स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २१७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ आनर्त उवाच ॥ ॥
विधिना येन कर्तव्यं श्राद्धं सर्वं मुनीश्वर॥
तमाचक्ष्वाऽद्य कार्त्स्न्येन श्रद्धा मे महती स्थिता॥ १ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
शृणु राजन्प्रवक्ष्यामि श्राद्धस्य विधिमुत्तमम् ॥
पितॄणां तुष्टिदं नित्यं सर्वकामप्रदं नृणाम् ॥ २ ॥
स्वकर्मोपार्जितैर्वित्तैः श्राद्धकार्याणि चाहरेत् ॥
मायादिभिर्न चौर्येण न च्छलाप्तैर्न वंचनैः॥
स्ववृत्त्योपार्जितैर्वित्तैः श्राद्धद्रव्यं समाहरेत्॥
सुप्रतिग्रहजैर्द्रव्यैर्ब्राह्मणानां विशिष्यते॥४॥
रक्षणाप्तैर्नरेन्द्रस्य वैश्यस्य क्षेत्र संभवैः॥
शूद्रस्य पण्यलब्धैश्च श्राद्धं कर्तुं प्रयुज्यते॥५॥
एवं शुद्धिसमोपेते द्रव्ये प्राप्ते गृहांतिकम्॥
पूर्वेद्युः सायमासाद्य श्राद्धार्हाणां द्विजन्मनाम्॥ ६ ॥
गृहं गत्वा शुचिर्भूत्वा कामक्रोधविवर्जितः॥
आमंत्रयेद्यतीन्पश्चात्स्नातकान्ब्रह्मकर्मिणः॥७॥
तदभावे गृहस्थांश्च
ब्रह्मज्ञानपरायणान्॥ अग्निहोत्रपरान्विप्रान्वेदविद्याविचक्षणान्॥८॥
श्रोत्रियांश्च तथा वृद्धान्षट्कर्मनिरतान्सदा॥
बहुभृत्यकुटुम्बांश्च दरिद्रा्न्संयुतान्गुणैः॥९॥
अव्यंगान्रोगनिर्मुक्ताञ्जिताहारांस्तथा शुचीन् ॥
एते स्युर्ब्राह्मणा राजञ्छ्राद्धार्हाः परिकीर्तिताः ॥ ६.२१७.१० ॥
अनर्हा ये च निर्दिष्टाः शृणु तानपि वच्मि ते ॥
हीनांगानधिकांगांश्च सर्वभाक्षन्निराकृतीन् ॥ ११ ॥
श्यावदन्तान्वृथादन्तान्वेदविक्रयकारकान् ॥
वेदविप्लवकान्वापि वेदशास्त्रविवर्जितान् ॥ ॥ १२ ॥
कुनखान्रोगसंयुक्तान्द्विर्नग्नान्परहिंसकान्॥
जनापवादसंयुक्तान्नास्तिकानृतकानपि ॥ १३ ॥
वार्धुषिकान्विकर्मस्थाञ्छौचाचारविवर्जि तान्॥
अतिदीर्घान्कृशान्वापि स्थूलानपि च लोमशान् ॥ १४ ॥
निर्लोमान्वर्जयेच्छ्राद्धे य इच्छेत्पितृगौरवम्॥
परदाररता ये च तथा यो वृषली पतिः ॥ १५ ॥
वंध्या वै वृषली प्रोक्ता वृषली च मृतप्रजा ॥
अपरा वृषली प्रोक्ता कुमारी या रजस्वला ॥ १६ ॥
षण्ढो मलिम्लुचो दम्भी राजपै शुन्यवृत्तयः ॥
सगोत्रायाश्च संभूतस्तथैकप्रवरासुतः ॥ १७ ॥
कनिष्ठः प्राक्कृताधानः कृतोद्वाहश्च प्राक्तु यः ॥
तथा प्राग्दीक्षितो यश्च स त्याज्यो गृहसंयुतः ॥ १८ ॥
पितृमातृपरित्यागी तथाच गुरुतल्पगः ॥
निर्द्दोषां यस्त्यजेत्पत्नीं कृतघ्नो यश्च कर्षुकः ॥ १९ ॥
शिल्पजीवी प्रमादी च पण्य जीवी कृतायुधः ॥
एतान्विवर्जयेच्छ्राद्धे येषां नो ज्ञायते कुलम् ॥ ६.२१७.२० ॥
अत ऊर्ध्वं प्रवक्ष्यामि ये शस्ताः श्राद्धकर्मणि ॥
ये ब्राह्मणाः पुरा ख्याताः पापानां पंक्तिपावनाः ॥ २१ ॥
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडंगवित् ॥
