स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २१२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
श्रुतं तीर्थत्रयं पुण्यं हाटकेश्वरसंज्ञिते ॥
क्षेत्रेऽत्र यत्त्वया प्रोक्तमस्माकं सूतनंदन ॥ १ ॥
विश्वामित्रीयमाहात्म्यं श्रोतुमिच्छामहे वयम्॥
सांप्रतं तत्समाचक्ष्व परं कौतूहलं हि नः ॥ २ ॥
॥ सूत उवाच ॥ ॥
समुद्रस्यापि पारोऽत्र लक्ष्यते च क्षितेरपि ॥
तारकाणां मुनेस्तस्य न गुणानां द्विजोत्तमाः ॥ ३ ॥
लक्ष्यते केनचित्पारो गाधेः पुत्रस्य धीमतः ॥
क्षत्रियोऽपि द्विजत्वं यः संप्राप्तो द्विजसत्तमाः॥ ॥ ४
अंत्यजत्वं गतस्यापि त्रिशंकोः पृथिवीपतेः ॥
यज्ञभागभुजो देवाः प्रत्यक्षेण विनिर्मिताः ॥ ५ ॥
ब्रह्मणः स्पर्धया येन पुरा सृष्टिर्द्विजोत्तमाः ॥
प्रारब्धा च ततो देवैः प्रणिपत्य निवारितः ॥ ६ ॥
तस्य तीर्थस्य माहात्म्यं साप्रतं वदतो मम ॥
श्रूयतां ब्राह्मणश्रेष्ठाः सर्वपातकनाश नम् ॥ ७ ॥
तेन तत्र कृतं कुण्डं स्वहस्तेन महात्मना ॥
शस्त्रं विनापि भूपृष्ठं प्रविदार्य समंततः ॥ ८ ॥
तत्र ध्यात्वा समानीता पातालाज्जाह्नवी नदी ॥
मर्त्यलोके समायातं यस्यास्तोयं सुनिर्मलम् ॥ ९ ॥
सुस्वादु च तथा स्नानात्सर्वपातकनाशनम् ॥
तेनापि स्थापितस्तत्र भास्करो वारितस्करः ॥ ६.२१२.१० ॥
यः सप्तम्यां सूर्यवारे स्नात्वा तस्य हृदे शुभे ॥
माघमासे सिते पक्षे नमस्यति दिवाकरम् ॥
स कुष्ठैर्मुच्यते सर्वैस्तथा पापैर्द्विजो त्तमाः ॥ ११ ॥
पश्चिमोत्तरदिग्भागे तस्यास्ति जलसंभवा ॥
धन्वंतरिकृता वापी सर्वरोगविनाशिनी ॥ १२ ॥
तत्र पूर्वं तपस्तेपे धन्वं तरिरुदारधीः ॥
ववन्दे तपसा युक्तो ध्यायमानः समाहितः ॥ १३ ॥
ततः कालेन महता संतुष्टस्तस्य भास्करः ॥
उवाच वरदोऽस्मीति प्रार्थयस्व महामते ॥ १४ ॥
॥ धन्वंतरिरुवाच ॥ ॥
अत्र कुण्डे नरो भक्त्या यः स्नानं कुरुते विभो ॥
तस्य स्यात्सर्वरोगाणां संक्षयः सुरसत्तम ॥ १५ ॥
॥ श्रीभगवानुवाच ॥ ॥
अद्य शस्ते दिने योऽत्र सप्तम्यां रविवासरे ॥
सूर्योदये नरः स्नानं करिष्यति समाहितः ॥
व्याधिग्रस्तः स नीरोगस्तत्क्षणात्संभविष्यति ॥ १६ ॥
नीरोगश्चेप्सितान्कामान्निष्कामो मोक्षमेष्यति ।१ १७ ॥
एवमुक्त्वा सुरश्रे ष्ठोंऽतर्धानं स गतो रविः ॥
धन्वन्तरिः प्रहृष्टात्मा स्वस्थानं च गतस्ततः ॥ १८ ॥
