघातका ये च सर्वदैव सुनिर्दयाः॥
तस्मान्मुक्तिं प्रयांति स्म श्राद्धे ह्येकादशे कृते॥४३॥
यंत्रात्मकस्ततः प्रोक्तो नरको दारुणाकृतिः॥
ब्रह्मघ्नास्तत्र पीड्यंते ये चाऽन्ये पापकर्मिणः॥४४॥
श्राद्धेन द्वादशोत्थेन तेभ्यो दत्तेन पार्थिव॥
तस्मान्मुक्तिं प्रगच्छन्ति यन्त्राख्यनरकात्स्फुटम् ॥ ४५ ॥
ततो लोहसमाः स्तंभा ज्वलमाना व्यवस्थिताः ॥
आलिंगंति च तान्सर्वान्परदाररताश्च ये ॥ ॥ ४६ ॥
मासिकोत्थे कृते श्राद्धे तेभ्यो मुक्तिमवाप्नुयुः ४७ ॥
लोहदंष्ट्रास्ततो रौद्राः सारमेया व्यवस्थिताः ॥
भक्षयंति च ते पापान्पृष्ठमांसा शिनो नरान् ॥
त्रैपक्षिके कृते श्राद्धे तेभ्यो मुक्तिमवाप्नुयुः ॥ ४८ ॥
लोहचंचुमयाः काकाः संस्थितास्तदनंतरम् ॥
सरागैर्लोचेनैर्यैश्च ईक्षिताः पर योषितः ॥ ४९ ॥
तेषां नेत्राणि ते घ्नंति भूयो जातानि भूरिशः ।
द्विमासिकं च यच्छ्राद्धं तेन मुक्तिः प्रजायते । ६.२२६.५० ॥
ततः शाल्मलिकूटस्तु तथान्ये लोहकण्टकाः ॥
तेषां मध्येन नीयंते पैशुन्यनिरता नराः ॥
त्रिमासिकं तु यच्छ्राद्धं तेन मुक्तिः प्रजायते ॥ ५१ ॥
रौरवोऽथ सुविख्यातो दारुणो नरको महान् ॥
ब्रह्मघ्नानां समादिष्टः स महाक्लेशकारकः ॥ ५२ ॥
छिद्यंते विविधैः शस्त्रैस्तत्रस्था ये मुहुर्मुहुः ॥
चतुर्मासिकश्राद्धेन मुक्तिस्तेषां प्रजायते ॥ ५३ ॥
अपरस्तु समाख्यातः क्षारोदस्तु सुदारुणः ॥
कृतघ्नानां समादिष्टः सदैव बहुवेदनः ॥ ५४ ॥
अधोमुखा ऊर्ध्व पादाः पीड्यंते यत्र लंबिताः ॥
पञ्चमासिकदानेन मुक्तिस्तेषां प्रजायते ॥ ५५ ॥
कुम्भीपाकस्ततो ज्ञेयो नरको दारुणाकृतिः ॥
तैलेन क्षिप्यमाणास्तु यत्र दण्डाभिसंधिताः ॥
दृश्यंते जनहंतारो बालहंतार एव च ॥ ५६ ॥
पतंति नरके रौद्रे नरा विश्वासघातकाः॥
षण्मासिकप्रदानेन मुच्यंते तत्र संकटात् ॥ ५७ ॥
सर्पवृश्चिकसंयुक्तस्तथाऽन्यो नरकः श्रुतः ॥
तत्र ये दांभिका लोके ते गच्छन्ति नराधमाः ॥
सप्तमासिकदानेन तेषां मुक्तिः प्रजायते ॥ ५८ ॥
तथा संवर्तकोनाम नरकोऽन्यः प्रकीर्तितः ॥
वेदविप्लावकाः साधुनिंदकाश्च दुरात्मकाः ॥ ५९ ॥
उत्पाट्यते ततो जिह्वा सन्दंशैर्व ह्निसम्भवैः ॥
स्वकार्ये येऽनृतं ब्रूयुस्तद्गात्रं खाद्यते श्वभिः ॥ ६.२२६.६० ॥
परार्थेऽपि च ये ब्रूयुस्तेषां गात्राणि कृत्स्नशः ॥
अष्टमासिकदानेन तेषां मुक्तिः प्रजायते ॥ ६१ ॥
अग्निकूटो महाप्लावो दारुणो नरको महान् ॥
तत्र ते यांति वै मूढाः कूटसाक्ष्यिप्रदा नराः ॥ ६२ ॥
तत्रस्था यातनां रौद्रां सहं तेऽतीव दुःखिताः ॥
नवमासिकदानं च तेषामाह्लादनं परम् ॥ ६३ ॥
