स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २१४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
तथान्योपि च तत्रास्ति विश्वामित्रप्रतिष्ठितः ॥
गणनाथो द्विजश्रेष्ठाः सर्वसिद्धिप्रदो नृणाम् ॥ १ ॥
माघमासे चतुर्थ्यां च शुक्लायां पूजयेत्तु यः ॥
स च संवत्सरं यावत्सर्वै विघ्नैर्विमुच्यते ओ। २ ॥
॥ ऋषय ऊचुः ॥ ॥
गणनाथस्य चोत्पत्तिं सांप्रतं सूत नो वद ॥
कथमेष समुत्पन्नः किं माहात्म्यः प्रकीर्तितः ॥ ३ ॥ ॥
॥सूत उवाच ॥ ॥
एष चोत्पादितो गौर्या निजांगमलतः स्वयम् ॥
क्रीडार्थं मानुषैरंगैर्मातंगाननशोभितः ॥४॥
चतुर्हस्तसमोपेत आखुवाहनगस्तथा ॥
कुठारहस्तश्च तथा मोदकाशनतोषकृत् ॥ ५ ॥
सर्वसिद्धिप्रदो लोके भक्तानां च विशेषतः ॥
एष पूर्वं प्रभोः कार्ये संग्रामे तारकामये ॥६॥।
संग्राममकरोद्रौद्रं न कृतं यच्च केनचित् ॥
निहता दानवाः सर्वे संख्यया परिवर्जिताः ॥ ७ ॥
ततः शक्रेण तुष्टेन प्रोक्तः संग्रामभूमिपः ॥
क्षत विक्षतसर्वांगो रुधिरेण परिप्लुतः ॥ ८ ॥
अस्मदर्थे त्वया युद्धं यत्कृतं सुगजानन ॥
निहता दानवाः सर्वे संख्यया परिवर्जिताः ॥९॥
तस्मात्त्वं सर्वदेवानामपि पूज्यो भविष्यसि ॥
किंपुनर्मानुषाणां च ये नित्यं विघ्नसंप्लुताः ॥ ६.२१४.१० ॥
ये त्वां संपूजयिष्यंति कार्यारंभेषु सर्वतः ॥
कार्यसिद्धिर्न संदेहस्तेषां भूयाद्गिरा मम ॥ ११ ॥
एवमुक्त्वा सहस्राक्षो विससर्जाथ तं तदा ॥
संमान्य बहुमानेन गौरीशंकरपार्श्वतः ॥ १२ ॥
अयमर्थः पुरा पृष्टो रोहिताश्वेन धीमता ॥
सर्वविप्रविनाशार्थं मार्कंडेयं महामुनिम् ॥ १३ ॥
तमेवार्थं महाभागाः कथयिष्ये यथार्थतः ॥
तच्छृणुध्वं पुरावृत्तं सर्वं सर्वे समाहिताः ॥ १४ ॥
॥ रोहिताश्व उवाच ॥ ॥
भगवन्नत्र ये मर्त्याः सर्वे विघ्नसमन्विताः ॥
शुभकृत्येषु सर्वेषु जायंते शुचयोऽपि च ॥ ॥ १५ ॥
प्रारब्धेषु च कार्येषु धर्मजेषु विशेषतः ॥
तानि विघ्नानि जायन्ते यैस्तत्कार्यं न सिध्यति ॥ १६ ॥
तस्माद्विघ्नविनाशाय किंचिन्मे व्रतमा दिश ॥
व्रतं वा नियमो वाऽथ तपो वा दानमेव च ॥ १७ ॥
सकृच्चीर्णेन येनात्र यावज्जीवति मानवः ॥
तावन्न जायते विघ्नमाजन्ममरणांतिकम् ॥ ॥ १८ ॥
