स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २०८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ विश्वामित्र उवाच ॥ ॥
एवं शक्रे दिवं प्राप्ते देवेषु सकलेषु च ॥
गौतमः स्वाश्रमं प्रापत्कोपेन महता ज्वलन् ॥ १ ॥
ततः स कथयामास सर्वं देवविचेष्टितम् ॥
वरदानं च शक्राय शता नन्दस्य चाग्रतः ॥ २ ॥
तच्छ्रुत्वा पितरं प्राह विनयावनतः स्थितः ॥
तातांबाया न कस्मात्त्वं प्रसादं प्रकरोषि मे ॥ ३ ॥
उत्थापने न ते किञ्चिदसाध्यं विद्यते विभो ॥
तस्मात्कुरु प्रसादं मे यथा स्यान्मम चांबया ॥ ४ ॥
समागमो मुनिश्रेष्ठ दीनस्योत्कण्ठितस्य च ॥
तस्मादुत्थाप्य तां तूर्णं प्रायश्चित्तविधिं ततः ॥
तस्मादादिश मे क्षिप्रं येन शुद्धिः प्रजायते ॥ ५ ॥
॥ गौतम उवाच ॥ ॥
मद्यावलिप्तभांडस्य यदि शुद्धिः प्रजायते ॥
तत्स्त्रीणां जायतेशुद्धिर्योनौ शुक्राभिषेचनात् ॥ ६ ॥
ब्राह्मणस्तु सुरां पीत्वा मौंजीहोमेन शुध्यति ॥
तिंगिनीं साधयित्वा च न तु नारी विधर्मिता ॥ ७ ॥
मद्यभांडमपि प्रायो यथावद्वह्निशोधितम्॥
विशुध्यति तथा नारी वह्निदग्धा विशुध्यति ॥
यस्या रेतोऽथ संक्रांत मुदरांतेऽन्यसंभवम्॥ ८ ॥
एतस्मात्कारणान्माता मया ते पुत्र सा शिला ॥
विहिता न हि तस्याश्च विशुद्धिस्तु कथञ्चन ॥ ९ ॥
॥ शतानन्द उवाच ॥ ॥
यद्येवं साधयिष्यामि तत्कृतेऽहं हुताशनम्॥
विषं वा भक्षयिष्यामि पतिष्यामि जलाशये ॥ ६.२०८.१० ॥
मातुर्वियोगतस्तात सत्यमेतन्मयोदितम् ॥
धर्मद्रोणाः स्थिताश्चान्ये मन्वाद्या मुनयस्तथा ॥ ११ ॥
इतिहासपुराणानि वेदांतानि बहूनि च ॥
संचिंत्य तात सर्वाणि देहि शुद्धिं ममापि ताम्॥
मम मातुः करिष्यामि नो चेत्प्राणपरिक्षयम् ॥ १२ ॥
॥ विश्वामित्र उवाच ॥
तच्छ्रुत्वा सुचिरं ध्यात्वा गौतमः प्राह तं सुतम्॥
परिष्वज्य स्वबाहुभ्यां मूर्ध्न्याघ्राय ततः परम् ॥१३॥
यद्येवं वत्स मा कार्षीः साहसं पापसंभवम्॥
आत्मदेहविघातेन श्रूयतां वचनं मम ॥ ॥ १४ ॥
मेध्यत्वे तव मातुश्च शुद्धिर्ज्ञाता मया पुरा ॥
यया सा मम हर्म्यार्हा भविष्यति न संशयः ॥ १५ ॥
उत्पत्स्यते रवेर्वंशे रामरूपी जना र्दनः॥
रावणस्य वधार्थाय मानुषं रूपमास्थितः॥
तस्य पादस्य संस्पर्शाद्भूयः शुद्धा भविष्यति।
तस्मात्प्रतीक्ष्य तावत्त्वमौत्सुक्यं व्रज पुत्रक॥
