स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २१०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ॥ विश्वामित्र उवाच ॥ ॥
तच्छ्रुत्वा वचनं तस्य देवर्षेर्नारदस्य च ॥
सिद्धसेनो महीपालः प्राप्य तं योगमुत्तमम् ॥ १ ॥
माधवे मासि संप्राप्ते अष्टम्यां सूर्यवासरे ॥
सूर्योदये तु संप्राप्ते यावत्स्नात्वाऽर्चयेद्रविम् ॥२॥
तावत्कुष्ठविनिर्मुक्तः सहसा समपद्यत ॥
ततो दिव्यवपुर्भूत्वा सन्तोषं परमं गतः ॥ ३ ॥
प्रायश्चित्तं ततश्चक्रे तांबूलस्य च भक्षणम् ॥
अज्ञानेन कृतं यच्च चूर्णपत्रसमन्वितम् ॥ ४ ॥
ततश्च परमां लक्ष्मीं संप्राप्तः स महीपतिः ॥
पितृपैतामहं राज्यं स प्रचक्रे यथा पुरा ॥ ५ ॥
एतत्ते सर्वमाख्यातं शंखतीर्थसमुद्भवम् ॥
माहात्म्यं पार्थिवश्रेष्ठ किं भूयः श्रोतुमि च्छसि ॥ ६ ॥
॥ आनर्त उवाच ॥ ॥
अत्याश्चर्यमिदं ब्रह्मन्यत्त्वया परिकीर्तितम् ॥
यल्लक्ष्मीस्तस्य सन्नष्टा चूर्णपत्रस्य भक्षणात् ॥ ७ ॥
कीदृक्तेन कृतं तस्य प्रायश्चित्तं विशुद्धय्रे ॥
कीदृक्तेन कृतं तच्च निजराज्यं यथा पुरा॥ ८ ॥
॥ विश्वामित्र उवाच ॥ ॥
एषा पुण्यतमा मेध्या नागवल्ली नराधिप ॥
अयथावत्कृता वक्त्रे बहून्दोषान्प्रयच्छति ॥
तस्माद्यत्नेन संभक्ष्या दत्त्वा चैव स्वशक्तितः ॥ ९ ॥
॥ आनर्त उवाच ॥ ॥
नागवल्ली कथं जाता कस्माद्दोषो महान्स्मृतः ॥
अयथावद्भक्षणाच्च तन्मे वक्तुमिहार्हसि ॥ ६.२१०.१० ॥
॥ विश्वामित्र उवाच ॥ ॥
प्रश्नभारो महानेष त्वया मे परिकीर्तितः ॥
तथापि च वदिष्यामि यदि ते कौतुकं नृप ॥
यस्मात्सञ्जायते दोषश्चूर्णपत्रस्य भक्षणात्॥ ११ ॥
अमृतार्थं पुरा देवैर्मथितः कलशोदधिः ॥
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ १२ ॥
मुखदेशे बलिर्लग्नः पुच्छदेशेऽखिलाः सुराः ॥
वासुदेवमतेनैव सन्दधाराथ कच्छपः ॥ १३ ॥
मन्दरे भ्रममाणे तु प्रागेव नृपसत्तम ॥
आनर्त सहसा जातं रत्नत्रितयमेव च ॥ १४ ॥
नीलांबरधरः कृष्णः पुरुषो वक्रनासिकः ॥
कृष्णदन्तः स्थूलशिरा दीर्घग्रीवो महोदरः ॥
शूर्पाकारांघ्रिरेवाऽसौ चिपिटाक्षो भयावहः ॥ १५ ॥
तथा तद्रूपिणी तस्य कुभार्या राक्षसी यथा ॥
शिशुनांगुलिलग्नेन गर्भश्रमपरायणा ॥ १६ ॥
ततो देवगणाः सर्वे दानवाश्च विशेषतः ॥
मन्थानं तत्परित्यज्य तान्ग्रहीतुं प्रधाविताः ।। १७ ॥
