स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २२०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ आनर्त उवाच ॥ ॥
त्रयोदश्यां कृते श्राद्धे कस्माद्वंशक्षयो भवेत् ॥
एतन्मे सर्वमाचक्ष्व विस्तरात्त्वं महा मुने॥
भर्तृयज्ञ उवाच॥
एषा मेध्यतमा राजन्युगादिः कलिसंभवा॥
स्नाने दाने जपे होमे श्राद्धे ज्ञेया तथाऽक्षया ॥ २ ॥
अस्यां चेत्तु गजच्छाया तिथौ राजन्प्रजायते ॥
तदाऽक्षयं मघायोगे श्राद्धं संजायते ध्रुवम्॥३॥
यः क्षीरं मधुना युक्तं तस्मिन्नहनि यच्छति ॥
पितॄनुद्दिश्य यो मांसं दद्याद्वाध्रीणसं च यः ॥ ४ ॥
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥
त्रिःपिबंत्विंद्रियक्षीणं श्वेतं वृद्धमजापतिम् ॥ ५ ॥
तं तु वाध्रीणसं विद्यात्सर्वयूथाधिपं तथा ॥
खड्गमांसं च वा दद्यात्तृप्तिर्द्वादशवार्षिकी ॥
संजायते न संदेहस्तेषां वाक्यं न मे मृषा ॥ ६ ॥
आसीद्रथंतरे कल्पे पूर्वं पार्थिवसत्तमः॥
सिताश्वो नाम पांचालदेशीयःपितृभक्तिमान्॥७॥
मधुना कालशाकेन खड्गमांसेन केवलम् ॥
स हि श्राद्धं त्रयोदश्यां कुरु ते पायसेन च ॥ ८ ॥
सोमवंशं समुद्दिश्य श्राद्धं यच्छति भक्तितः ॥९॥
अथ तैर्बाह्मणैः सर्वैः स भूयः कौतुकान्वितैः ॥
कस्यचित्त्वथ कालस्य पृष्टो भुक्त्वा यथेच्छया ॥ ६.२२०.१० ॥
श्राद्धादनंतरं राजन्दृष्ट्वा तं श्रद्धयाऽन्वितम् ॥
पादावमर्द्दनपरं प्रणिपातपुरः सरम् ॥११॥
॥ ब्राह्मणा ऊचुः ॥ ॥
कृत्वा श्राद्धं महाराज प्रदातव्याऽथ दक्षिणा ॥
ब्राह्मणेभ्यस्ततः श्राद्धं पितॄणां चोपतिष्ठति ॥ १२ ।।
सा त्वया कल्पिताऽस्माकं वितीर्णाद्यापि नो नृप।
कुप्याकुप्यं परित्यज्य तां देहि नृप मा चिरम् ॥ १३ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
तच्छ्रुत्वा च नृपः प्राह संप्रहृष्टेन चेतसा ॥
धन्योऽस्म्यनुगृहीतोऽस्मि विप्रैरद्य न संशयः ॥ १४ ॥
ये वांछंति ममाभीष्टं श्राद्धे भुक्त्वाऽथ पैतृके १।
तस्माद्ब्रूत महाभागा युष्मभ्यं किं ददाम्यहम् ॥ १५ ॥
वर न्नागान्मदोन्मत्तान्भद्रजातिसमुद्भवान् ॥
किं वा सप्तिप्रधानांश्च मनोमारुतरंहसः ॥ १६ ॥
किं वा स्थानानि चित्राणि ग्रामाणि नगराणि च ॥
पितॄनुद्दिश्य यत्किंचिन्नादेयं विद्यते यतः ॥ १७ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
नास्माकं वाजिभिः कार्यं न रत्नैर्न च हस्तिभिः ॥