एतत्सम्यङ्मया ज्ञातं वत्स दिव्येन चक्षुषा॥१८॥
एतच्छ्रुत्वा तथेत्युक्त्वा शतानन्दः प्रहर्षितः॥
स्थितः प्रतीक्षमाणस्तु तं कालं मातृवत्सलः ॥ १९ ॥
ततः कालेन महता रामरूपी जनार्दनः ॥
रावणस्य वधार्थाय जातो दशरथालये ॥ ६.२०८.२० ॥
स मया भगवा विष्णुर्बालभावेन संस्थितः ॥
निजयज्ञस्यरक्षार्थं समानीतः स्वमाश्रमम् ॥
राक्षसानां विनाशाय यज्ञकर्मविनाशिनाम् ॥ २१ ॥
हतैस्तै राक्षसै रौद्रैर्मम पूर्णोऽभवन्मखः ॥
अयोध्यायाः समानीतः स मया रघुनंदनः ॥ २२ ॥
सीतायाश्च विवाहार्थं लक्ष्मणेन समन्वितः ॥
श्रुत्वा स्वयंवरं तस्याः पार्थिवानां समागमम् ॥ २३ ॥
ततो मार्गे मया दृष्टा गौतमस्याश्रमे शुभे ॥
अहिल्या सा शिला रूपा प्रमाणेन महत्तमा ॥ २४ ॥
ततः प्रोक्तो मया रामः स्पृशेमां वत्स पाणिना ॥
मानुषत्वं लभेद्येन गौतमस्य प्रिया मुनेः ॥
शापदोषेण संजाता शिलेयं तस्य सन्मुनेः ॥ २५ ॥
अविकल्पं ततो रामो मम वाक्येन तां शिलाम् ॥
पस्पर्श पार्थिवश्रेष्ठ कौतू हलसमन्वितः ॥ २६ ॥
अथ रामेण संस्पृष्टा सहसैवांगना मुनेः ॥
शुशुभे मानुषी जाता दिव्यरूपवपुर्धरा ॥ २७ ॥
ततः सा लज्जयाऽऽविष्टा प्रणिपत्य च गौतमम् ॥
स्मरमाणाऽऽत्मनः कृत्यं यच्छक्रेण समन्वितम् ॥ २८ ॥
प्रायश्चित्तं मम स्वामिन्देहि सर्वमशेषतः ॥
यन्नरस्य समायोगे परस्याह प्रजापतिः ॥ २९ ॥
अहं दुष्करमप्येतत्करिष्यामि न संशयः ॥
येन शुद्धिर्भवेन्मह्यं पुरश्चरणसेवनात् ॥ ६.२०८.३० ॥
ततः संचिंत्य सुचिरं प्रोवाच गौतमस्तदा ॥
कुरु चान्द्रायणशतं कृच्छ्राणां च सहस्रकम् ॥ ३१ ॥
प्राजापत्यायुतं चापि तीर्थयात्रापरायणा ॥
अष्टषष्टिषु तीर्थेषु यानि तीर्थानि भूतले ॥
तेषां संदर्शनात्सम्यक्ततः शुद्धिमवाप्स्यसि ॥ ३२ ॥
सा तथैति प्रतिज्ञाय नित्यं व्रतपरायणा ॥
अष्टषष्टिसु तीर्थेषु वाराणस्यादिषु क्रमात्॥ ३३ ॥
बभ्राम तानि लिंगानि पूजयन्ती प्रभक्तितः ॥
क्रमेणैव तु संप्राप्ता हाटकेश्वरसंभवम् ॥ ३४ ॥
यावत्पश्यति सा साध्वी तावन्नागबिलो महान् ॥
पूरितो नागरेणैव मार्गः पातालसंभवः ॥ ३५ ॥
गच्छंति येन पूर्वं तु तीर्थयात्रापरायणाः ॥
हाटकेश्वरदेवस्य दर्शनार्थं मुनीश्वराः ॥ ३६ ॥
अथ सा चिन्तयामास न दृष्टे तु सुरेश्वरे ॥
हाटकेश्वरदेवे च न हि यात्राफलं लभेत् ॥ ३७ ॥