अथ तान्विकृतान्दृष्ट्वा सर्वे शंकासमन्विताः ॥
जगृहुर्नैव राजेंद्र जहसुश्च परस्परम् ॥ १८ ॥
अथोवाच बलिर्दैत्यः कृतांजलिपुटः स्थितः ॥
ब्रह्माऽऽदि यल्लभेत्सर्वं यत्पुरस्तात्प्रजायते ॥ १९ ॥
रत्नत्रितयमेतद्धि तस्माद्गृह्णातु पद्मजः ॥
येन सिद्धिर्भवेदस्मिन्मन्थने कस्य चाऽर्पणात् ॥ ६.२१०.२० ॥
तद्वाक्यं विष्णुना तस्य शंसितं शंकरेण तु ॥
इंद्राद्यैश्च सुरैः सर्वैर्दानवैश्च विशेषतः २१॥
एतस्मिन्नंतरे ब्रह्मा जग्राह त्रितयं च तत्॥
दाक्षिण्यात्सर्वदेवानामनिच्छन्नपि पार्थिव ॥
ममन्थुः सागरं राजन्पुनस्ते यत्नमाश्रिताः ॥ २२ ॥
ततश्च वारुणी जाता दिव्यगन्धसमन्विता ॥
बलिना संगृहीता सा प्रत्यक्षं बलविद्विषः ॥ २३ ॥
आवर्ते चापरे जाते निष्क्रांतः कौस्तुभो मणिः ॥
स गृहीतो महाराज विष्णुना प्रभविष्णुना ॥ २४ ॥
अथापरे स्थिते तत्र महावर्ते निशापतिः ॥
सञ्जातः स वृषांकेन संगृहीतश्च तत्क्षणात् ॥ २५ ॥
पारिजातस्ततो जातो दिव्यगन्धसमन्वितः ॥
स गृहीत्वा सुरैः सर्वैः स्थापितो नंदने वने ॥ २६ ॥
तस्यानंतरमेवाथ सुरभी वत्ससंयुता ॥
निष्क्रांता व्योममार्गेण गोलोकं समवस्थिता ॥ २७ ॥
ततो धन्वंतरिर्जातो बिभ्रद्धस्ते कमंडलुम् ॥
संपूर्णममृतेनैव स देवैर्दानवैनृप ॥ २८ ॥
गृहीतो युगपत्क्रुद्धैः परस्परजिगीषया ॥
देवानां हस्तगो वैद्यो दैत्यानां च कमण्डलुः॥ २९ ॥
ततस्तं लोभसंयुक्ता ममंथुः सागरं नृप ॥
पद्महस्तात्र संजाता ततो लक्ष्मीः सितांबरा ॥ ६.२१०.३० ॥
स्वयमेव वृतो विष्णुस्तया पार्थिवसत्तम ॥
मथ्यमाने ततोतीव समुद्रे देवदानवैः ॥ ३१ ॥
कालकूटं समुत्पन्नं येन सर्वे सुरासुराः ॥
संप्राप्ताः परमं कष्टं प्रभग्नाश्च दिशो दश ॥ ३२ ॥
तं दृष्ट्वा भगवाञ्छंभुस्तीव्रं तीवपराक्रमः ॥
भक्षयामास राजेंद्र नीलकण्ठस्ततोऽभवत् ॥ ३३ ॥
अथ संत्यज्य मंथानं मंदरं वासुकिं तथा ॥
अमृतार्थेऽभवद्युद्धं दैत्यानां विबुधैः सह ॥ ३४ ॥
अथ स्त्रीरूपमाधाय विष्णुर्दैत्यानुवाच तान् ॥
ततो हृष्टो बलिस्तस्यै दत्त्वा पीयूषमेव तत् ॥ ३५ ॥
 विश्वासं परमं गत्वा युद्धं चक्रे सुरैः सह ॥
ततो विष्णुः परित्यज्य स्त्रीरूपं पुरुषाकृतिः ॥ ३६ ॥
तदेवामृतमादाय ययौ यत्र दिवौकसः ॥
अब्रवीत्तान्सुहृष्टात्मा पिवध्वममृतं सुराः ॥ ३७ ॥