न देशैर्ग्राममुख्यैर्वा नान्येनापि च केनचित् ॥ १८ ॥
यदर्थेन महाराज पृष्टोस्माभिर्यतो भवान् ॥
तस्मान्नो दक्षिणां देहि संदेहघ्नां तपोत्तम ॥ १९ ॥
यां पृच्छामो वयं सर्वे कौतूहलसमाहिताः ॥ ६.२२०.२० ॥
॥ राजोवाच ॥ ॥
उपदेशाधिकारोऽस्ति ब्राह्मणानां महात्मनाम् ॥
दातुं नैव ग्रहीतुं च नी चजात्यस्य वैदिकाः ॥ २१ ॥
सोऽहं राजा न सर्वज्ञो यो यच्छामि द्विजोत्तमाः ॥
उपदेशं हि युष्मभ्यं सर्वज्ञेभ्यो विचक्षणाः ॥ २२ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
गुरुशिष्यसमुत्थोऽयमुपदेशो महीपते ॥
प्रार्थयामो वयं किंचिन्मा भयं त्वं समाविश ॥ २३ ॥
वयं च प्रश्नमेकं हि पृच्छामो यदि भूपते ॥
ब्रूषे कौतुकयुक्तानां सर्वेषां च द्विजन्मनाम् ॥ २४ ॥
तस्माद्वद महाभाग यदि जानासि तत्त्वतः ॥
न चेद्गुह्यतमं किंचित्पृच्छामस्त्वां कुतूहलात् ॥ २५ ॥
॥ राजोवाच ॥ ॥
यदि वः संशयो विप्रा युष्मत्प्रश्नमसंशयम् ॥
कथयिष्याभि चेद्गुह्यं तद्वद्ध्वं गप्ल? ज्वराः ॥ २६ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
अन्नेषु च विचित्रेषु लेह्येषु विविधेषु च ॥
अमृतेष्वेषु सर्वेषु तथा पेयेषु पार्थिव ॥ ॥ २७ ॥
तस्मादद्य दिने ब्रूहि मधु यच्छसि गर्हितम् ॥
वर्तते च यथाऽभक्ष्यं ब्राह्मणानां विशेषतः ॥ २८ ॥
तथा विचित्र मासेषु संस्थितेषु नराधिप ॥
खङ्गमांसं निरास्वादं कस्माद्यच्छसि केवलम् ॥ २९ ॥
संति शाकानि राजेन्द्र पावनीयानि सर्वशः ॥
सुष्ठु स्वादु कराण्यत्र व्यञ्जनार्थं महीपते ॥ ६.२२०.३० ॥
कालशाकं सकटुकं मुखाऽऽधिजनकं महत् ॥
कस्माद्यच्छसि चास्माकं भक्त्या परमया युतः ॥
न श्राद्धे प्रतिषेधश्च प्रकर्तव्यः कथंचन ॥ ३१ ॥
न च त्याज्यं समुच्छिष्टं तेन भुंजामहे ततः ॥
तदत्र कारणेनैव गुरुणा भाव्यमेव हि ॥
येन त्वं यच्छसि प्राय एतत्सिद्धिर्भवेत्स्थिता ॥ ३२ ॥
तस्मात्कथय नः सर्वं परं कौतूहलं हि नः ॥
निःस्वादितं यथा दद्यादीदृक्छ्राद्धे विगर्हितम् ॥ ३३ ॥
यथा त्वं नृपशार्दूल श्रद्धया संप्रयच्छसि ॥ ३४ ॥
तच्छ्रुत्वा वचनं तेषां ब्राह्मणानां महात्मनाम् ॥
स वैलक्ष्यस्मितं प्राह सलज्जं पृथिवीपतिः ॥ ३५ ॥
गुह्यमेतन्महाभागा अस्माकं यदि संस्थितम् ॥
अवाच्यमपि वक्ष्यामि शृणुध्वं सुसमाहिताः ॥ ३६ ॥
अहमासं पुरा पापो लुब्धकश्चान्य जन्मनि ॥
निहंता सर्वजंतूनां तथा भक्षयिता पुनः ॥ ३७ ॥
