स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २१५

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
सांप्रतं वद नः सूत श्राद्धकल्पस्य यो विधिः ॥
विस्तरेण महाभाग यथा तच्चाक्षयं भवेत् ॥ १ ॥
कस्मिन्काले प्रकर्तव्यं श्राद्धं पितृपरायणैः ॥
कीदृशैर्ब्राह्मणैस्तच्च तथा द्रव्यैर्महामते ॥ २ ॥
॥ सूत उवाच ॥ ॥
एतदर्थं पुरा पृष्टो मार्कंडेयो महामुनिः ॥
रोहिताश्वेन विप्रेंद्रा हरिश्चन्द्र सुतेन सः॥३ ॥
हरिश्चन्द्रे गते स्वर्गं रोहिताश्वे नृपे स्थिते ॥
तीर्थयात्राप्रसंगेन मार्कण्डो मुनिसत्तमः ॥ ४ ॥
सरय्वाः संगमे पुण्ये स्नानार्थं समुपस्थितः ॥
तत्र स्नात्वा पितॄन्देवान्संतर्प्य विधिपूर्वकम्॥ ५ ॥
प्रविष्टस्तां पुरीं रम्यामयोध्यां सत्यनामिकाम् ॥
रोहिताश्वोऽपि तं श्रुत्वा समायातं मुनीश्वरम्॥
पदातिः प्रययौ तूर्णं दूरदेशं तु सम्मुखम्॥ ६ ॥
ततः प्रणम्य तं मूर्ध्ना कृतांजलिपुटः स्थितः ॥
प्रोवाच मधुरं वाक्यं विनयेन समन्वि तः ॥ ७ ॥
स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं मुने ॥
धन्योऽहं कृतपुण्योऽहं संप्राप्तः परमां गतिम् ॥
यत्ते पादरजोभिर्मे मूर्द्धजा विमलीकृताः ॥ ॥ ८॥
एवमुक्त्वा गृहीत्वा तं स्वहस्तालंबनं तदा ॥
ययौ तत्र सभास्थानं बृहत्सिंहासनाश्रयम् ॥ ९ ॥
सिंहासने निवेश्याथ तं मुनिं पार्थिवोत्तमः ॥
उपविष्टो धरापृष्ठे कृतांजलिपुटः स्थितः ॥ ६.२१५.१० ॥
ततः प्रोवाच मधुरं विनयावनतः स्थितः ॥
निःस्पृहस्यापि विप्रेंद्र कि वाऽऽगमनकारणम् ॥ ॥ ११ ॥
तद्ब्रवीहि यथातथ्यं करोमि तव सांप्रतम् ॥
अदेयमपि दास्यामि गृहायातस्य ते विभो ॥ १२ ॥
मार्कंडेय उवाच ॥ ॥
तीर्थयात्राप्रसंगेन वयमत्र समागताः ॥
सरय्वाः संगमे पुण्ये कल्ये यास्याम्यहे पुनः ॥ १३ ॥
निःस्पृहैरपि द्रष्टव्या धर्मवन्तो द्विजोत्तमाः ॥
ततः प्रोक्तं पुराण ज्ञैर्ब्राह्मणैः शास्त्रदृष्टिभिः ॥ १४ ॥
धर्मवन्तं नृपं दृष्ट्वा लिंगं स्वायंभुवं तथा ॥
नदीं सागरगां चैव मुच्येत्पापाद्दिनोद्भवात् ॥ १५
एवमुक्त्वा ततश्चक्रे पृच्छां स मुनिसत्तमः ॥
तं दृष्ट्वा नृपशार्दूलं पुरःस्थं विनयान्वितम् ॥ १६ ॥
कच्चित्ते सफला वेदाः कच्चित्ते सफलं श्रुतम् ॥
कच्चित्ते सफला दाराः कच्चित्ते सफलं धनम्॥ १७ ॥
॥ रोहिताश्व उवाच ॥ ॥
कथं स्युः सफला वेदाः कथं स्यात्सफलं श्रुतम् ॥
कथं स्युः सफला दाराः कथं स्यात्सफलं धनम् ॥ १८ ॥
॥ मार्कंडेय उवाच ॥ ॥
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ॥
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ १९ ॥
एवं ज्ञात्वा महाराज नान्यथा कर्तुमर्हसि ॥ ६.२१५.२० ॥