येनामरत्वमासाद्य व्यापादयत दानवान् ॥
ते तथेति प्रतिज्ञाय पपुः पीयूषमुत्तमम् ॥ ३८ ॥
अमराश्च ततो जाता जघ्नुः संख्ये महासुरान् ॥ ३९ ॥
तेषां पानविधौ तत्र वर्तमाने महीपते ॥
राहुर्विबुधरूपेण पपौ पीयूषमुत्सुकः ॥ ६.२१०.४० ॥
स लक्षितो महादैत्यश्चंद्रार्काभ्यां च तत्क्षणात् ॥
निवेदितो हरे राजन्नायं देवो महासुरः ॥ ॥ ४१ ॥
तच्छ्रुत्वा वासुदेवेन तस्य चक्रं सुदर्शनम्॥
वधाय पार्थिवश्रेष्ठ मुक्तं वज्रसमप्रभम् ॥ ४२ ॥
यावन्मात्रं शरीरं तत्तस्य व्याप्तं महीपते ॥
अमृतेन ततः कृत्तममोघेनापि तच्छिरः ॥ ४३ ।।
ततोऽमरत्वमापन्नः स यावत्सिंहिकासुतः ॥
तावत्प्रोक्तोऽच्युतेनाथ साम्ना परमवल्गुना ॥ ४४ ।।
त्यज दैत्यान्महाभाग देवानां संमतो भव ॥
संप्राप्स्यसि परां पूजां सदा त्वं ग्रहमंडले ॥ ४५ ॥
स तथेति प्रतिज्ञाय त्यक्त्वा तान्दैत्यसत्तमान् ॥
पूजां प्राप्नोति मर्त्यानां संस्थितो ग्रहमण्डले ॥ ४६ ॥
एतस्मिन्नंतरे दैत्या निर्जिताः सुरसत्तमैः ॥
दिशो जग्मुः परित्रस्ताः केचिन्मृत्युमुपागताः ॥ ४७ ॥
पीतशेषं च पीयूषं स्थापितं नन्दने वने ॥
नागराजस्य यत्रैव स्थितमालानमेव च ॥ ४८ ॥
अहर्निशं मदस्रावी करींद्रः सोऽपि संस्थितः ॥
तत्प्रभावैः प्रभिन्नः स पीयूषस्य कमंडलुः ॥४९॥
ततो वल्ली समुत्पन्ना तस्माच्चैव कमण्डलोः ॥
तत्रालानसमारूढा वृद्धिं च परमां गता ॥ ६.२१०.५० ॥
तदुद्भवानि पत्राणि गृहीत्वा सुरसत्तमाः ॥
अपूर्वाणि सुगंधीनि मत्वा ते भक्षयंति च ॥ ५१ ॥
वक्त्रशुद्धिकृते राजन्विशेषेण प्रहर्षिताः ॥ ५२ ॥
अथ धन्वतरिर्वैद्यः स्वबुद्ध्या पृथिवीपते ॥
नागालाने यतो जाता नागवल्ली भविष्यति ॥ ५३ ॥
सदा स्मरस्य संस्थानं मम वाक्याद्भविष्यति ॥
नागवल्लीति वै नाम तस्याश्चक्रे ततः परम् ॥ ५४ ॥
संयोगं च चकाराथ तांबूलं जायते यथा ॥
पूगीफलेन चूर्णेन खदिरेणापि पार्थिव ॥ ५५ ॥
कस्यचित्त्वथ कालस्य वाणीवत्सरको नृपः ॥
प्रतोषं नीतवाञ्छक्रं तपसा निर्मलेन च ॥ ५६ ॥
ततस्तत्तपसा तुष्ट इन्द्रो वचनमब्रवीत् ॥ ५७ ॥
॥ इन्द्र उवाच ॥ ॥
भोभोः पार्थिव तुष्टोऽस्मि तपसाऽनेन सांप्रतम् ॥
ब्रूहि यत्ते वरं दद्मि मनसा वांछितं सदा ॥ ५८ ॥
सोऽब्रवीद्यदि मे तुष्टो यदि देयो वरो मम ॥
विमानं खेचरं देहि येनागच्छामि ते गृहे ॥