यश्च विद्याव्रतस्नातो धर्मद्रोणस्य पाठकः॥ २२ ॥
पुराणज्ञस्तथा ज्ञानी विज्ञेयो ज्येष्ठसामवित् ॥
अथर्वशिरसो वेत्ता क्रतुगामी सुकर्मकृत् ॥ २३ ॥
सद्यःप्रक्षालको यश्च शुक्लो दौहित्र एव च ॥
जामाता भागिनेयश्च परोपकरणे रतः ॥ २२ ॥
मृष्टान्नादो मृष्टवाक्यः सदा जपपरायणः ॥
एते ? ब्राह्मणा ज्ञेया निःशेषाः पंक्तिपावनाः ॥ २५ ॥
एतैर्विमिश्रिताः सर्वे गर्हिता अपि ये द्विजाः ॥
पितॄणां तेऽपि कुर्वंति तृप्तिं भुक्त्वा कुलोद्भवाः ॥ २६॥
तस्मात्सर्वप्रयत्नेन कुलं ज्ञेयं द्बिजन्मनाम् ॥
शीलं पश्चाद्वयो नाम कन्यादानं ततः परम् ॥ २७ ॥
श्रुतशीलविहीनाय धर्मज्ञायापि मानवः ॥
श्राद्धं ददाति कन्यां च यस्तेनाग्निं विना हुतम् ॥ २८ ॥
ऊषरे वापि तं सस्यं तुषाणां कण्डनं कृतम्॥
कुलाचारसमोपेतांस्तस्माच्छ्राद्धे नियोजयेत् ॥ २९ ॥
ब्राह्मणान्नृपशार्दूल मन्दविद्याधरानपि ॥
एवं विज्ञाय तान्विप्रान्गृहीत्वा चरणौ ततः ॥ ६.२१७.३० ॥
प्रयत्नेन तु सव्येन पाणिना दक्षिणेन तु ॥
युग्मानथ यथाशक्त्या नमस्कृत्य पुनःपुनः ॥ ३१ ॥
दक्षिणं जान्वथालभ्य मन्त्रमेनमुदीरयेत् ॥
आगच्छंतु महाभागा विश्वेदेवा महाबलाः ॥ ३२ ॥
भक्त्याहूता मया चैव त्वं चापि व्रतभाग्भव ॥
एवं युग्मा न्समामंत्र्य विश्वेदेवकृते द्विजान् ॥ ३३ ॥
अपसव्यं ततः कृत्वा पित्रर्थं चाभिमंत्रयेत् ॥
ब्राह्मणांस्त्रीन्यथाशक्त्या एकैकस्य पृथक्पृथक् ॥ ३४ ॥
एकैकं वा त्रयाणां वा एकमेवं निमंत्रयेत् ॥
ब्राह्मणान्मातृपक्षे च एष एव विधिः स्मृतः ॥ ३५ ॥
ततः पादौ परिस्पृष्ट्वा द्विजस्येदमुदीरयेत् ॥
श्रद्धा पूतेन मनसा पितृभक्तिपरायणः ॥ ३६ ॥
पिता मे तव कायेस्मिंस्तथा चैव पितामहः ॥
स्वपित्रा सहितो ह्येतु त्वं च व्रतपरो भव ॥ ३७ ॥
एवं पितॄन्समाहूय तथा मातामहानथ ॥
संमंत्रिताश्च ते विप्राः संयमात्मान एव ते ॥ ३८ ॥
यजमानः शांतमना ब्रह्मचर्यसमन्वितः ॥
तां रात्रिं समतिक्रम्य प्रातरुत्थाय मानवः ॥ ३९ ॥
तदह्नि वर्जयेत्कोपं स्वाध्यायं कर्म कुत्सितम् ॥
तैलाभ्यंगं श्रमं यानं वाहनं चाथ दूरतः ॥ ६.२१७.४० ॥
ततो मध्यं गते सूर्ये काले कुतपसंज्ञिते ॥
स्नातः शुक्लांबरधरः सन्तर्प्य पितृदेवताः ॥
सन्तुष्टांश्च समाहूतांस्तान्विप्राञ्छ्राद्धमाचरेत् ॥ ४१ ॥
विविक्ते गृहमध्यस्थे मनोज्ञे दक्षिणाप्लवे ॥
न यत्र जायते दृष्टिः पापानां क्रूरकर्मिणाम् ॥ ४२ ॥
यच्छ्राद्धं वीक्षते श्वा वा नारी वाऽथ रजस्वला ॥
पतितो वा वराहो वा तच्छ्राद्धं व्यर्थतां व्रजेत् ॥ ४३ ॥
अन्नं पर्युषितं यच्च तैलाक्तं वा प्रदीयते ॥
सकेशं वा सनिंद्यं च तच्छ्राद्धं व्यर्थतां व्रजेत् ॥ ४४ ॥
विभक्तिरहितं श्राद्धं तथा मौनविवर्जितम्॥
दक्षिणारहितं यच्च तच्छ्राद्धं व्यर्थतां व्रजेत् ॥ ४५ ॥
