स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २१६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ आनर्त उवाच ॥ ॥
अन्येऽपि विविधाः कालाः सन्ति पुण्यतमा द्विज ॥
कस्माच्चेंदुक्षये श्राद्धं विशेषा त्समुदाहृतम्॥ १ ॥
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥ २ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
सत्यमेतन्महाराज श्राद्धार्हाः संति भूरिशः ॥
कालाः पितृगणानां च तृप्तिदास्तुष्टिदाश्च ये ॥ ३ ॥
मन्वाद्या वा युगाद्याश्च तेषां संक्रांतयोऽपराः ॥
व्यतीपातो गजच्छाया ग्रहणं सोम सूर्ययोः ॥ ४ ॥
एतेषु युज्यते श्राद्धं प्रकर्तुं पितृतृप्तये ॥
तथा तीर्थे विशेषेण पुण्य आयतने शुभे ॥ ५ ॥
श्राद्धार्हैर्ब्राह्मणैः प्राप्तैर्द्रव्यैर्वा पितृवल्लभैः ॥
अपर्वण्यपि कर्तव्यं सदा श्राद्धं विचक्षणैः ॥ ६ ॥
सोमक्षये विशेषेण शृणुष्वैकमना नृप ॥
अमा नाम रवे रश्मिसहस्रप्रमुखः स्थितः ॥ ७ ॥
यस्य स्वतेजसा सूर्यः प्रोक्तस्त्रैलोक्यदीपकः ॥
तस्मिन्वसति येनेन्दुरमावस्या ततः स्मृता ॥ ८ ॥
अक्षया धर्मकृत्ये सा पितृकृत्ये विशेषतः ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ॥ ९ ॥
रश्मिपा उपहूताश्च तथैवायंतुनाः परे ॥
तथा श्राद्धभुजश्चान्ये स्मृता नान्दीमुखा नृप ॥ ६.२१६.१० ॥
एते पितृगणाः ख्याता नव देवसमुद्भवाः ॥
आदित्या वसवो रुद्रा नासत्यावश्विनावपि ॥ ११ ॥
सन्तर्पयन्ति ते चैतान्मुक्त्वा नान्दीमुखान्पितॄन् ॥
ब्रह्मणा ते समादिष्टाः पितरो नृपसत्तम ॥ १२ ॥
तान्संतर्प्य ततः सृष्टिं कुरुते पद्मसंभवः ॥ ॥ १३ ॥
पितरो अन्येऽपि मर्त्या निवसन्ति त्रिविष्टपे ॥
द्विविधास्ते प्रदृश्यंते सुखिनोऽसुखिनः परे ॥ १४ ॥
येभ्यः श्राद्धानि यच्छंति मर्त्य लोके स्ववंशजाः ॥
ते सर्वे तत्र संहृष्टा देववन्मुदिताः स्थिताः ॥ १५ ॥
येषां यच्छन्ति ते नैव किंचित्किञ्चित्स्ववंशजाः ॥
क्षुत्पिपासाकुला स्ते च दृश्यन्ते बहुदुःखिताः ॥ १६ ॥
कस्यचित्त्वथ कालस्य पितरः सुरपूजिताः ॥
अग्निष्वात्तादयः सर्वे त्रिदशेन्द्रमुपस्थिताः ॥ १७ ॥
भक्त्या दृष्टा महाराज सहस्राक्षेण पूजिताः ॥
तथान्यैर्विबुधैः सर्वैः प्रस्थिताः स्वे निकेतने ॥ १८ ॥
पितृलोकं महाराज दुर्लभं त्रिदशैरपि ॥
तान्दृष्ट्वा प्रस्थितान्राजन्पितरो मर्त्यसंभवाः ॥ १९ ॥
क्षुत्पिपासार्दिता ये च त ऊचुर्दैन्यमाश्रिताः ॥