चत्वार्येतानि कृत्यानि मयोक्तानि च तानि ते ॥
यथा तानि प्रकृत्यानि लोकद्वयमभीप्सता ॥ २१ ॥
एवमुक्त्वा ततश्चक्रे कथाश्चित्राश्च तत्पुरः ॥
राजर्षीणां पुराणानां देवर्षीणां विशेषतः ॥ २२ ॥
ततः कथावसाने च कस्मिंश्चिद्द्विजसत्तमाः ॥
पप्रच्छ तं मुनिश्रेष्ठं रोहिताश्वो महीपतिः ॥ २३ ॥
भगवञ्छ्रोतुमिच्छामि श्राद्धकल्पमहं यतः ॥
दृश्यंते बहवो भेदा द्विजानां श्राद्धकर्मणि ॥ २४ ॥ ॥
॥ मार्कंडेय उवाच ॥ ॥
सत्यमेतन्महाभाग यत्पृष्टोऽस्मि नृपोत्तम ॥
श्राद्धस्य बहवो भेदाः शाखाभेदैर्व्यवस्थिताः॥ २५ ॥
तस्मात्ते निर्णयं वच्मि भर्तृयज्ञेन यत्पुरा ॥
आनर्त्ताधिपतेः प्रोक्तं सम्यक्छ्राद्धस्य लक्षणम् ॥ २६ ॥
भर्तृयज्ञं सुखासीनं निजाश्रमपदे नृपः ॥
आनर्ताधिपतिर्गत्वा प्रणिपत्य ततोऽब्रवीत् ॥ २७ ॥
॥ आनर्त उवाच ॥ ॥
सांप्रतं वद मे ब्रह्मञ्छ्राद्धकल्पं पित्रीप्सितम् ॥
येन मे तुष्टिमायांति पितरः श्राद्धतर्पिताः ॥ २८ ॥
कः कालो विहितः श्राद्धे कानि द्रव्याणि मे वद ॥
श्राद्धार्हाणि तथान्यानि मेध्यानि द्वि जसत्तम ॥
यानि योज्यानि वांछद्भिः पितृणां तृप्तिमुत्तमाम् ॥ २९ ॥
कीदृशा ब्राह्मणा ब्रह्मञ्छ्राद्धार्हाः परिकीर्तिताः ॥
कीदृशा वर्जनीयाश्च सर्वं मे विस्तराद्वद ॥ ६.२१५.३० ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
अहं ते कीर्तयिष्यामि श्राद्धकल्पमनुत्तमम् ॥
यं श्रुत्वाऽपि महाराज लभेच्छ्राद्धफलं नरः ॥ ॥ ३१ ॥
श्राद्धमिदुक्षयेऽवश्यं सदा कार्यं विपश्चिता ॥
यदि ज्येष्ठतमः सर्गः सन्तानं च तथा नृप ॥ ३२ ॥
शीतार्ता यद्वदिच्छंति वह्निं प्रावरणानि च ॥
पितरस्तद्वदिच्छंति क्षुत्सामाश्चन्द्रसंक्षयम् ॥ ३३ ॥
दरिद्रोपहता यद्वद्धनं वांछंति मानवाः ॥
पितरस्तद्वदिच्छंति क्षुत्क्षामाश्चन्द्रसं क्षयम् ॥ ३४ ॥
यथा वृष्टिं प्रवांछन्ति कर्षुकाः सस्यवृद्धये ॥
तथात्मप्रीतये तेऽपि प्रवांछन्तींदुसंक्षयम् ॥ ३५ ॥
यथोषश्चक्रवाक्यश्च वांछन्ति रवि दर्शनम् ॥
पितरस्तद्वदिच्छंति श्राद्धं दर्शसमुद्भवम् ॥ ३६ ॥
जलेनापि च यः श्राद्धं शाकेनापि करोति वाः ॥
दर्शस्य पितरस्तृप्तिं यांति पापं प्रण श्यति । ३७ ॥
अमावास्यादिने प्राप्ते गृहद्वारं समाश्रिता॥
वायुभूताः प्रवांछन्ति श्राद्धं पितृगणा नृणाम् ॥
यावदस्तमयं भानोः क्षुत्पिपासास माकुलाः ॥ ३८ ॥
ततश्चास्तं गते भानौ निराशा दुःखसंयुताः ॥
निःश्वस्य सुचिरं यांति गर्हयंति स्ववंशजम् ॥ ३९ ॥
॥ आनर्त उवाच ॥ ॥
किमर्थं क्रियते श्राद्धममावास्यादिने द्विज ॥
विशेषेण ममाचक्ष्य विस्तरेण यथातथम् ॥ ६.२१५.४० ॥
मृताश्च पुरुषा विप्र स्वकर्मजनितां गतिम् ॥
गच्छन्ति ते कथं तस्य सुतस्याश्रयमाययुः ॥ ४१ ॥
