स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २०५
॥ विष्णुरुवाच ॥ ॥
एवं ज्ञात्वा सहस्राक्ष मम वाक्यं समाचर ॥
यदि ते वल्लभास्ते च ये हता रणमूर्धनि ॥ १ ॥
युध्यमानास्तवाग्रे च गयाश्राद्धेन तर्पय ॥
तान्सर्वान्प्रेतभावाच्च येन मुक्तिं भजंति ते ॥ २ ॥
पलायनपरा ये च पृष्ठदेशे हता मृताः ॥ ३ ॥
॥ इन्द्र उवाच ॥ ॥
वर्षेवर्षे तदा श्राद्धं प्रकरोति पितामहः ॥
गयां गत्वा दिने तस्मिन्पितॄणां दिव्यरूपिणाम् ॥ ४ ॥
तत्कथं देव गच्छामि तत्राहं श्राद्धसिद्धये ॥
तस्मात्कथय मे तेषां किंचिच्छ्राद्धाय भूतले ॥
मुक्तिदं येन गच्छामि तव वाक्याज्जनार्दन ॥ ५ ॥
॥ विश्वामित्र उवाच ॥ ॥
ततः स सुचिरं ध्यात्वा तमुवाच जनार्दनः ॥
अस्ति तीर्थं महत्पुण्यं तस्मादप्यधिकं च यत् ॥ ६ ॥
हाटकेश्वरजे क्षेत्रे कूपिकामध्यसंस्थितम् ॥
अमावास्यादिने तत्र चतुर्दश्याश्च देवप ॥
गया संक्रमते सम्यक्सर्वतीर्थसमन्विता ॥ ७ ॥
कन्यासंस्थे रवौ तत्र यः श्राद्धं कुरुते नरः ॥
अष्टवंशोद्भवैर्विप्रैः स पितॄंस्तारयेन्निजान् ॥ ८ ॥
अपि प्रेतत्वमापन्नान्किं पुनः स्वर्गसंस्थितान् ॥
तत्क्षेत्रप्रभवा विप्रा अष्टवंशसमुद्भवाः ॥ ९ ॥
तप उग्रं समास्थाय वर्तंते हिमपर्वते ॥
आनर्ताधिपतेर्दानाद्भीतास्तत्र समागताः ॥ ६.२०५.१० ॥
तान्गृहीत्वा द्रुतं गच्छ तत्र संबोध्य गौरवात् ॥
सामपूर्वैरुपायैस्तैस्तेषामग्रे समाचर ॥ ११ ॥
श्राद्धं चैव यथान्यायं ततः प्राप्स्यसि वांछितम् ॥
ते चाऽपि सुखिनः सर्वे भविष्यंति समागताः ॥ १२ ॥
त्वया सह प्रपूज्याश्च ह्यस्माभिः श्राद्धकारणात् ॥
तच्छ्रुत्वा सहसा शक्रः सन्तोषं परमं गतः ॥ १३ ॥
हिमवंतं समुद्दिश्य प्रस्थितस्त्वरयाऽन्वितः ॥
वासुदेवोऽपि राजेंद्र क्षीराब्धिमगमत्तदा ॥ १४ ॥
हिमवन्तं समाश्रित्य शक्रोऽपि ददृशे द्विजान् ॥
अष्टवंशसमुद्भूतान्विष्णुना समुदाहृतान् ॥ १५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शक्रविष्णुसंवादे गयाश्राद्धफलमाहात्म्य वर्णनंनाम पञ्चोत्तरशततमोऽध्यायः ॥२०५॥