स्तुत्वाऽथ सुस्तवैर्दिव्यैः पितृसूक्तैश्च पार्थिव ॥ ॥ ६.२१६.२० ॥
वेदोक्तैरपरैश्चैव पितृतुष्टिकरैः परैः ॥
ततः प्रोचुश्च संहृष्टाः पितरस्तान्सुरोद्भवाः ॥ २१ ॥
प्रसन्नाः स्मो वयं सर्वे युष्माकं शंसितव्रताः ॥
तस्माद्ब्रूत वयं येन यच्छामो वो हृदि स्थितम् ॥ २२ ॥
॥ पितर ऊचुः ॥ ॥
वयं हि पितरः ख्याता मनुष्याणामिहागताः ॥
स्वर्गे स्वकर्मणा नित्यं निवसाम सुरैः सह ॥ २३ ॥
विमानेषु विचित्रेषु संस्थिताः सर्वतोदिशम् ॥
वांछितेषु च लोकेषु यामो ध्वजपताकिषु ॥ २४ ॥
हंसबर्हिण जुष्टेषु संसेव्येष्वप्सरोगणैः ॥
गन्धर्वैर्गीयमानाश्च स्तूयमानाश्च गुह्यकैः ॥ २५ ॥
परं सन्तिष्ठमानानामस्माकं त्रिदशैः सह ॥
अत्यर्थं जायते तीव्रा क्षुत्पिपासा सुदारुणा ॥ २६ ॥
यस्या मन्यामहे चित्ते वह्निमध्यगता वयम् ॥
भक्षयामः किमेतान्हि पक्षिणो विविधानपि ॥
हंसादीन्मधुरालापान्किं वा चाप्सरसां गणान् ॥ २७ ॥
यदि कश्चित्क्षुधाविष्टः कञ्चिदादाय पक्षिणम् ॥
गुप्तो गृह्णाति भक्षार्थं हन्तुं शक्तोऽपि सोऽपि न ॥ २८ ॥
अजराश्चामराश्चैव स्वर्गे ये स्वर्गगाः खगाः ॥
तथा मनोरमा वृक्षा नन्दनादि वनेषु च ॥ २९ ॥
फलिता ये प्रदृश्यंते प्राप्यांश्चापि मनोरमाः ॥
तत्फलानि वयं सर्वे गृह्णीमः पितरो यदि ॥ ६.२१६.३० ॥
न त्रुटंत्यपि यत्नेन समाकृष्टानि तान्यपि ॥
एतल्लेखापगातोयं तृषार्त्ता यदि यत्नतः ॥
प्रपिबामो न हस्तेषु तच्च तोयं पुनः स्पृशेत् ॥ ३१ ॥
भुंजानश्च न कोऽप्यत्र दृश्यतेऽत्र पिबन्नपि ॥
तस्मात्त्रिविष्टपावासो ह्यस्माकं घोरदारुणः ॥ ३२ ॥
एते सुरगणाः सर्वे ये चान्ये गुह्यकादयः ॥
दृश्यंतेऽत्र विमानस्था सर्वे संहृष्टमानसाः ॥ ३३ ॥
क्षुत्पिपासापरित्यक्ता नानाभोगसमाश्रयाः ॥
कदाचिच्च वयं सर्वे भवामस्तादृशा इव ॥ ३४ ॥
क्षुत्पिपासापरित्यक्ताः सतोषं परमं गताः ॥
तत्किं कारणमेतद्यत्क्षुत्पि पासा प्रजायते ॥ ३५ ॥
आकस्मिकी च बाधा नः कदाचिन्न प्रणश्यति ॥
तथा कुरुत भद्रं वो यथा तुष्टिः प्रजायते ॥ ३६ ॥
शाश्वती नो यथाऽन्येषां देवानां स्वर्गवासिनाम् ॥
यूयं हि पितरो यस्माद्देवानां भावितात्मनाम् ॥ ३७ ॥
वयं चैव मनुष्याणां तेन वः शरणं गताः ।। ॥
॥ पितर ऊचुः ॥ ॥
अस्माकमपि चैवैषा कष्टावस्था प्रजायते ॥ ३८ ॥
शक्राद्या विबुधा व्यग्राः श्राद्धं यच्छंति नो यदा ॥
ततश्चागत्य तान्सर्वे देवान्संप्रार्थयामहे ॥ ३९ ॥