घरट्टोलूखलोत्थौ च यत्र शब्दौ व्यवस्थितौ ॥
शूर्पस्य वा विशेषेण तच्छ्राद्धं व्यर्थतां व्रजेत् ॥ ४६ ॥
यत्र संस्क्रियमाणे च कलहः संप्रजायते ॥
पंक्तिभेदो विशेषेण तच्छ्राद्धं व्यर्थतां व्रजेत् ॥४७॥
पूर्वाह्णे क्रियते यच्च रात्रौ वा संध्ययोरपि ॥
पर्याकाशे तथा देशे तच्छ्राद्धं व्यर्थतां व्रजेत ॥ ४८ ॥
ब्राह्मणो यजमानो वा ब्रह्मचर्यं विना यदि ॥
भुंक्ते दद्याच्च यच्छ्राद्धं तद्राजन्व्यर्थतां व्रजेत् ॥४९॥
तुषधान्यं सनिष्पावं यच्चोच्छिष्टं च दीयते ॥
अर्धभुक्तं घृतं क्षीरं तच्छ्राद्धं व्यर्थतां व्रजेत् ॥६.२१७.५०॥
येषु कालेषु यद्दत्तं श्राद्धमक्षयतां व्रजेत् ॥
तानहं संप्रवक्ष्यामि शृणुष्वैकमना नृप ॥ ५१ ॥
मन्वादीरपि ते वच्मि ताः शृणुष्व नराधिप ॥
पितॄणां वल्लभा नित्यं सर्वपापक्षयावहाः ॥ ५२ ॥
यासु तोयमपि क्ष्मायां प्रदत्तं तिलमिश्रितम् ॥
पितृभ्योऽक्षयतां याति श्रद्धापूतेन चेतसा ॥ ५३ ॥
अश्वयुक्छुक्लनवमी द्वादशी कार्तिकस्य च ॥
तृतीयापि च माघस्य तथा भाद्रपदस्य च ॥ ५४ ॥
अमावास्या तपस्यस्य पौषस्यैकादशी तथा ॥
तथाऽऽषाढस्य दशमी माघमासस्य सप्तमी ॥ ५५ ॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी व पूर्णिमा ॥
तथा कार्तिकमासस्य या चान्या फाल्गुनस्य च ॥ ५६ ॥
चैत्रस्य ज्येष्ठमासस्य पंचैताः पूर्णिमा नृप ॥
मनूनामादयः प्रोक्तास्तिथयस्ते मया नृप ॥ ५७ ॥
आसु तोयमपि स्नात्वा तिल दर्भविमिश्रितम् ॥
पितॄनुद्दिश्य यो दद्यात्स याति परमां गतिम् ॥ ५८ ॥
इह लोके परे चैव पितॄणां च प्रसादतः ॥
किं पुनर्विविधैरन्नै रसैर्वस्त्रैः सदक्षिणैः ॥ ५९ ॥
अधुना शृणु राजेन्द्र युगाद्याः पितृवल्लभाः ॥
यासां संकीर्तनेनापि क्षीयते पापसंचयः ॥ ६.२१७.६० ॥
नवमी कार्तिके शुक्ला तृतीया माधवे सिता ॥
अमावास्या च तपसो नभस्यस्य त्रयोदशी ॥ ६१ ॥
त्रेताकृतकलीनां तु द्वापरस्यादयः क्रमात् ॥
स्नाने दाने जपे होमे विशेषात्पितृतर्पणे ॥ ६२ ॥
कृतस्याक्षयकारिण्यः सुकृतस्य महाफलाः ॥
यदा स्यान्मेषगो भानुस्तुलां वाथ यदा व्रजेत् ॥ ६३ ॥
तदा स्याद्विषुवाख्यस्तु कालश्चाक्षयकारकः ॥
मकरे कर्कटे चैव यदा भानुर्व्रजेन्नृप ॥ ६४ ॥
तदायनाभिधानस्तु विषुवोऽथ विशिष्यते ॥
रवेः संक्रमणं राशौ संक्रांतिरिति कथ्यते ॥ ६५ ॥
स्नानदानजपश्राद्धहोमादिषु महाफलाः ॥
त्रेताद्याः क्रमशः प्रोक्ताः कालाः संक्रांतिपूर्वकाः ॥
नैतेषु विद्यते विघ्नं दत्तस्याक्षयसंज्ञिताः ॥ ६६ ॥
अश्रद्धयाऽपि यद्दत्तं कुपात्रेभ्योऽपि मानवैः ॥
अकालेऽपि हि तत्सर्वं सद्यो ह्यक्षयतां व्रजेत् ॥ ६७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धार्हपदार्थब्राह्मणकालनिर्णय वर्णनंनाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥ २१७ ॥