तस्मात्तपः करि ष्यामि स्थित्वा चैव सुदुष्करम् ॥
येनाहं तत्प्रभावेन तं पश्यामि सुरेश्वरम् ॥ ३८ ॥
एवं सा निश्चयं कृत्वा तपस्तेपे सुदुष्करम् ॥
दर्शनार्थं हि देवस्य पातालनिलयस्य च ॥ ३९ ॥
पंचाग्निसाधका ग्रीष्मे हेमन्ते सलिलाश्रया ॥
वर्षास्वाकाशशयना सा बभूव तपस्विनी ॥ ६.२०८.४० ।।
हरलिंगं प्रतिष्ठाप्य स्वनाम्ना चांतिके तदा ॥
त्रिकालं पूजयामास गन्धपुष्पानुलेपनैः ॥ ४१ ॥
एवं तपसि संस्थायास्तस्याः कालो महान्गतः ॥
न च संदर्शनं जातं हाटकेश्वरसंभवम्॥ ४२ ॥
कस्यचित्त्वथ कालस्य शतानन्दश्च तत्सुतः ॥
स तामन्वेषमाणस्तु तस्मिन्क्षेत्रे समागतः ॥
मातृस्नेह परीतात्मा तीर्थान्वेषणतत्परः ॥ ४३ ॥
अथ तां तत्र संवीक्ष्य दारुणे तपसि स्थिताम् ॥
प्रणिपत्य स्थितो दीनः सदुःखो वाक्यमब्रवीत् ॥ ४४ ॥
 किमत्र क्लिश्यते कायस्तपः कृत्वा सुदारुणम्॥
सप्तषष्टिषु तीर्थेषु यानि लिंगानि तेषु च ॥ ४५ ॥
माहेश्वराणि लिंगानि तानि दृष्टानि च त्वया ॥
एतत्पातालसंस्थं च हाटकेश्वरसंज्ञितम्॥ ४६ ॥
न पश्यति नरः कश्चिद्दृष्टं क्षेत्रे न केनचित् ॥
तेन शुद्धिश्च संजाता स्वभर्त्रा विहिता तु या ॥४७ ॥
तस्मादागच्छ गच्छामस्ताताश्रामपदे शुभे ॥
त्वन्मार्गं वीक्षते तातः कर्षुको वर्षणं यथा ॥ ४८ ।
॥ आहिल्योवाच ॥ ॥
यावत्पश्यामि नो देवं हाटकेश्वरसंज्ञितम् ॥
तावद्गच्छामि नो गेहं यदा पश्यामि तं हरम् ॥ ४९ ॥
तदा यास्ये गृहं पुत्र निश्चयोऽयं मया कृतः ॥ ६.२०८.५० ॥
तच्छ्रुत्वा सोऽपि तां प्राह ह्येष चेन्निश्चयस्तव ॥
मयाऽपि तातपार्श्वे तु प्रगंतव्यं त्वया -प ॥ ५१ ॥
एवमुक्त्वा ततः सोपि स्थापयामास शांभ वम् ॥
लिंगं च पूजयामास त्रिकालं तपसि स्थितः ॥ ५२ ॥
शतानन्दस्तु राजर्षिः गन्धपुष्पानुलेपनैः ॥
नैवेद्यैर्विविधैः सूक्तैर्वेदोक्तैः पर्यतोषयत् ॥ ५३ ॥
षष्ठान्नकालभोज्यस्य व्रतचर्यारतस्य च ॥
एवं तस्याऽपि संस्थस्य गतः कालो महान्मुने ॥
न च तुष्यति देवेश स्ताभ्यां द्वाभ्यां कथञ्चन ॥ ५४ ॥
ततः कालेन महता गौतमोऽपि महामुनिः ॥
आजगाम स्वयं तत्र पुत्रदर्शनलालसः ॥ ५५ ॥
स दृष्ट्वा भार्यया सार्धं पुत्रं तपसि संस्थितम् ॥
तुतोष प्रथमं तावत्पश्चादुःखसमन्वितः ॥ ५६ ॥
अहो बत महत्कष्टं पुत्रो मे कृशतां गतः ॥