ततस्तृप्तिं प्रगच्छामस्तैर्देवैस्तर्पिता वयम् ॥
युष्माकं वंशजा ये च प्रयच्छंति समाहिताः ॥ ६.२१६.४० ॥
कथं न तृप्तिमायातास्ते सर्वे तैः प्रतर्पिताः ॥
यत्र प्रमादिभिर्वंश्यैर्न तर्प्यंते कथंचन ॥ ४१ ॥
क्षुत्पिपासाकुलाः सर्वे ते तदा स्युर्न संशयः ॥
किं पुनर्नरकस्था ये धर्मराजनिवेशने ॥ ४२ ॥
एतद्धि कारणं प्रोक्तं युष्माकं च कथंचन ॥
क्षुत्पिपासोद्भवं रौद्रं युष्माभिर्यदुदीरितम् ॥ ४३ ॥
तदस्माकं विभागं चेद्यूयं यच्छत सत्तमाः ॥
सर्वे कव्यस्य दत्तस्य तत्कुर्मो वै हितं शुभम् ॥ ४४ ॥
ब्रह्माणं प्रार्थयित्वा च स्वयं गत्वा तदंतिकम्॥
बाढमित्येव तैरुक्ते तत आदाय तानपि ॥ ४५ ॥
दिव्याः पितृगणाः प्राप्ता विधेः सदनमुत्तमम् ॥
नांदीमुखान्पुरस्कृत्य पितॄन्यांस्तर्पयेद्विधिः ॥ ४६ ॥
सृष्टिकाले तु संप्राप्ते वृद्धिकामः सुरेश्वरः ॥
अथ तैः सह ते सर्वे स्तुत्वा तं कमलासनम् ॥
प्रणिपत्य स्थिताः सर्वे पितरो विनयान्विताः ॥ ४७ ॥
पितॄंस्तान्विनयोपेतान्प्रणिपातपुरःसरान् ॥
विधिः प्रोवाच राजेंद्र सांत्वयञ्श्लक्ष्णया गिरा ॥ ४८ ॥
॥ ब्रह्मोवाच ॥ ॥
किमर्थं पितरः सर्वे समायाता ममांतिकम् ॥
देवतानां मया सार्धं संपूज्याः सर्वदा स्थिताः ॥ ४९ ॥
तथान्येऽपि च दृश्यंते युष्माभिः सह संगताः ॥
य एते मानवा काराः स्वल्पतेजोन्विताः स्थिताः ॥ ६.२१६.५० ॥
॥ पितर ऊचुः ॥ ॥
पितरो मानवा ह्येते स्वर्गं प्राप्ताः स्वकर्मभिः ॥
देवानां मध्यसंस्थाश्च पीड्यंते क्षुत्पिपासया ॥ ५१ ॥
यदा यच्छंति नो वंश्याः कव्यं चैव प्रमादतः ॥
तदा गच्छंति नो तृप्तिं यानैर्यांति यथा सुराः ॥ ५२ ॥
तदैतैः प्रार्थनाऽस्माकं कृता शाश्वततृप्तये ॥
न च शक्ता वयं दातुं तेन त्वां समुपस्थिताः ॥ ५३ ॥
यथा स्युर्देवता व्यग्रास्तदाऽस्माकमपि प्रभो। ॥
कव्यं विना भवेदेषा दशा कष्टा सुरेश्वर ॥ ५४ ॥
तस्मात्कुरु प्रसादं नः समेमेतैः सुरेश्वर ॥
यथा स्याच्छाश्वती तृप्तिः स्वस्थानस्थायिनामपि॥ ॥ ५५ ॥
एतेऽस्माकं प्रदास्यंति कव्यं यन्निजवंशजैः ॥
प्रदत्तं तेन संप्राप्ता वयं देव त्वदन्तिकम् ॥ ५६ ॥
देवानां चैव यत्कव्यं तन्नास्माकं प्रतृ प्तये ॥
यतः क्रियाविहीनं तन्न तेषां विद्यते क्रिया ॥ ५७ ॥
पितॄनुद्दिश्य यत्कव्यं ब्राह्मणेभ्यः प्रदीयते ॥
स्नातैर्धौतांबरैर्मर्त्यैस्तद्भवेत्तृप्तिदं महत् ॥ ॥ ५८ ॥
पितॄणां सर्वदेवेश इत्येषा वैदिकी श्रुतिः ॥