॥ मार्कण्डेय उवाच ॥ ॥
अत्र ते कीर्तयिष्यामि सर्वविघ्नविनाशनम् ॥
व्रतं सर्वगुणोपेतं सर्वपापप्रणाशनम् ॥
विश्वामित्रेण सञ्चीर्णं यत्पुरा भावितात्मना ॥ १९ ॥
विश्वामित्र इति ख्यातो गाधिपुत्रः प्रतापवान् ॥
वसिष्ठेन समं तस्य वैरमासीन्महात्मनः ॥ ६.२१४.२० ॥
ब्राह्मण्यार्थे न सम्प्रोक्तः कथंचित्स महातपाः ॥
ब्राह्मणस्त्वं वसिष्ठेन ततो वैरमजायत ॥ २१ ॥
॥ रोहिताश्व उवाच ॥ ॥
कस्मान्न प्रोक्तवान्विप्रो वसिष्ठस्तु कथंचन ॥
ब्राह्मणः स परं प्रोक्तोब्रह्मादिभिरपि स्वयम्॥ २२ ॥
॥ मार्कण्डेय उवाच ॥ ॥
क्षत्रियश्च स्थितः पूर्वं विश्वामित्रो महीपतिः ॥
मृगयासु परिभ्रांतो वसिष्ठस्य तदाऽऽश्रमम्॥
प्रविष्टः क्षुत्पिपासार्त्तः स तेनाथ प्रपूजितः ॥ २३ ॥
तस्यासीन्नन्दिनीनाम धेनुः कामदुघा सदा ॥
सा सूते वाञ्छितं सद्यो यद्वसिष्ठोऽभिवाञ्छति ॥ २४ ॥
तत्प्रभावात्स भूपालः सभृत्यबलवाहनः ॥
तेन तृप्तिपरा नीतो मिष्टान्नैर्विविधैस्ततः ॥ ॥ २५ ॥
पार्थिवोऽयमिति ज्ञात्वा ह्यर्घ्याद्यैर्भोजनैः स च ॥
सोऽपि दृष्ट्वा प्रभावं तं सर्वं धेनोश्च संभवम् ॥
प्रार्थयामास तां मूल्यैर्गजवाजिसमु द्भवैः ॥ २६ ॥
न ददौ स तदा विप्रः साम्ना दानेन वा पुनः ॥
भेदेन च ततो दण्डं योजयामास वै नृपः ॥ २७ ॥
कालयामास तां धेनुं ततः कोपात्स पार्थिवः ॥ २८ ॥
साऽब्रवीन्नीयमानाऽथ वसिष्ठं किं त्वया विभो ॥
दत्ताहमस्य नृपतेर्यन्मां नयति यत्नतः ॥ २९ ॥
॥ वसिष्ठ उवाच ॥ ॥
न मया त्वं महाभागे दत्ता चास्य महीपतेः ॥
बलान्नयति यद्येष तस्माद्युक्तं समाचर ॥ ६.२१४.३० ॥
तच्छ्रुत्वा कोपसंयुक्ता नन्दिनी धेनुरुत्तमा ॥
जृंभां चकार तत्सैन्यं समुद्दिश्य नृपोद्भवम् ॥ ३१ ॥
धूमावर्तिस्ततो जाता तस्या वक्त्रात्ततः परम् ॥
ततो ज्वाला महारौद्रास्ततो योधाः सहस्रशः ॥ ३२ ॥
नानाशस्त्रधरा रौद्रा यमदूता यथा च ते ॥
पुलिन्दा बर्बराभीराः किराता यवनाः शकाः ॥ ॥ ३३ ॥
ते प्रोचुस्तां वदास्माकं कस्मात्सृष्टा वयं शुभे ॥ ३४ ॥
॥ नन्दिन्युवाच ॥ ॥
एते मां ये बलात्पापा नयंति नृपसेवकाः ॥
तान्निघ्नन्तु समादेशान्नान्यद्वांछामि किंचन ॥ ३५ ॥
ततस्तैस्तस्य तत्सैन्यं विश्वामित्रस्य सूदितम् ॥