नित्यमेव धरापृष्ठाद्वंदनार्थं तव प्रभो ॥५९॥
स तथेति प्रतिज्ञाय हंसबर्हिणनादितम् ॥
विमानं प्रददौ तस्मै मनोमारुतवेगधृक् ॥ ६.२१०.६० ॥
स तत्र नित्यमारुह्य प्रयाति त्रिदशालयम् ॥
भक्त्या परमया युक्तः सहस्राक्षं प्रवंदितुम् ॥ ६१ ॥
तस्य शक्रः स्वहस्तेन तांबूलं च प्रयच्छति ॥
स च तद्भक्षयामास प्रहृष्टेनांतरात्मना ॥ ६२ ॥
वृद्धभावेऽपि संप्राप्ते तस्य कामोऽत्यवर्द्धत ॥
तांबूलस्य प्रभावेन सुमहान्पृथिवीपते ॥ ६३ ॥
अथ शक्रमुवाचेदं स राजा विनयान्वितः ॥
नागवल्लीप्रदानेन प्रसादो मे विधीयताम् ॥ ६४ ॥
मर्त्यलोके समानेतुं प्रचारं येन गच्छति ॥
स तथेति प्रतिज्ञाय तस्मै तां प्रददौ तदा ॥ ६५ ॥
गत्वा निजपुरं सोपि स्वोद्यानेऽस्थापयत्तदा ॥
ततः कालेन महता प्रचारं सा गता क्षितौ ॥ ६६ ॥
यस्याः स्वादनतो लोकः कामात्मा समपद्यत ॥
न कश्चिद्यजनं चक्रे याजनं च विशेषतः ॥
अन्या धर्मक्रियाः सर्वाः प्रणष्टा धर्मसंभवाः ॥ ६७ ॥
ततो देवगणाः सर्वे यज्ञभागविवर्जिताः ॥
पीड्यमानाः क्रुधा विष्टा गत्वा प्रोचुः पितामहम् ॥ ६८ ॥
मर्त्यलोके सुरश्रेष्ठ नष्टा धर्मक्रिया भृशम् ॥
कामासक्तो यतो लोकस्तांबूलस्य च भक्षणात् ॥
तस्मात्कुरु प्रसादं नो येनास्माकं क्रिया भवेत् ॥ ६९ ॥
एतस्मिन्नेव काले तु पुष्करस्थं पितामहम् ॥
यजनार्थे समायातं दरिद्रो वीक्ष्य पार्थिव ॥ ६.२१०.७० ॥
प्रणिपत्य ततः प्राह विनयावनतः स्थितः ॥
निर्विण्णोऽहं सुरश्रेष्ठ ब्राह्मणानां गृहे स्थितः ॥ ७१ ॥
तस्मात्कीर्तय मे स्थानं श्रेष्ठं वित्तवतां हि यत् ॥
तत्र सञ्जायते तृप्तिः शाश्वती प्रचुरा प्रभो ॥ ७२ ॥
तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा पितामहः ॥
अब्रवीच्च दरिद्रं तं छिद्रार्थं धनिना मिह ॥ ७३ ॥
चूर्णपत्रे त्वया वासः सदा कार्यो दरिद्र भोः ॥
तांबूलस्य तु पर्णाग्रे भार्यया मम वाक्यतः ॥ ७४ ॥
पर्णानां चैव वृंतेषु सर्वेषु त्वत्सुतेन च ॥
रात्रौ खदिरसारे च त्वं ताभ्यां सर्वदा वस ॥ ७५ ॥
धनिनां छिद्रकृत्प्रोक्तमेतत्स्थानचतुष्टयम् ॥
पार्थिवानां विशेषेण मम वाक्या द्व्रज द्रुतम् ॥ ७६ ॥
॥ नारद उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥ ७७ ॥
तांबूलोत्थानि छिद्राणि यथा स्युर्धनिनामिह ॥
तानि सर्वाणि चीर्णानि त्वया राजन्नजानता ॥