न स्नातस्याधिकारोऽस्ति देवानां च द्विजातिवत् ॥ ५९ ॥
पीयूषमपि तैर्दत्तं तेन नः स्यान्न तृप्तये ॥ ६.२१६.६० ॥
तस्मान्मानुषदत्तैर्नो यथा कव्ये प्रजायते ॥
स्वर्गस्थानां परा तृप्तिः सममेतैस्तथा कुरु ॥ ६१ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
तच्छ्रुत्वा सुचिरं ध्यात्वा ब्रह्मा लोकपितामहः ॥
तानुवाच ततः सर्वान्पितॄन्पार्थिवसत्तम ॥६२॥
॥ ब्रह्मोवाच ॥ ॥
अस्मिंस्त्रेतायुगे संज्ञा हव्यकव्यसमुद्भवा॥
संप्रयाता युगे युग्मे कलौ न प्रभविष्यति ॥ ६३ ॥
यथायथा युगानां च ह्रास एष भविष्यति ॥
तथातथा जना दुष्टा भविष्यंत्यन्यभक्तिकाः ॥ ॥ ६४ ॥
न दास्यंति यथोक्तानि ते कव्यानि कथंचन ॥
ततः कष्टतराऽवस्था पितॄणां संभविष्यति ॥ ६५ ॥
तस्मादहं करिष्यामि सुखोपायं शरीरिणाम् ॥
येन सन्तर्पिता यूयं परां तृप्तिमवाप्स्यथ ॥ ६६ ॥
पितुः पितामहस्यैव तत्पितुश्च ततः परम्॥
समुद्देशेन दत्तेन ब्राह्मणेभ्यः प्रभक्तितः ॥ ६७ ॥
सर्वेषां स्यात्परा तृप्तिर्यावन्मां पितरोऽधुना ॥
तथा मातामहानां च पक्षे नास्त्यत्र संशयः ॥ ६८ ॥
त्रिभिः सन्तर्पितास्तेऽपि तर्पिताः स्युर्ममावधि ॥
युष्माकं तृप्तये यश्च सुखोपायो भविष्यति ॥ ६९ ॥
तं शृणुध्वं महाभागा गदतो मम सांप्रतम् ॥
पितॄनन्नेन येनैव समुद्दिश्य द्विजोत्तमान्॥ ६.२१६.७० ॥
तर्पयिष्यंति तेनैव पिण्डान्दास्यंति भक्तितः ॥
तन्नाम्ना तेन वस्तृप्तिः शाश्वती संभविष्यति ॥ ७१ ॥
तस्माद्गच्छत सन्तुष्टाः स्वानि स्थानानि पूर्वजाः ॥ ७२ ॥
ततस्ते सहितास्तैस्तु स्वानि स्थानानि भेजिरे ॥
विमानैः सूर्यसंकाशैर्गत्वा पार्थिवसत्तम ॥ ७३ ॥
अथ संगच्छता राजन्कालेन महता ततः ॥
तच्चापि न ददुः श्राद्धं मर्त्यास्त्रिपुरुषं च यत् ॥ ७४ ॥
नित्यं पितॄन्समुद्दिश्य बहवोऽत्र नराधिप ॥
कव्यभागान्पुनस्तेषां तथा पूर्वं यथा नृप ॥ ७५ ॥
क्षुत्पिपासोद्भवापीडा महती समजायत ॥
तेषां च दैविकानां च पितॄणां नृपसत्तम ॥ ७६ ॥
समेत्याथ पुनः सर्वे ब्रह्माणं शरणं गताः ॥
प्रोचुश्च प्रणिपत्योच्चैः सुदीनाः प्रपितामहम्॥ ७७ ॥
भगवन्न प्रयच्छंति नित्यं नो वंशसंभवाः ॥
श्राद्धानि दौःस्थ्यमापन्नास्तेन सीदामहे विभो ॥ ७८ ॥
यथा पूर्वं तथा देव तदुपायं प्रचिन्तय ॥
कंचिद्येन दरिद्रा वै प्रीणयंति च ते पितॄन् ॥७९॥
भर्तृयज्ञ उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा तानाह प्रपितामहः ॥