युध्यमानं महाराज दशरात्रेण संयुगे ॥ ३६ ॥
विश्वामित्रोऽपि तद्दृष्ट्वा ब्राह्म्यं बलमनुत्तमम् ॥
प्रतिज्ञामकरोत्तत्र तारेण सुस्वरेण च ॥ ३७ ॥
अथाहं संभविष्यामि ब्राह्मणो नात्र संशयः ॥
ममापि जायते येन प्रभावश्चेदृशोऽद्भुतः ॥ ३८ ॥
तस्मात्तपः करिष्यामि यदसाध्यं सुरैरपि ॥
स्वपुत्रं स्वे पदे धृत्वा ततश्चक्रे तपो महत् ॥ ३९ ॥
ब्राह्मण्यार्थं महारौद्रं सुमहद्दुष्करं तपः ॥
ब्राह्मण्यं तेन नैवाप्तं वैलक्ष्यं परमं गतः ॥ ६.२१४.४० ॥
ततः कैलासमासाद्य देवदेवं महेश्वरम् ॥
सम्यगाराधयामास गौरीयुक्तं महेश्वरम् ॥ ४१ ॥
अहं तपः करिष्यामि ब्राह्मण्यस्य कृते प्रभो ॥
त्वदीये पर्वतश्रेष्ठे कैलासे शरणं गतः ॥ ४२ ॥
तस्माद्विघ्नस्य मे रक्षां देवदेवः प्रयच्छतु ॥
यथा नो नाशमायाति तपः सर्वं कृतं महत् ॥ ४३ ॥
॥ श्रीभगवानुवाच ॥ ॥
शुद्ध्यर्थं चैव यत्कार्यं कार्येस्मिन्नृपसत्तम ॥
विनायकसमुद्भूतां तत्त्वं पूजां समाचर ॥ ४४ ॥
येन ते जायते सिद्धिः सम्यग्ब्राह्मण्यसंभवा॥ ४५ ॥ ॥
॥ विश्वामित्र उवाच ॥ ॥
तद्वदस्व सुरश्रेष्ठ तथा तस्य करोम्यहम् ॥
पूर्वं पूजां गणेशस्य सर्वविघ्नप्रशान्तये ॥ ४६ ॥
॥ श्रीभगवानुवाच ॥ ॥
एष गौर्या पुरा कृत्वा निजांगोद्वर्तनं कृतः ॥
निर्मलेन कृतः पश्चान्नराकारश्चतुर्भुजः ॥ ४७ ॥
क्रीडार्थं मम पुत्रोऽयं बालभावः प्रकल्पितः ॥
गजवक्त्रो महाकायो लंबोदरलघूरुकः ॥ ४- ॥
ततोऽहमनया प्रोक्तः सजीवः क्रियतामयम् ॥
पुत्रको मे यथा भावी लोके पूज्य तमो विभो ॥ ४९ ॥
ततो मयापि संस्पृष्टः सृष्टिसूक्तेन पार्थिव ॥
जीवसूक्तेन सम्यक्स प्राणवान्समजायत ॥ ६.२१४.५० ॥
ततो मया प्रहृष्टेन प्रोक्ता देवी हिमाद्रिजा ॥
चतुर्थीदिवसे प्राप्ते मयाऽद्यायं विनिर्मितः ॥ ५१ ॥
पुत्रस्तव महाभागे जीवसूक्तप्रभावतः ॥
एष सर्वागणानां च मदीयानां सुरेश्वरि ॥
भविष्यति सदाऽध्यक्ष स्तस्माच्च गणनायकः ॥ ५२ ॥
पठ्यमानेन यश्चैनं जीवसूक्तेन सुन्दरि ॥
पूजयिष्यति सद्भक्त्या चतुर्थीदिवसे शुभे ॥ ५३ ॥
तस्य सर्वेषु कृत्येषु सर्वविघ्रानि कृत्स्नशः ॥
प्रयास्यंति क्षयं देवि तमः सूर्योदये यथा ॥ ५४ ॥