तेन वै विभवोच्छित्तिः संजाता सहसा नृप ॥ ७८ ॥
॥ राजोवाच ॥ ॥
तदर्थमपि मे ब्रूहि प्रायश्चित्तं मुनीश्वर ॥
कदाचिद्भक्षणं मे स्यात्तांबूलस्य तथाविधम् ॥ ७९ ॥
येन सञ्जायते शुद्धिः कुतांबूलसमुद्भवा ॥ ६.२१०.८० ॥
॥ विश्वा मित्र उवाच ॥ ॥
शृणु राजन्प्रवक्ष्यामि प्रायश्चित्तं तु यच्चरेत् ॥
आश्वासनेन शुद्ध्यर्थं कुतांबूलस्य भक्षणात् ॥ ८१ ॥
पर्वकालं समुद्दिश्य सम्यक्छ्रद्धासमन्वितः ॥
आनयेद्ब्राह्मणं राजन्वेदवेदांगपारगम् ॥ ८२ ॥
प्रक्षाल्य चरणौ तस्य वाससी परिधापयेत् ॥
संपूज्य गंधपुष्पाद्यैस्ततः पत्रं हिरण्मयम् ॥
स्वशक्त्या कारयित्वाऽथ चूर्णे मुक्ताफलं न्यसेत् ॥ ८३ ॥
पूगीफलं च वैडूर्यं खदिरं रूप्यमेव च ॥
मन्त्रेणानेन विप्राय तथैव च समर्पयेत् ॥ ८४ ॥
यन्मया भक्षितं पूर्वं वृन्तं पत्रसमुद्भवम्॥
चूर्णपत्रं तथैवान्यद्रात्रौ खदिरमेव च ॥ ८५ ॥
तस्य पापस्य शुद्ध्यर्थं तांबूलं प्रतिगृह्यताम् ॥
ततस्तु ब्राह्मणो मंत्रमेवं राजन्नुदाहरेत् ॥ ८६ ॥
यजमानहितार्थाय सर्वपापविशुद्धये ॥
अज्ञानाज्ज्ञानतो वापि कुतांबूलं प्रभक्षितम् ॥ ८७ ॥
भक्षयिष्यसि यच्चान्यत्कदाचिन्मे प्रसादनात् ॥
तस्य दोषो न ते भावी मम वाक्यादसंशयम् ॥ ८८ ॥
अनेन विधिना दत्त्वा तांबूलं शुद्धिमाप्नुयात् ॥
कुतांबूलस्य दोषेण गृह्यते न नरो नृप ॥ ८९ ॥
तस्मात्त्वं हि महाराज व्रतमेतत्समाचर ॥
बहु पुण्यतमं ह्येतन्महाभोगविवर्द्धनम् ॥ ६.२१०.९० ॥
यः प्रयच्छति राजेन्द्र विधिनानेन भक्तितः ॥
जन्मजन्मान्तरे वापि न तांबूलेन मुच्यते ॥ ९१ ॥
तांबूलं भक्षयित्वा यो नैतद्दानं प्रयच्छति ॥
तांबूलवर्जितः सोऽत्र भवेज्जन्मनिजन्मनि ॥ ९२ ॥
तांबूलवर्जितं यस्य मुखं स्यात्पृथिवीपते ॥
कृपणस्य दरिद्रस्य तद्बिलं न हि तन्मुखम् ॥ ९३ ॥
तांबूलं ब्राह्मणेन्द्राय यो दत्त्वा प्राक्प्रभक्षयेत् ॥
सुरूपो भाग्यवान्दक्षो भवेज्जन्मनिजन्मनि ॥ ९४ ॥
एतत्ते सर्वमाख्यातं कुतांबूलस्य भक्षणात् ॥
यत्फलं जायते पुंसां यद्दानेन महीपते ॥ ९५ ॥
शंखादित्यानुषंगेण तांबूलस्य च भक्षणे ॥
ये दोषा ये गुणा राजन्दानं चैव प्रभक्षणे ॥ ९६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये तांबूलोत्पत्ति तांबूलमाहात्म्यवर्णनंनाम दशोत्तरद्विशततमोऽध्यायः ॥ २१० ॥ ॥ ॥ ॥