कृपाविष्टो महाराज सर्वान्पितृगणांस्तथा ॥ ६.२१६.८० ॥
सत्यमेतन्महाभागा दौःस्थ्यं यांति दिनेदिने ॥
जना यथायथा याति युगं श्रेष्ठं च पृष्ठतः ॥ ८१ ॥
तथापि च करिष्यामि युष्मदर्थमसंशयम् ॥
उपायं लघु सन्तृप्तिर्येन वोऽत्र भवि ष्यति ॥ ८२ ॥
अमानाम रवे रश्मिसहस्रप्रमुखः स्थितः ॥
तस्मिन्वसति येनेन्दुरमावास्या ततः स्मृता ॥ ८३ ॥
तस्मिन्नहनि ये श्राद्धं पितॄनुद्दिश्य चात्मनः ॥
करिष्यंति नरा भक्त्या ते भविष्यंति सुस्थिताः ।। ८४ ॥
धनधान्यसमोपेता सर्वशत्रुविवर्जिताः ॥
अपमृत्युपरित्यक्ता मम वाक्याद संशयम्॥ ८५ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा बभूवुर्हृष्टमानसाः ॥
पितरः कव्यमासाद्य प्रहष्टेनांतरात्मना ॥ ८६ ॥
ययुः स्वानि निकेतानि प्रेषिताः पद्मयोनिना ॥
अमावास्यादिनं प्राप्य श्राद्धं दत्तं स्ववंशजैः ॥ ८७ ॥
संतृप्ता मासमात्रं च तस्थुः संतुष्टमानसाः ॥
गच्छता त्वथकालेन दौःस्थ्यं प्राप्य नरा भुवि ॥
दर्शेऽस्मिन्नपि नो श्राद्धं प्रायः कुर्वंति केचन ।।८८॥
ततः पितृगणाः सर्वें ये दिव्या ये च मानुषाः॥
क्षुत्पिपासाकुला भूयो ब्रह्माणं शरणं गताः॥८९॥
प्रोचुश्च प्रणिपत्योच्चैस्ते समेताःपितामहम्॥
परमं दैन्यमास्थाय बाष्पगद्गदया गिरा ॥६.२१६.९॥।
भगवन्निंदुक्षये श्राद्धं प्रोक्तं मासं त्वया विभो॥
अस्माकं प्रीणनार्थाय यत्करिष्यंति मानवाः ॥९१॥
दौःस्थात्तदपि नो कुर्युः प्रायशस्तु पितामह ॥
तेनास्माकं परा पीडा क्षुत्पिपासासमुद्भवा॥९२॥
तस्मात्कुरु प्रसादं नो यथा पूर्वं सुरेश्वर॥
तथापि दुःस्थताभाजस्तर्पयिष्यंति नोऽधुना॥९३॥
॥भर्तृयज्ञ उवाच॥ ॥
अथ ब्रह्मापि संचिन्त्य तानुवाच कृपान्वितः ॥
युष्मदर्थं मयोपायश्चिंतितः पितरो लघुः ॥ ९४ ॥
येन तृप्तिं परां यूयं गमिष्यथ पित्रीश्वराः ॥
अमावास्योद्भवं श्राद्धमलब्ध्वापि च वत्सरम्॥ ९५ ॥
यथा मम प्रसादेन तच्छृणुध्वं समाहिताः ॥
आषाढ्याः पंचमे पक्षे कन्यासंस्थे दिवाकरे ॥ ९६ ॥
मृताहनि पुनर्यो वै श्राद्धं दास्यति मानवः ॥
तस्य संवत्सरंयावतृप्ताः स्युः पितरो ध्रुवम् ॥ ९७ ॥
एवं ज्ञात्वा करिष्यंति प्रेतपक्षे नरा भुवि ॥
श्राद्धं यूयं न संदेहो भविष्यथ सुतर्पिताः ॥ ९८ ॥
यावत्संवत्सरं तेन एकेनापि तु सत्तमाः ॥
तस्मिन्नपि च यः श्राद्धं युष्माकं न प्रदास्यति॥ ९९ ।।
शाकेनाऽपि दरिद्रोऽसावंत्यजत्वमुपेष्यति ॥
आसनं शयनं भोज्यं स्पर्शं संभाषणं तथा ॥ ६.२१६.१०० ॥