तपसः संप्रभावेन नयामि स्वगृहं कथम् ॥
भार्येयं च तथा मह्यं विवर्णा तु कृशा स्थिता ॥ ५७ ॥
एवं संचिंत्य मनसा तावुभौ प्रत्यभाषत ॥
गम्यतां स्वगृहं कृत्वा तपसः संनिवर्तनम् ॥ ५८ ॥
॥ शतानन्द उवाच ॥ ॥
तातांबा बहुधा प्रोक्ता तपसः संनिवर्तने ॥
नो गच्छति तथा हर्म्यमदृष्टे हाटकेश्वरे ॥ ५९ ॥
अहं तया विहीनस्तु नैव यास्यामि निश्चितम् ॥
एवं ज्ञात्वा महाभाग यद्युक्तं तत्समाचर ॥ ६.२०८.६० ॥
॥ गौतम उवाच ॥ ॥
यद्येवं निश्चयो वत्स तव मातुश्च संस्थितः ॥
अहं ते दर्शयिष्यामि तपसा हाटकेश्वरम् ॥ ६१ ॥
एवमुक्त्वा ततः सोऽपि तपश्चक्रे महामुनिः ॥
एकांतरोपवासस्तु स्थितो वर्षशतं मुनिः॥
षष्ठान्नकालभोजी च तावत्काले ततोऽभवत्॥६२॥
त्रिरात्रभोजी पश्चाच्च स बभूव मुनीश्वरः।
तावत्कालं फलैर्निन्ये तावत्कालं जलाशनः॥
वायुभक्षस्ततो भूयस्तावत्कालमभून्मुनिः॥६३॥
ततो वर्षसहस्रांते परमे संव्यवस्थिते॥
प्रभिद्य मेदिनीपृष्ठं निष्क्रांतं लिंगमुत्तमम् ॥ ६४
द्वादशार्कप्रतीकाशं सर्वलक्षणलक्षितम ॥
एतस्मिन्नंतरे देवः शंभुः प्रत्यक्षतां गतः ॥ ६५ ॥
एतस्मिन्नेव काले तु भगवाञ्छशिशेखरः ॥
तस्य दृष्टिपथं गत्वा वाक्यमेतदुवाच ह ॥ ६६ ॥
गौतमाऽहं प्रतुष्टस्ते तपसाऽनेन सुव्रत ॥ ६७ ॥
एतच्च मामकं लिंगं हाटकेश्वरसंज्ञितम् ॥
पातालाच्च विनिष्क्रांतं तव भक्त्या महामुने ॥६८॥
एतदर्थं तपस्तप्तं सभार्येण त्वया हि तत् ॥
सपुत्रेणाखिलं जातं फलं तस्य यथेप्सितम् ॥ ६९ ॥
एतत्पश्यतु ते भार्या अहिल्या दिव्यरूपिणी ॥
अष्टषष्ट्युद्भवं येन यात्राफलमवाप्नुयात् ॥ ६.२०८.७० ॥
त्वं चापि प्रार्थय वरं येन सर्वं ददामि ते ॥ ७१ ॥
॥ गौतम उवाच ॥
हाटकेश्वरसंज्ञे तु सकृद्दृष्टे च यत्फलम् ॥
पातालस्थे च यत्पुण्यं नराणां जायते फलम् ॥
दृष्टेनानेन तत्पुण्यं पूजितेन विशेषतः ॥ ७२ ॥
अन्येऽपि ये जनास्तच्च पूजयंति प्रभक्तितः ॥
चैत्रशुक्लचतुर्दश्यां ते प्रयांतु त्रिविष्टपम् ॥ ७३ ॥
एतल्लिंगं न जानंति नराः सिद्ध्यभिकांक्षिणः ॥
विशंति विवरं तेन हाटकेश्वरकांक्षया ॥ ७४ ॥
अपि पापसमोपेता लिंगस्यास्य प्रभावतः ॥
परदारोद्भवा त्पापादहिल्येश्वरदर्शनात् ।। ७९ ॥
मुच्यंते मानवास्तद्वच्छतानंदेश्वरादपि ॥
तस्मिन्दिने विहितया ताभ्यां चैव प्रपूजया ॥ ७६ ॥
॥ विश्वामित्र उवाच ॥ ॥