नमो लंबोदरायेति नमो गणविभो तथा ॥
कुठारधारिणे नित्यं तथा वाक्संगताय च ॥ ५५ ॥
नमो मोदकभक्षाय नमो दन्तैकधारिणे ॥ ५६ ॥
एभिर्मन्त्रैः समभ्यर्च्य पश्चान्मोद कजंशुभम् ॥
नैवेद्यं च प्रदातव्यं ततश्चार्घ्यं निवेदयेत् ॥ ५७ [।
अहं कर्म करिष्यामि यत्किचिच्छंभुसंभवम् ॥
अविघ्नं तत्र कर्तव्यं सर्वदैव त्वया विभो ॥ ५८ ॥
ततस्तु ब्राह्मणानां च भोजनं मोदकोद्भवम् ॥
यथाशक्त्या प्रदातव्यं वित्तशाठ्यं विवर्जयेत् ॥ ५९ ॥
एवमुक्तं मया पूर्वं स्वयमेव नृपोत्तम ॥
गणनाथं समुद्दिश्य गौर्याः पुरत एव च ॥ ६.२१४.६० ॥
ततः प्रहृष्टा सा देवी वाक्यमेतदुवाच ह ॥
अद्यप्रभृति यः पुत्रं मदीयं गणनाय कम् ॥ ६१ ॥
अनेन विधिना सम्यक्चतुर्थ्यां पूजयिष्यति ॥
तस्य विघ्नानि सर्वाणि नाशं यास्यंत्यसंशयम् ॥ ६२ ॥
स्मृत्वा वा पूजयित्वा वा यः कार्याणि करिष्यति ॥
भविष्यंति न संदेहस्ततोस्याविचलानि च ॥ ६३ ॥
न सन्देहस्ततोऽस्य श्रीरचलैव भविष्यति ॥ ६४ ॥
॥ श्रीभगवानुवाच ॥ ॥
तस्मात्त्वं हि महाभाग चतुर्थ्यां सम्यगाचर ॥
विनायकोद्भवां पूजां येनाभीष्टेन युज्यसे ॥ ६५ ॥
॥ मार्कण्डेय उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रो महीपतिः ॥
गणनाथसमुद्भूतां पूजां कृत्वा यथोचिताम् ॥ ६६ ॥
तपश्चचार विपुलं सर्वविघ्नविवर्जितम् ॥
ब्राह्मण्यं च ततः प्राप्तं सर्वेषामपि दुर्लभम् ओ। ६७ ॥
तस्मात्त्वं हि महाभाग विनायकसमुद्भवाम् ॥
पूजां कुरु चतुर्थ्यां च संप्राप्तायां विशेषतः ॥
संप्राप्नोषि महाभोगान्हृदिस्थान्नात्र संशयः ॥ ६८ ॥
यो यं काममभिध्याय गणनाथं प्रपूजयेत् ॥
स तं सर्वमवाप्नोति महेश्वरवचो यथा ॥ ६९ ॥
अपुत्रो लभते पुत्रं धनहीनो महद्धनम् ॥
शत्रूञ्जयति संग्रामे स्मृत्वा तं गणनायकम् ॥ ६.२१४.७० ॥
या नारी पतिना त्यक्ता दुर्भगा च विरूपिता ॥
सा सौभाग्यमवाप्नोति गणनाथस्य पूजया ॥ ७१ ॥
य इदं पठते नित्यं शृणुयाद्वा समाहितः ॥
न विघ्नं जायते तस्य सर्वकृत्येषु सर्वदा ॥ ७२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रोपाख्यानप्रसंगेन गणपतिपूजाविधिमाहात्म्यवर्णनंनाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥ २१४ ॥