कस्यचित्त्वथ कालस्य रत्नाक्षोऽथ महीपतिः ॥
अयोध्याधि पतिः ख्यातः सूर्यवंशसमुद्भवः ॥ १९ ॥
कृतज्ञश्च वदान्यश्च स्वदारनिरतः सदा ॥
शूरः परमतेजस्वी सर्वशत्रुनिषूदनः ॥ ६.२१२.२० ॥
पूर्वकर्मविपाकेन तस्य भूमिपतेर्द्विजाः ॥
कुष्ठव्याधिरभूद्रौद्रो दुश्चिकित्स्यो जगत्त्रये ॥२१॥
तदस्ति नौषधं लोके यत्तेन न कृतं द्विजाः ॥
कुष्ठग्रस्तेन वा दानं यत्र दत्तं महात्मना ॥ २२ ॥
यथायथौषधान्येव स करोति ददाति च ॥
तथातथा तस्य कायो व्याधिना क्षामितो भृशम् ॥ २३ ॥
ततो वैराग्यमापन्नः स नृपो द्विजसत्तमाः ॥
पुत्रं राज्येऽथ संस्थाप्य वांछयामास पावकम् ॥
निषिद्धोऽपि हि तैः सर्वैः कलत्रैराप्तसेवकैः ॥ २४ ॥
दत्त्वा दानानि विप्रेभ्यः पूजयित्वा सुरोत्तमान् ॥
संभाष्य च सुहृद्वर्गं शासयित्वा निजं सुतम् ॥ २५ ॥
एतस्मिन्नेव काले तु भ्रममाणे यदृच्छया ॥
कश्चित्कार्पटिकः प्राप्तो दिव्यरूपवपुर्धरः ॥ २६ ॥
अथासौ व्याकुलं दृष्ट्वा तत्सर्वं नृपतेः पुरम् ॥
अपृच्छद्विस्मयाविष्टो दृष्ट्वा कञ्चिन्नरं द्विजाः ॥ २७ ॥ ॥
॥ कार्पटिक उवाच ॥ ॥
किमेषा व्याकुला भद्रे सर्वा जाता महापुरी ॥
निरानन्दाऽश्रुपूर्णाक्षैर्बालवृद्धैर्निषेविता ॥ २८ ॥
सोऽब्रवीन्नृपतिश्चायं कुष्ठव्याधिसमन्वितः ॥
साधयिष्यति सन्दीप्तं सुनिर्विण्णो हुताशनम् ॥ २९ ॥
तेनेयं नगरी कृत्स्ना परं दुःखमुपागता ॥
गुणैरस्य समाविष्टा नूनं मृत्युं प्रयास्यति ॥ ६.२१२.३० ॥
तच्छ्रुत्वा सत्वरं गत्वा नृपं कार्पटिकोऽब्रवीत् ॥ ३१ ॥
सर्वं जनं नरेन्द्रस्य मृतं जीवापयन्निव ॥
मा नृपानेन दुःखेन व्याधिजेन हुताशनम् ॥
प्रविश त्वं स्थिते तीर्थे सर्वव्याधिक्षयावहे ॥ ३२ ॥
मदीयो भूपते देह ईदृगासीद्यथा तव ॥
तत्र स्नातस्य सद्योऽथ जात ईदृक्पुनः प्रभो ॥ ३३ ॥
सप्तम्यां सूर्यवारेण भास्करस्योदयं प्रति ॥
यस्तत्र कुरुते स्नानं व्याधिग्रस्तो नरो भुवि ॥३४॥
स व्याधिना विनि र्मुक्तस्तत्क्षणात्कल्पतां व्रजेत्॥
तथा पापविनिर्मुक्तो यथाहं नृपसत्तम ॥३५॥
॥ राजोवाच ॥ ॥
कस्मिन्देशे महातीर्थं तादृशं वद मे द्रुतम् ॥ ॥ ३६ ॥
॥ कार्पटिकउवाच ॥ ॥
अस्ति भूमितले ख्यातं नागरं क्षेत्रमुत्तमम् ॥
कुष्ठव्याधिसमाक्रांतो गतोऽहं तत्र भूपते ॥ ३७ ॥
तस्य सन्दर्शनार्थाय तीर्थयात्रापरायणः ॥