पर्यटामि तदारण्ये धनुषा मृगयारतः ॥
सिंहो व्याघ्रो गजेन्द्रो वा शरभो वा द्विजो त्तमाः ॥ ३८ ॥
मद्बाणगोचरं प्राप्तो न जीवत्यपि कर्हिचित् ॥
कस्यचित्त्वथ कालस्य भ्रममाणो महीतले ॥ ३९ ॥
संप्राप्तोऽहं महाभागा अग्नि वेशस्य सन्मुनेः ॥
आश्रमे समनुप्राप्तो निशीथे क्षुत्पिपासितः ॥ ६.२२०.४० ॥
तावत्तत्र सशिष्याणां श्राद्धकर्मविधिं वदन्॥
संस्थितो वेष्टितः शिष्यैः समन्ताद्द्विजसत्तमाः ॥ ४१ ॥
॥ अग्निवेश उवाच ॥ ॥
ऋक्षे पित्र्ये यदा चन्द्रो हंसश्चापि करे व्रजेत् ॥
त्रयोदशी तु सा च्छाया विज्ञेया कुञ्जरोद्भवा ॥ ४२ ॥
पित्र्ये यदास्थितश्चेन्दुर्हंसश्चापि करे स्थितः ॥
तिथिर्वैश्रवणी या च सा च्छाया कुञ्जरस्य च ॥ ४३ ॥
सैंहिकेयो यदा चंद्रं ग्रसते पर्वसंधिषु ॥
हस्तिच्छाया तु सा ज्ञेया तस्यां श्राद्धं समाचरेत् ॥ ४४ ॥
तस्यां यः कुरुते श्राद्धं जलैरपि प्रभक्तितः ॥
यावद्द्वादश वर्षाणि पितरस्तस्य तर्पिताः ॥ ४५ ॥
वनस्पतिगते सोमे या च्छाया पूर्वतोमुखी ॥
गजच्छाया तु सा ज्ञेया पितॄणां दत्तमक्षयम् ॥ ४६ ॥
सा भवेच्च न सन्देहः पुण्यदा पैतृकी तिथिः ॥
तस्यां श्राद्धं प्रकर्तव्यं संभाराः संभृताश्च ये ॥ ४७ ॥
प्रभाते तु न सन्देहः पितॄणां परितृप्तये ॥
शाकैस्तथैंगुदैर्बिल्वैर्बदरैश्चिर्भटैरपि ॥ ४८। ॥
यदन्नं पुरुषोऽश्नाति तदन्नास्तस्य देवताः ॥
बाढमित्येव ते प्रोच्य गताः स्वंस्वं निकेतनम् ॥ ४९ ॥
सर्वे शिष्या महाभागाः नारायणपुरोगमाः ॥
अग्निवेश्योऽपि सुष्वाप समामन्त्र्य द्विजोत्तमान्॥ ६.२२०.५० ॥
तेन संकथ्यमानं च रात्रौ तच्च श्रुतं मया ॥
अहं चापि करिष्यामि प्रातः श्राद्धमसंशयम् ॥ ५१ ॥
निहत्य खड्गमादाय तस्य मांसं सुपुष्कलम् ॥
तथा मधु समादाय कालशाकं विशेषतः ॥ ॥ ५२ ॥
स्वजातीयेभ्य आदाय तर्पयिष्यामि तान्पितॄन् ॥ ५३ ॥
एवं निश्चित्य मनसा प्रसुप्तोऽहं द्विजोत्तमाः ॥
ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥५४॥
मधुजालानि भूरीणि गृहीतानि मया ततः ॥
कालशाकं तथा लब्धं स्वेच्छया द्विजसत्तमाः ॥५५॥
ततः सर्वं समादाय श्रपितं तत्क्षणान्मया ॥
स्नात्वा च निजवर्गाणां पितॄनुद्दिश्य चात्मनः ॥
प्रदत्तं लुब्धकानां च भक्तिपूर्वं द्विजोत्तमाः ॥ ५६ ॥
एवं मया पुरा दत्तं पितॄ नुद्दिश्य तान्निजान् ॥
नान्यत्किंचिन्मया दत्तं कदाचित्कस्यचिद्विजाः ॥ ५७ ॥