एष नः संशयो विप्र सुमहान्हृदि संस्थितः ॥ ४२ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
सत्यमेतन्महाभाग यत्त्वया व्याहृतं वचः ॥
स्वकर्मार्हां गतिं यांति मृताः सर्वत्र मानवाः ॥ ४३ ॥
परं यथा समायांति वंशजस्याश्रयं प्रति ॥
तथा तेऽहं प्रव क्ष्यामि न तथा संशयो भवेत् ॥ ४४ ॥
मृता यांति तथा राजन्येऽत्र केचिन्महीतले ॥
ते जायंते न मर्त्येऽत्र यावद्वंशस्य संस्थितिः ॥ ४५ ॥
परं शुभात्मका ये च ते तिष्ठंति सुरालये ॥
पापात्मानो नरा ये च वैवस्वतनिवासिनः ॥ ४६ ॥
अन्यदेहं समाश्रित्य भुंजानाः कर्मणः फलम् ॥
शुभं वा यदि वा पापं स्वयं विहितमात्मनः ॥ ४७ ॥
यमलोके स्थितानां हि स्वर्गस्थानामपि क्षुधा ॥
पिपासा च तथा राजंस्तेषां संजायतेऽधिका ॥ ४८ ॥
यावन्नरत्रयं राजन्मातृतः पितृतस्तथा ॥
तेषां च परतो ये च ते स्वकर्म शुभाशुभम् ॥
भुंजते क्षुत्पिपासा च न तेषां जायते क्व् चित् ॥ ४९ ॥
तत्रापि पतनं तस्मात्स्थानाद्भवति भूमिप ॥
वंशोच्छेदान्पुनः सर्वे निपतंति महीतले ॥
त्रुटद्रज्जुनिबद्धं हि भांडं यद्वन्निराश्रयम् ॥ ॥ ६.२१५.५० ॥
एतस्मात्कारणाद्यत्नः सन्तानाय विचक्षणैः ॥
प्रकर्तव्यो मनुष्येंद्र वंशस्य स्थितये सदा ॥ ५१ ॥
अपि द्वादशधा राजन्नौरसादिसमु द्भवाः ॥
तेषामेकतमोऽप्यत्र न दैवाज्जायते सुतः ॥ ५२ ।।
पितॄणां गुप्तये तेन स्थाप्योऽश्वत्थः समाधिना ॥
पुत्रवत्परिपाल्यश्च निर्विशेषं नराधिप॥ ॥ ५३ ॥
यावत्संधारयेद्भूमिस्तमश्वत्थं नराधिप ॥
कृतोद्वाहं समं शम्या तावद्वंशोऽपि तिष्ठति ॥ ५४ ॥
अश्वत्थजनका मर्त्या निपत्य जगती तले ॥
पापामुक्ताः समायांति योनिं श्रेष्ठां शुभान्विताः ॥ ५५ ॥
एतस्मात्कारणादन्नं नित्यं देयं तथोदकम् ॥
समुद्दिश्य पितॄन्राजन्यतस्ते तन्मयाः स्मृताः ॥ ५६ ॥
अदत्त्वा सलिलं सस्यं पितॄणां यो नराधिप ॥
स्वयमश्नाति वा तोयं पिवेत्स स्यात्पितृद्रुहः ॥
स्वर्गेऽपि च न ते तोयं लभंते नान्नमेव च ॥ ५७ ॥
न दत्तं वंशजैर्मर्त्यैश्चेद्व्यथां यांति दारुणाम् ॥
क्षुत्पिपासासमुद्भूतां तस्मात्संतर्पयेत्पितॄन् ॥ ॥ ५८ ॥
नित्यं शक्त्या नरो राजन्पयोऽन्नैश्च पृथग्विधैः ॥
तथान्यैर्वस्त्रनैवेद्यैः पुष्पगन्धानुलेपनैः ॥ ५९ ॥
पितृमेधादिभिः पुण्यैः श्राद्धैरुच्चावचैरपि ॥
तर्पितास्ते प्रयच्छंति कामानिष्टान्हृदि स्थितान् ॥
त्रिवर्गं च महाराज पितरः श्राद्धतर्पिताः ॥ ॥ ६.२१५.६० ॥
तर्पयंति न ये पापाः स्वपितॄन्नित्यशो नृप ॥
पशवस्ते सदा ज्ञेया द्विपदाः शृंगवर्जिताः ॥ ६१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धावश्यकताकारणवर्णनंनाम पञ्चदशोत्तरद्विशततमो ऽध्यायः ॥ २१५ ॥