तत्र मां दीनमालोक्य व्याधिग्रस्तं सुदुःखितम्॥
कश्चित्तत्राश्रयः प्राह तपस्वी कृपयान्वितः ॥ ३८ ॥
पश्चिमोत्तरदिग्भागे देवस्य जलशायिनः ॥
तीर्थमस्ति महापुण्यं विश्वामित्रजलावहम्॥३९॥
तत्र गत्वा कुरु स्नानं सप्तम्यां रविवासरे ॥
माघमासे तु संप्राप्ते शुक्लपक्षे विशेषतः ॥ ६.२१२.४० ॥
येन निर्याति ते कुष्ठो भास्करस्योदयं प्रति ॥
तच्छ्रुत्वाऽहं च तत्प्राप्तः सप्तम्यां सूर्यसंयुजि ॥
ततश्च कृतवान्स्नानं निर्झरे तत्र शांभवे ॥४१॥
ततस्तस्माद्विनिष्क्रांतो यावत्पश्याम्यहं तनुम्॥
तावन्नृपेदृशी जाता सत्यमेतत्तवोदितम् ॥४२॥
तस्मात्त्वमपि राजेंद्र तत्र स्नानं समाचर ॥
सप्तम्यां सूर्यवारेण भास्करस्योदयं प्रति ॥४३॥
येन ते नश्यति व्याधिर्विशेषमपि पातकम् ॥
तच्छ्रुत्वा स नृपस्तूर्णं तेनैव सहितो ययौ ॥ ४४ ॥
चकार स तथा स्नानं सप्तम्यां सूर्यवासरे ॥
माघमासे तु संप्राप्ते विश्वामित्रजले शुभे ॥ ४५ ॥
ततः कुष्ठविनिर्मुक्तस्तत्क्षणात्समपद्यत ॥
दिव्यरूपवपुर्द्धारी कामदेव इवापरः ॥ ४६ ॥
अथ तुष्टो नरेंद्रस्तु तस्मै कार्पटिकाय च ॥
ददौ कोटित्रयं हेम्नः प्रोवाच स ततो वचः ॥ ४७॥
त्वत्प्रसादाद्विमुक्तोऽस्मि रोगादस्मात्सुदारुणात् ॥
तस्मात्त्वं गच्छ गेहं स्वं स्थास्येऽहं चात्र निर्भरम् ॥ ४८ ॥
करिष्यामि तपो नित्यं स्वकलत्रसम न्वितः ॥
राज्ये संस्थापितः पुत्रः समर्थो राज्यकर्मणि ॥ ४९ ॥
इत्युक्त्वा प्रेरयामास तं तथान्यान्समागतान् ॥
सेवकास्वगृहायैव स्वयं तत्रैव संस्थितः ॥ ६.२१२.५० ॥
कृत्वाऽऽश्रमपदं रम्यं स्वकलत्रसमन्वितः ॥
संप्राप्तश्च परां सिद्धिं कालेन द्विजसत्तमाः ॥ ५१ ॥
तस्य नाम्ना ततः ख्यातं तीर्थ मेतत्त्रिविष्टपे ॥
सर्वव्याधिहरं रम्यं सर्वपातकनाशनम् ॥५२॥
तेन संस्थापितस्तत्र देवदेवो दिवाकरः ॥
रत्नादित्य इति ख्यातो निजनाम्ना महा त्मना ॥ ५३ ॥
सप्तम्यां सूर्यवारेण तत्र स्नात्वा प्रपश्यति ॥
यस्तु पापविनिर्मुक्तः सूर्यलोकं स गच्छति ॥ ५४ ॥
यदन्यत्तत्र संवृत्तं क्षेत्रजातं द्विजो त्तमाः ॥
तदहं कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥ ५५ ॥
आसीत्तत्र पुमान्कश्चिद्देशे ग्राम्यो जरात्मकः ॥
कुष्ठी तथापि नित्यं स करोति पशु रक्षणम् ॥५६॥
एकदा रक्षतस्तस्य पशूंस्तत्र गिरेरधः ॥