ततो लोहमयैः कीलैः संचितोऽन्यः समंततः ॥
तत्र चाग्निप्रदातारः स्त्रीणां हन्तार एव च ॥ ६४ ॥
तत्र धावंति दुःखार्तास्ताड्यमानाश्च किंकरैः ॥
दशमासिकजं दानं तत्र तेषां प्रमुक्तये ॥६८५॥
ततोंऽगारमयैः पुंजैरावृताभूः समंततः ॥
स्वामिद्रोहरतास्तत्र भ्राम्यंते सर्वतो दिशः ॥ ६६ ॥
एकादशोद्भवं दानं तत्र मुक्त्यै प्रजायते ॥
संतप्तसिकतापूर्णो नरको दारुणाकृतिः ॥ ॥६७॥
स्वामिनं चागतं दृष्ट्वा पलायनपरायणाः ॥
ये भवन्ति नरास्तत्र पच्यंते तेऽपि दुःखिताः ॥
तेषां द्वादशमासीयं श्राद्धं चैवोपतिष्ठति ॥६८॥
यत्किंचिद्दीयते तोयमन्नं वा वत्सरांतरे ॥
प्रभुंजते च तन्मार्गे प्रदत्तं निजबान्धवैः ॥ ६९ ॥
ततः संवत्सरादूर्ध्वं निजकर्मसमुद्भवम् ॥
शुभाशुभं प्रपद्यंते धर्मराजसमीपगाः ॥ ६.२२६.७० ॥
एवं पंचदशैतानि संसेव्य नरकाणि ते ॥
प्राप्नुवंति ततो जन्म मर्त्यलोके पुनर्नराः ॥ ७१ ॥
प्राप्नुवंति विदेशे च जन्म ये हेतुवादकाः ॥
नित्यं तर्पणदानेन तेषां तृप्तिः प्रजायते ॥ ७२ ॥
स्वामिद्रोहरता ये च कुराज्ये जन्म चाप्नुयुः ॥
हंतकारप्रदानेन तेषां तृप्तिः प्रजायते ॥ ७३ ॥
अदत्त्वा ये नरोऽश्नंति पितृदेवद्विजातिषु ।।
दुर्भिक्षे जन्म तेषां तु तेन पापेन जायते ॥ ७४ ॥
क्षयाहे श्राद्धसंप्राप्तौ तत स्तृप्तिः प्रजायते ॥ ७५८ ॥
ये प्रकुर्वंति दम्पत्योर्भेदं वै सानुरागयोः ॥
परस्परमसत्यानि तेषां भार्याऽसती भवेत् ॥ ७६ ॥
एकस्मिन्वचने प्रोक्ते दश ब्रूते क्रुधान्विता ॥
विरूपा भ्रममाणा च सर्वलोकविगर्हिता ॥
कन्यादानफलैस्तेषां तत्रासां च सुखं भवेत् ॥ ७७ ॥
कन्यकादानविघ्नं हि विक्रयं वा करोति यः ॥
स कन्याः केवलाः सूते न पुत्रं केवलं क्वचित् ॥ ७८ ॥
जायंते ताश्च बंधक्यो विधवा दुर्भगास्तथा ॥
कन्यादानफल प्राप्त्या तासां सौख्यं प्रजायते ॥ ७९ ॥
यैर्हृतानि च रत्नानि तथा शास्त्रांतराणि च ॥
ते दरिद्राः प्रजायंते मूकाः खंजा विचक्षुषः॥
तेषां शास्त्र प्रदानेन इह सौख्यं प्रजायते ॥ ६.२२६.८० ॥
एते तु नरकाः प्रोक्ता मर्त्यलोकसमुद्भवाः ॥
एतैर्विज्ञायते सर्वं कृतं कर्म शुभाशुभम् ॥ ८१ ॥
तीर्थयात्राफलैस्तस्य ततः शुद्धिः प्रजायते ॥ ८२ ॥
॥ भीष्म उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोस्मि नराधिप ॥
एकविंशत्प्रमाणं च नरकाणां यथा स्थितम् ॥ ८३ ॥
भूयश्च पृच्छ राजेंद्र संदेहो यो हृदि स्थितः ॥ ८४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे भीष्मयुधिष्ठिरसंवादे तत्तद्दुरितप्राप्यैकविंशतिनरकयातनातन्निवारणोपायवर्णनंनाम षड्विंशत्युत्तरद्विशत तमोऽध्यायः ॥२२६ ॥