एतस्मिन्नेव काले तु व्याप्तः स्वर्गोऽखिलो नृप ॥
मानुषैरपि पापाढ्यैः सर्वधर्मविवर्जितैः ॥ ७७ ॥
न कश्चित्कुरुते यज्ञं तीर्थ यात्रामथापरम् ॥
न व्रतं नियमं चैव दानस्यापि कथामपि ॥ ७८ ॥
तच्च लिंगत्रयं दृष्ट्वा स्पृष्ट्वा संपूज्य भक्तितः ॥ ७९ ॥
ततो भीताः सुराः सर्वे सस्पर्धैर्मानुषैर्वृताः ॥
प्रोचुः पुरंदरं गत्वा व्यथया प्रया युताः ॥ ६.२०८.८० ॥
मर्त्यलोके सहस्राक्ष सर्वे धर्माः क्षयं गताः ॥
अपि पापसमाचारा अभ्येत्य पुरुषा इह ॥ ८१ ॥
अस्माभिः सह गर्वाढ्याः स्पर्धां कुर्वंति सर्वदा ॥
हाटकेश्वरजे क्षेत्रे लिंगत्रयमनुत्तमम् ॥ ८२ ॥
यत्स्थितं स्थापितं तत्र गौतमेन महात्मना ॥
सपुत्रेण सदारेण तस्य पूजाप्रभावतः ॥ ८३ ॥
अपि पापसमाचारा इहागच्छंति तेऽखिलाः ॥
यमस्य नरकाः सर्वे सांप्रतं शून्यतां गताः ॥ ८४ ॥
गौतमेन समानीतः पातालाद्धाटकेश्वरः ॥
तपसा तोषयित्वा तु तत्र स्थाने सुरेश्वरः ॥ ८५ ॥
तत्प्रभावादयं जातो व्यवहारो धरातले ॥ ८६ ॥
एवं ज्ञात्वा प्रवर्तंते यथा यज्ञास्तथा कुरु ॥
तैर्विना नैव तृप्तिः स्यादस्माकं च कथंचन ॥ ८७ ॥
तच्छ्रुत्वा वासवस्तत्र समाहूय च मन्मथम् ॥
क्रोधं लोभं तथा दंभं मत्सरं द्वेषसंयुतम् ॥ ९८ ॥
गत्वा धरातलं सर्वे ममादेशाद्द्रुतं ततः ॥
स्वशक्त्या वारयध्वं भो गौतमेश्वरपूजकान् ॥ ८९ ॥
अहिल्येश्वरदेवस्य शतानंदेश्वरस्य च ॥
शक्रादेशं तु संप्राप्य ते गता धरणीतले ॥ ६.२०८.९० ॥
कामादिका नरान्भेजुर्गौतमेश्वरपूजकान् ॥
तथाऽहिल्येश्वरस्यापि शतानंदेश्वरस्य च ॥ ९१ ॥
ततो भूयो मखा जाताः समग्रे धरणीतले ॥
संपूर्णदक्षिणाः सर्वे वतानि नियमास्तथा ॥ ९२ ॥
तीर्थयात्रा जपो होमो याश्चान्याः सुकृतक्रियाः ॥
एतत्सर्वं मया ख्यातं यत्पृष्टोऽस्मि धराधिप ॥ ९३ ॥
गयाकूप्यनुषंगेण शक्रगौतमचेष्टितम् ॥
बालमण्डनमाहात्म्यं शक्रेश्वरसमन्वितम् ॥ ९४ ॥
इन्द्रस्य स्थापनं मर्त्ये अहिल्याख्यानमेव च ॥
गौतमेश्वरमाहात्म्यं तथाहिल्येश्वरस्य च ॥ ९५ ॥
यश्चैतच्छृणुयान्नित्यं श्रद्धया परया युतः ॥
स मुच्येत्पातकात्सद्यः परदारसमुद्भवात् ॥ ९६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गौतमेश्वराहिल्येश्वर शतानन्देश्वरमाहात्म्यवर्णनंनामाष्टोत्तरद्विशततमोऽध्यायः ॥ २०८ ॥