एकः पशुर्विनिष्क्रांतः सत्पथात्तृणलोभतः ॥५७॥
सप्तम्यां रविवारेण पतितस्तस्य निर्झरे ॥
न च संलक्षितस्तेन गच्छमानः कथंचन ॥ ५८ ॥
अथ यावद्गृहे सोऽथ भोजनाथं समुद्यतः ॥
तावत्तस्य पशोः स्वामी भर्त्सयन्समुपागतः ॥५९॥
नायातः स पशुः कस्मान्मदीयो मामके गृहे ॥
तस्मादानय तं शीघ्रं नो चेत्प्राणान्हरामि ते ॥ ६.२१२.६० ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा भय संत्रस्तः स कुष्ठी सत्वरं ययौ ॥
तेन मार्गेण येनैव दिवा भ्रांतो महीतले ॥ ६१ ॥
अथ दूरात्स शुश्राव तस्य रावं पशोस्तदा ॥
पतितस्य महागर्ते निशांते तमसि स्थिते ॥६२॥
ततो गत्वाऽथ तं गर्तं प्रविश्य जलमध्यतः ॥
चकर्ष तं पशुं कृच्छ्रात्पंकमध्यात्सुदारुणात् ॥
समादायाथ तं हर्म्यं प्रजगाम शनैःशनैः ॥ ६३ ॥
अर्पयित्वाथ तं तस्य स्वकीयं त्वाश्रमं गतः ॥ ६४ ॥
ततः सुप्तो महाभागाः स प्रबुद्धः पुनर्यदा ॥
प्रभाते वीक्षते गात्रं यावत्कुष्ठविवर्जितम् ॥ ६५ ॥
शोभया परया युक्तं विस्मयोत्फुल्ललोचनः ॥
चिंतयामास किं ह्येतदकस्माद्रोगसंक्षयः ॥ ६६ ॥
नूनं तस्य प्रभावोऽयं तीर्थस्याद्य निशागमे ॥
मयावगाहितं यच्च पशोरर्थं सुकर्द्दमम् ॥ ६७ ॥
ततश्च वीक्षयामास तेन गत्वा सुकौतुकात् ॥
यावत्कंडूविनिर्मुक्तस्तेजसा परिवारितः ॥ ६८ ॥
तत्र स्थाने स्वयं गत्वा ज्ञात्वा च तीर्थमुत्तमम् ॥
तपस्तेपे स तत्रैव ध्यायमानो दिवाकरम् ॥६९॥
अरण्यवासिनं सम्यग्दिवारात्रमतंद्रितः ॥
गतश्च परमां सिद्धिं दुर्लभां त्रिदशैरपि ॥ ६.२१२.७० ॥
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥ ७१ ॥
पूजयेच्चापि तं देवं भास्करं वारितस्करम् ॥
अद्यापि कलिकालेऽपि तत्र स्नातो नरः शुचिः ॥ ७२ ॥
तत्र पुण्यजले कुण्डे सप्तम्यां सूर्यवासरे ॥
यस्तं पूजयते भक्त्या सोऽपि पापैः प्रमुच्यते ॥७३॥
गायत्र्यष्टसहस्रं यो जपेत्तत्पुरतः स्थितः ॥
सोऽपि रोगविनिर्मुक्तो मुच्यते सर्वपातकैः ॥ ७४ ॥
तस्योद्देशेन यो दद्याद्धेनुं श्रद्धासमन्वितः ॥
न तस्यान्वयजातोऽपि व्याधिना परिगृह्यते ॥ ७८५ ॥
एतद्वः सर्वमाख्यातं मयादित्यस्य संभवम् ॥
माहात्म्यं श्रवणाद्यस्य नरः पापाद्विमुच्यते ॥ ७६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये रत्नादित्यमाहात्म्यवर्णनंनाम द्वादशोत्तरद्विशततमोऽध्यायः ॥ २१२ ॥ ॥