ततः कालेन महता मृत्युं प्राप्तोऽस्म्यहं द्विजाः ॥
तद्दानस्य प्रभावेन पार्थिवीं योनिमाश्रितः ॥ ५८ ॥
एवं जातिस्मरत्वं च सञ्जातं मे द्विजोत्तमाः ॥
ते च मे तर्पितास्तेन खड्गमांसेन माक्षिकैः ॥५९ ॥
संप्राप्ताः परमां प्रीतिं ततो द्वाशवार्षिकीम् ॥
एतस्मात्कारणाच्छ्राद्धं प्रकरोमि द्विजोत्तमाः ॥ ६.२२०.६० ॥
खड्गमांसेन मधुना कालशाकेन भूरिशः ॥
विधिहीनं द्विजैर्हीनं तिलदर्भैर्विवर्जितम् ॥ ६१ ॥
मया तद्विहितं श्राद्धं तस्यैतत्फलमागतम् ॥
सांप्रतं विधिना सम्यग्ब्राह्मणैर्वेदपारगैः ॥ ६२ ॥
उपविष्टैः करोम्येव यच्छ्राद्धं श्रद्धयान्वितः ॥
दर्भैस्तिलैः समोपेतं मन्त्रवच्च द्विजोत्तमाः ॥ ६३ ॥
नो जानामि फलं किं वा सांप्रतं च भविष्यति ॥
तस्मादेवं परिज्ञाय यूयं चैव द्विजोत्तमाः ॥ ६४ ॥
संतर्पयध्वं च पितॄन्निजान्गजदिने स्थिते ॥
छायायां चैव जातायां कुञ्जरस्य द्विजोत्तमाः ॥६५॥
येन संजायते तृप्तिः पितॄणां द्वादशाब्दिकी ॥
युष्माकं च गतिः श्रेष्ठा यथा जाता ममाधुना ॥ ६६ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा सर्वे ते ब्राह्मणोत्तमाः ॥
संतुष्टाः साधुवादांश्च ददुस्तस्य महीपतेः ॥ ६७ ॥
ततःप्रभृति चक्रुस्ते श्राद्धानि द्विजसत्तमाः ॥
त्रयोदश्यां नभस्यस्य कृष्णायां भक्तितत्पराः ॥ ६८ ॥
मधुना कालशाकेन खड्गमांसेन तर्पिताः ॥
प्राप्नुवंति परां सिद्धिं विमानवरमास्थिताः ॥ ६९ ॥
स्पर्धंते सहिता दैवैः पितरश्च विशेषतः ॥
वंशजेन प्रदत्तस्य प्रभावात्सुरसत्तमाः ॥ ६.२२०.७० ॥
श्राद्धार्थं संपरिज्ञाय मन्त्रं चक्रुः परस्परम् ॥
आदित्या वसवो रुद्रा नासत्यावपि पार्थिव ॥ ७१ ॥
यथा न भवति श्राद्धं तस्मिन्नहनि भूतले ॥
यत्प्रभावाद्वयं सर्वे मानुषैः श्राद्धमाश्रितैः ॥
न यामोऽभिभवस्थानं तस्माच्छप्स्यामहे च तान् ॥ ७२ ।१
अद्यप्रभृति यः श्राद्धं त्रयोदश्यां करिष्यति ॥
कन्यासंस्थे सहस्रांशौ तस्य स्याद्वंशसंक्षयः ॥७३॥
इति शापेन देवानां निर्दग्धेयं महातिथिः ॥ ७४ ॥
ततःप्रभृति नैतस्या क्रियते श्राद्धमुत्तमम् ॥
यः प्रमादेन कुरुते तस्य स्याद्वंश संक्षयः ॥ ७६ ॥
येन भीता न कुर्वंति च्छायायां कुञ्जरस्य च ॥
विशेषेण गजच्छाये तत्र पिण्डोऽयमाहृतः ॥ ७३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे गजच्छायामाहात्म्यवर्णनंनाम विंशत्युत्तरद्विशत तमोऽध्यायः ॥ २२० ॥