ये करिष्यंति तैः सार्धं तेऽपि पापतमा नराः ॥
न तेषां संततिर्वृद्धिं संप्रयास्यति कर्हिचित् ॥११॥
न सुखं धनधान्यं च तेषां भावि कथंचन ॥
तस्माद्गच्छत चाव्यग्राः स्वस्थानं पितरो द्रुतम् ॥१०२॥
कलिकालेऽपि संप्राप्ते दारुणे निर्धेने जने ॥
वर्षांते श्राद्धमेकं हि प्रकरिष्यंति मानवाः ॥१०३॥
येनाखिलं भवेद्वर्षं युष्माकं प्रीतिरुत्तमा ॥१०४॥
॥ ॥ भर्तृयज्ञ उवाच ॥ ॥
तच्छ्रुत्वा पितरो हृष्टा जग्मुः स्वंस्वं निकेतनम् ॥
वर्षांतेऽपि समासाद्य श्राद्धं न स्युर्बुभुक्षिताः ॥ १०५ ॥
अथ येऽत्र दुरात्मानो निःशंकाः कृपणात्मकाः ॥
कलिना मोहिताः श्राद्धं वत्सरांतेऽपि नो ददुः ॥१०६॥
तेषां तु पितरो भूयो दिव्यैःपितृभिरन्विताः ॥
ब्रह्माणं शरणं जग्मुः प्रोचुस्ते दीनमानसाः ॥ १०७ ॥
भगवन्वत्सरांतेऽपि कन्यासंस्थे दिवाकरे ॥
नास्माकं वंशजाः श्राद्धं प्रयच्छंति दुरात्मकाः॥१०८॥
तेन संपीडिता देव क्षुत्पिपासा समाकुलाः ॥
वयं शरणमापन्नास्तत्प्रतीकारमाचर ॥ १०९ ॥
यथा पूर्वं महाभाग वदोपायं लघूत्तमम्॥
एकाहिकेन श्राद्धेन येनास्माकं हि शाश्वती ॥
प्रीतिः संजायते देव त्वत्प्रसादात्सुरेश्वर ॥ ६.२१६.११० ॥
वंशक्षयेऽपि संजाते ह्यस्माकं पतनं भवेत् ॥ १११ ॥ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा चिरं ध्यात्वा पितामहः ॥
कृपया परयाविष्टस्ततः प्रोवाच सादरम् ॥ ११२
॥ ब्रह्मोवाच ॥
अन्यो युष्मत्प्रतुष्ट्यर्थमुपायश्चिंतितो मया ॥
स लघुर्येन वोऽत्यंतं तृप्तिर्भवति शाश्वती ॥११३॥
गयाशिरः समासाद्य श्राद्धं दास्यंति येऽत्र वः ॥
अप्येकं तत्प्रभावेन दिव्यां गतिमवाप्स्यथ ॥ ११४ ॥
अपि पापात्मनः पुंसो ब्रह्मघ्नस्यापि देहिनः ॥
अपि रौरवसंस्थस्य कुम्भीपाकगतस्य च ॥११५॥
प्रेतभावगतस्यापि यस्य श्राद्धं प्रदास्यति ॥
गयाशिरसि वंशस्थस्तस्य मुक्तिर्भविष्यति ॥ ११६ ॥
एतन्मम वचः श्रुत्वा सांप्रतं भुवि मानवाः ॥
निःस्वा अपि करिष्यंति श्रादमेकं हि तत्र च ॥
गयाशिरसि सुव्यक्तं युष्माकं मुक्तिदायकम् ॥ ११७ ॥
भर्तृयज्ञ उवाच ॥ ॥
तच्छ्रुत्वा पितरस्तस्य वचनं परमेष्ठिनः ॥
अनुज्ञातास्ततस्तेन स्वानि स्थानानि भेजिरे ॥ ११८ ॥
ततःप्रभृति श्राद्धानि प्रवृत्तानि धरातले ॥
पिंडदानसमे तानि यावदापुरुषत्रयम्॥ ११९ ॥
पूर्वं ब्रह्मादितः कृत्वा ये केचित्पुरुषा गताः ॥
परलोकं समुद्दिश्य तान्नराञ्छक्तितो नृप ॥ ६.२१६.१२० ॥
तत्संख्यानां द्विजेंद्राणां दत्तवंतोऽपि वांछितम् ॥
अदैवत्यमिदं श्राद्धं दरिद्राणां सुखावहम् ॥ १२१ ॥
पितॄणां देवतानां च मनुष्याणां सुतृप्ति दम् ॥
तस्माच्छ्राद्धं प्रकर्तव्यं पुरुषेण विजानता ॥ १२२ ॥
पितॄणां वांछता तृप्तिं कालेष्वेतेषु यत्नतः॥
गयायां च विशेषेण लोकद्वयमभीप्सता ॥ १२३ ॥
न ददाति नरः श्राद्धं पितॄणां चन्द्रसंक्षये ॥
क्षुत्पिपासापरीतांगाः पितरस्तस्य दुःखिताः ॥ ॥ १२४ ॥
प्रेतपक्षं प्रतीक्षंते गुरुवांछासमन्विताः ॥
कर्षुका जलदं यद्वद्दिवानक्तमतंद्रिताः ॥ १२५ ॥
प्रेतपक्षे व्यतिक्रांते यावत्कन्यां गतो रविः ॥
तावच्छ्राद्धं च वांछंति दत्तं स्वैः पितरः सुतैः ॥ १२६ ॥
ततस्तुलागतेप्येके सूर्ये वांछंति पार्थिव ॥
श्राद्धं स्ववंशजै र्दत्तं क्षुत्पिपासासमाकुलाः ॥ १२७ ॥
तस्मिन्नपि व्यतिक्रांते काले चांलिं गते रवौ ॥
निराशाः पितरो दीनास्ततो यांति निजालयम् ॥ १२८ ॥
मासद्वयं प्रतीक्षंते गृहद्वारं समाश्रिताः ॥
वायुभूताः पिपासार्ताः क्षुत्क्षामाः पितरो नृणाम् ॥ १२९ ॥
यावत्कन्यागतः सूर्यस्तुलास्थश्च महीपते॥
तथा दर्शदिने तद्वद्ब्रह्मणो वचनान्नृप ॥ ६.२१६.१३० ॥
तस्माच्छ्राद्धं सदा कार्यं पितॄणां तृप्तिमिच्छता ॥
तिलोदकं विशेषेण यथा ब्रह्मवचो नृप ॥१३१॥
वित्ताभावेऽपि दर्शायां श्राद्धं देयं विपश्चिता ॥
तदभावे च कन्यायां संस्थिते दिवसाधिपे ॥ १३२ ॥
तदभावे गयायां च सकृच्छ्राद्धं हि निर्वपेत् ॥
येन नित्यं प्रदत्तस्य श्राद्धस्य फलमश्नुते ॥ १३३ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥
येनैतत्क्रियते श्राद्धं जनैः पितृ परायणैः ॥ १३४ ॥
अमावास्यां विशेषेण प्रेतपक्षे च पार्थिव ॥ १३५ ॥
यश्चैतां शृणुयात्पुण्यां श्राद्धोत्पत्तिं पठेच्च वा ॥
स सर्वदोषनिर्मुक्तः श्राद्धदानफलं लभेत् ॥ १३६ ॥
श्राद्धकाले पठेद्यस्तु श्राद्धोत्पत्तिमिमां नरः ॥
अक्षयं तद्भवेच्छ्राद्धं सर्वच्छिद्रविवर्जितम्॥ ॥ १३७ ॥
असद्द्रव्येण वा चीर्णमनर्हैर्ब्राह्मणैरपि ॥
अभुक्तं कामहीनं वा मन्त्रहीनमथापि वा ॥ १३८ ॥
सर्वं संपूर्णतां याति कीर्तनात्पार्थिवोत्तम।
अस्याः श्राद्धसमुत्पत्तेः कीर्तनाच्छ्रवणादपि ॥ १३९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटके श्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धोत्पत्तिवर्णनंनाम षोडशोत्तरद्विशततमोऽध्यायः ॥ २१६ ॥